कादम्बरी /82
This page has not been fully proofread.
पम्पासरः ]
पूर्वभागः ।
पाशकुसुमैः सुरभीकृतम्, एकदेशावतीर्णमुनिजनापूर्यमाण कमण्डलुकलजलध्वनिमनोहरम्,
उन्मिषदुत्पलवनमध्यचारिभिः सवर्णतया रसितानुमेयै: कादम्बैरासेवितम् अभिषेकाव-
तीर्ण पुलिन्द राजशनैरीकुच चन्दनधूलिधवलिततरम्, उपान्तकेतकीरजःपटलबद्धकूलपुलिनम्,
•आसन्नाश्रमागततापसक्षालिताद्वैवल्कलकषायपाटलतटजलम्, उपतटवृक्षपल्लवानिलवी जितम्,
अविरलतमालवीध्यन्धकारिता सिवालिनिर्वासितेन संचरता प्रतिदिनमृष्यमूकवासिना सुप्री-
वेणावलुप्तफललघुलताभिरुदवासितापसानां देवतार्चनोपयुक्तकुसुमाभिरुत्पतजैलचरपक्षपुट-
विगलितजलबिन्दुसे कसुकुमार किसलयाभिलतामण्डपतलशिखण्डिमण्डलारब्धताण्डवाभिर-
नेककुसुमपरिमलवाहिनीभिर्वनदेवतभिः वश्वासवासिताभिरिव वनराजिर्भिरूपरुद्धतीरम्,
9
४९
विशेषयनाह–एकदेशेति । एकदेश एकभागस्तत्रावतीर्णोऽन्तः प्रविष्टो यो मुनिजनस्तेनापूर्यमाणानि जलेन
श्रियमाणानि यानि कमण्डलूनि पात्रविशेषाणि तेषां कलो मधुरो यो जलध्वनिः पानीयशब्दस्तन मनोह-
रमभिरामम् । कादम्बेति । कादम्बाः कलहंसास्तैरासमन्तात्सेवितं पर्युपासितम् । अथ कादम्बान्विशि
नष्टि - उन्मिषदिति । उन्मिषन्ति विकसन्ति यान्युत्पलानि कुवलयानि तेषां वनं खण्डस्तन्मध्यचारिभिस्त-
दन्तर्गामिभिः । सवर्णेति । सवर्णतया सादृश्यतया रसितं स्खनितं तेनानुमेयैरनुमातुं योग्यैः । पुनः प्रका-
रान्तरेण सरो विशिष्टि — अभीति । अभिषेकार्थ स्नानार्थमवतीर्णा जलान्तः प्रविष्टाः पुलिन्दराजस्य
भिल्लस्वामिनो याः शबर्यः स्त्रियस्तासां कुचाः स्तनास्तेषां चन्दनं मलयजं तस्य धूलिभिः पांसुभिः धवलिततर-
मतिशयेन शुश्रीकृतम् । उपान्तेति । उपान्ते समीपे याः केतक्यो मालत्यस्तासां रजः परागस्तस्य पटलं
समूहस्तेन बद्धमानद्धं कूलं जलयुक्तं पुलिनं तटं च जलोम्भितं यस्मिंस्तत्तथा । आसन्नेति । आसन्ना
निकटवर्तिनो ये आश्रमा मुनिस्थानानि तेभ्य आगताः प्राप्ता ये तापसा ऋषयस्तैः क्षालितानि धौतान्याणि
जलाविलानि वल्कलानि । 'वल्कलम स्त्रियाम्' इत्यमरः । तै कषायं तुवरम् । 'तुवरस्तु कषायोऽस्त्री'
इत्यमरः । पाटलं च तटजलं यस्मिन् । 'श्वेतरक्तस्तु पाटलः' इत्यमरः । उपेति । तटस्य समीपमुपटं तत्र
ये वृक्षाः पादपास्तेषां पल्लवाः किसलयानि तैर्यः अनिलः वायुस्तन वीजितं व्यजनवात इवाचरितं यस्मिन् ।
बनेति । वनराजिभिः कानन श्रेणिभिरुपरुद्धमाबद्धं तीरं तटं यस्य तत्तथा । अथ वनराजिं विशिनष्टि -
अविरलेति । अविरला निबिडा या तमालानां कालस्कन्धानां वीथी पकिस्तयान्धकारिताभिः संजातान्धका-
राभिः । वालीति । सुग्रीवेण वानराधिपतिनावलुप्तानि दूरीकृतानि यानि फलानि तैलघुलता यासु ताभिः ।
कीदृशेन सुप्रीवेण । वालिनेन्द्रसुतेन निर्वासितेन स्थाना शितेन । किं कुर्वता । प्रतिदिनं प्रत्यहं संचरता
व्रजता । तत्रेति शेषः । ऋष्येति । ऋष्यमूकाभिधानो गिरिस्तत्र वासिना निवसनशीलेन । उदवासिना-
मिति । उदवासिनां तत्र स्थितिजुषां तापसानां देवतार्चने देवपूजायामुपयुक्तानि सोपयोगानि कुसुमानि
पुष्पाणि यासु ताभिः । उत्पतदिति । उत्पतन्तो ये जलचरा नकचक्रायास्तेषां पक्षपुटानि तेभ्यो विगलिताः
सस्ता ये जलबिन्दवः पानीयपृषतास्तेषां सेकेन सिञ्चनेन सुकुमाराणि सुकोमलानि किसलयानि यासु ताभिः ।
लतेति । लतानां वल्लीनां ये मण्डपा आच्छादितप्रदेशास्तेषां तलेऽधःप्रदेशे शिखण्डिमण्डलैर्मयूरसमूहैरा-
रब्धमुत्पादितं ताण्डवं नृत्यं यासु ताभिः । अनेकेति । अनेकानि विभिन्नजातीयानि कुसुमानि पुष्पाणि तेषां
टिप्प० – 1 साहइयेनेत्यर्थः । 2 तेन बद्धं कूले कूलसमीपे पुलिनं सैकतं यस्य तत् । फेतकीपुष्पा
णामियान् परागो राशीभूतो येन कूले सैकतं परागजनित: सिकतामयः प्रदेशो जात इत्यर्थः ।
3 लघवो भारशून्या लता यासु ।
पाठा०- •१ कलध्वनि. २ उन्मिषित. ३ कादम्बकदम्बकै:, कादम्बककदम्बकैः. ४ सुन्दरी. ५ तरङ्गभू.
६ उपान्तजात. ७ विटपि. ८ पुढानिल. ९ वीथिका. १० च संचरता. ११ परिलघुलताभि:. १२ जलचरपतङ्ग-
कुलपक्ष. १३ तलस्थित १४ देवतानि:श्वासं. १५ रुजू.
७ का०