कादम्बरी /81
This page has been fully proofread once and needs a second look.
प्रलयकालपि [^१]घट्टिताष्टदि [^२]ग्विभाग [^३]संधिबन्धं गगनतलमिव भुवि निपतितम्, आदिवराहसमुद्धृतधरामण्डल- स्थानमिव [^४]जलपूरितम्, अनवरतमज्जदुम्मदशबरकामिनीकुच -कलशलुलितजलम्, उत्फुल्लकुमुदकुवलयकह्लारम्,उन्निद्रारविन्द [^५]मधुबिन्दुनिष्यन्दबद्धचन्द्रकम्, अलिकुलपटलान्धकारित- सौगन्धिकम्, [^६]सारसितसमदसारसम्, अम्बुरुहमधुपानमत्त- कलहंसकामिनीकृतकोलाहलम्, अनेकजलचर [^७]पतङ्ग शतसंचलन [^७]चलितवाचालवीचिमालम्, अनिलो- [^९]ल्लासितकल्लोल [^१०]शिखरसीक [^१२]रारब्धदुर्दिनम्, अशङ्कितावतीर्णाभि [^१२]रम्भःक्रीडारागिणीभिः स्नानसमये वनदेवताभिः [^१३]केश-
[ टि ]-- निधिः समुद्रस्तस्य पानं तेन प्रकुपितः क्रोधं प्राप्तो यो वरुणः प्रचेतास्तन प्रोत्साहितेन प्रगुणितेन । अथ
चेति । यस्य पद्मसरः पम्पेत्यभिधानमित्यप्ग्रेतनेनान्वयः । इतः सरो विशेषयन्नाह - प्रलयेति । प्रलय-
काले कल्पान्ते विघट्टिता नष्टा येऽष्टदिशामष्ट- ककुभां विभागाः प्रदेशास्तत्तत् पर्वतावधिकास्तेषां संधयः संयो-
गास्तेषां बन्धो मर्यादा यस्मिन्नेवंभूतं भुवि भूमौ निपतितं गगनतल- मिव । नभस्तलमिव । जलनैर्मल्यसादृ-
श्यात्तदुपमानम् । जलेनेति । जलेन पानीयेन पूरितं पूर्णमादिवराहेण तृतीयावतारेण वराहरूपेण
सम्यक्प्रकारेणोद्धृतं जलाद्वबहिरानीतं यद्धरामण्डलं भूमिमण्डलं तस्य स्थानमिव । अनवरतेति । अनवरतं
निरन्तरं मज्जन्त्यः स्नानं कुर्वत्यो या उन्मदा गर्वाधिष्ठिताः शबराणां भिल्लानां कामिन्यस्तासां कुचौ तावेव
कलशैौ कलशौ ताभ्यां लुलितमालोडितं जलं पानीयं यस्य तत्तथा । उत्फुल्लेति । उत्फुल्लानि विकसितानि कुमुदानि
कैरवाणि कुवलयानि कुवेलानि कहाह्लाराणि सौगन्धिकामनि यस्मिंस्तथा । उन्निद्रेति । उन्निद्राणि विकसितानि
यान्यरविन्दानि कमलानि तेषां मधुः मधुरसस्तस्य यो द्रत्रःव: कल्कस्तेन बद्धा मयूरपिच्छचन्द्रा [^1]काराश्चन्द्रका यस्मि-
मिंस्तत्तथा । अलीति । अलीनां भ्रमराणां यानि कुलानि तेषां पटलं समूहस्तेनान्धकारितानि संजातान्धकाराणि
सौगन्धिकानि कहाह्लाराणि यस्मिंस्तत्तथा । 'सौगन्धिकं तु कहाह्लारम्' इति कोशः । सारसितेति । सारसितेन
- [^2]न शब्दितेन वर्तमाना अत एव समदा मदोत्कटाः सारसाः पक्षिविशेषा यस्मिन् । अम्बुरुहेति । अम्बुरुहाणि
कमलानि तेषां यन्मधु तस्य पानं तेन मत्ताः कलहंसकामिन्यो वरटास्ताभिः कृतः कोलाहलो यस्मिन् । अने-
केति । अनेके सहस्रशो ये जलचरा नकचक्रादयः पतङ्गाः पक्षिणस्तेषां यच्छतमसंख्यातं तस्य संचलनं गमनं तेन
चलिताः क्षोभं प्राप्ता वाचाला मुखरा वीचयो लहर्यस्तासां मालाः श्रेण्यो यस्मिन् । अनिलेति । अनिलेन
वायुनोल्लासिता उल्लासं प्रापिता ये कल्लोला लहर्यस्त एवोच्चत्वाच्छिखराणि तेषां सीकरैरम्बुकणैरारब्धं विहितं
दुर्दिनं मेघजं तमो यस्मिन् । स्त्रानानेति । स्नानसमय आप्लवक्षणे वनदेवताभिर्वनाधिष्ठात्रीभिः केशपाशः केश-
कलापस्तस्य कुसुमानि प्रसवानि तैः सुरभीकृतं सौगन्ध्यमापादितम् । कुसुमैरित्यत्र क्रियासिद्ध्युपकारकत्वेन करणे
तृतीया । इलोतो वनदेवता विशेषयन्नाह - अशङ्कितेति । शङ्कारहितं यथा स्यात्तथावतीर्णाभिरन्तः प्रवि-
ष्टाभिः । शङ्काराहित्यं च प्रेक्षकजनाभावात् । अम्भःक्रीडायां जलक्रीडायां रागो यासां ताभिः । पुनस्तदेव
।
G
टिप्प० -[^1]F. उन्निद्राणि यान्यरविन्दानि तेषां यो मधुबिन्दूनां (मकरन्द बिन्दूनाम् ) निष्यन्दः द्रवः,
तेन बद्धाः चन्द्रकाः चन्द्राकाराणि मण्डलानि यस्मिन् । जले यदा चिक्कणो द्रवबिन्दुः पतति तदा जल-
स्वस्तरोपरि मण्डलं प्रसरति । तथात्र स्थाने स्थाने कमलमधु- मण्डलानि बढानीत्याशयः । उपरिव्याख्या-
ध्रुधृतः पाठस्तु न मनोहरः । ।
[^2]F. आरसितेन सह वर्तमानाः सारसिताः अर्थात् सशब्दाः समदाः सारसा
यस्मिन् । इत्यर्थो बोध्यः ।
पाठा०
-
[^१]G. विघटितं.
[^२]G. दिग्भाग.
[^३]G. बन्धनम्.
[^४]G. सलिलपरिपूरितम्.
[^५]G. मधुद्रवबद्ध; मकरन्दविबिन्दुबद्ध.
[^६]G. आरसित..
[^७]G. पतत्रि.
[^८]G. चञ्चलित, .
[^९]G. उल्हलसित .
[^१०]G. शिशिर .
[^११]G. आरचित.
[^११२]G. अन्तः .
[^१३]G. केशकुसुमैः .
.
.
[ टि ]-- निधिः समुद्रस्तस्य पानं तेन प्रकुपितः क्रोधं प्राप्तो यो वरुणः प्रचेतास्तन प्रोत्साहितेन प्रगुणितेन । अथ
सम्यक्प्रकारेणोद्धृतं जलाद्
कलशैौ
कैरवाणि कुवलयानि कुवेलानि क
G
टिप्प० -
स्व
ध्रु
[^2]F. आरसितेन सह वर्तमानाः सारसिताः अर्थात् सशब्दाः समदाः सारसा
-
[^१]G. विघटितं.
[^२]G. दिग्भाग.
[^४]G. सलिलपरिपूरितम्.
[^५]G. मधुद्रवबद्ध; मकरन्द
[^६]G. आरसित.
[^७]G. पतत्रि.
[^८]G. चञ्चलित
[^९]G. उल्
[^१०]G. शिशिर
[^११]G. आरचित.
[^१
[^१३]G. केशकुसुमैः
.