This page has not been fully proofread.

४८
 
कांदम्बरी ।
 
[ कथामुखे-
प्रलयकाल पिंघट्टिताष्टदिग्वैिभागसंधिंबन्धं गगनतलमिव भुवि निपतितम्, आदिवराहसमुद्भुत-
धरामण्डलस्थानमिव जलपूरितम्, अनवरतमज्जदुम्मदशबर कामिनीकुच कलशलुलितजलम्,
उत्फुल्लकुमुद कुवलयकहारम्, उन्निद्रारविन्दमधुविन्दुनिष्यन्दबद्ध चन्द्रकम्, अलिकुलपटलान्ध-
कारितसौगन्धिकम्, सारसित समदसारसम्, अम्बुरुहमधुपानमत्त कलहंसकामिनीकृतकोला-
हलम्, अनेकजलचरपतंङ्गशतसंचलनचलितवाचालवीचिमालम्, अनिलोल्लासितकल्लोलशिखर-
सीकरारब्धदुर्दिनम्, अशङ्कितावतीर्णाभिरैम्भः क्रीडारागिणीभिः स्नानसमये वनदेवताभिः केश-
O
 
निधिः समुद्रस्तस्य पानं तेन प्रकुपितः क्रोधं प्राप्तो यो वरुणः प्रचेतास्तन प्रोत्साहितेन प्रगुणितेन । अथ
चेति । यस्य पद्मसरः पम्पेत्यभिधानमित्यप्रेतनेनान्वयः । इतः सरो विशेषयन्नाह - प्रलयेति । प्रलय-
काले कल्पान्ते विघट्टिता नष्टा येऽष्टदिशामष्टककुभां विभागाः प्रदेशास्तत्तत् पर्वतावधिकास्तेषां संधयः संयो-
गास्तेषां बन्धो मर्यादा यस्मिन्नेवंभूतं भुवि भूमौ निपतितं गगनतलमिव । नभस्तलमिव । जलनैर्मल्यसादृ-
श्यात्तदुपमानम् । जलेनेति । जलेन पानीयेन पूरितं पूर्णमादिवराहेण तृतीयावतारेण वराहरूपेण
सम्यक्प्रकारेणोद्धृतं जलाद्वहिरानीतं यद्धरामण्डलं भूमिमण्डलं तस्य स्थानमिव । अनवरतेति । अनवरतं
निरन्तरं मजन्त्यः स्नानं कुर्वत्यो या उन्मदा गर्वाधिष्ठिताः शबराणां भिल्लानां कामिन्यस्तासां कुचौ तावेव
कलशैौ ताभ्यां लुलितमालोडितं जलं पानीयं यस्य तत्तथा । उत्फुल्लेति । उत्फुल्लानि विकसितानि कुमुदानि
कैरवाणि कुवलयानि कुवेलानि कहाराणि सौगन्धिकाम यस्मिंस्तथा । उन्निद्रेति । उन्निद्राणि विकसितानि
यान्यरविन्दानि कमलानि तेषां मधुः मधुरसस्तस्य यो द्रत्रः कल्कस्तेन बद्धा मयूरपिच्छचन्द्राकाराश्चन्द्रका यस्मि-
स्तत्तथा । अलीति । अलीनां भ्रमराणां यानि कुलानि तेषां पटलं समूहस्तेनान्धकारितानि संजातान्धकाराणि
सौगन्धिकानि कहाराणि यस्मिंस्तत्तथा । 'सौगन्धिकं तु कहारम्' इति कोशः । सारसितेति । सारसितेन
शब्दितेन वर्तमाना अत एव समदा मदोत्कटाः सारसाः पक्षिविशेषा यस्मिन् । अम्बुरुहेति । अम्बुरुहाणि
कमलानि तेषां यन्मधु तस्य पानं तेन मत्ताः कलहंसकामिन्यो वरटास्ताभिः कृतः कोलाहलो यस्मिन् । अने-
केति । अनेके सहस्रशो ये जलचरा नकचक्रादयः पतङ्गाः पक्षिणस्तेषां यच्छतमसंख्यातं तस्य संचलनं गमनं तेन
चलिताः क्षोभं प्राप्ता वाचाला मुखरा वीचयो लहर्यस्तासां मालाः श्रेण्यो यस्मिन् । अनिलेति । अनिलेन
वायुनोल्लासिता उल्लासं प्रापिता ये कल्लोला लहर्यस्त एवोच्चत्वाच्छिखराणि तेषां सीकरैरम्बुकणैरारब्धं विहितं
दुर्दिनं मेघजं तमो यस्मिन् । स्त्रानेति । स्नानसमय आप्लवक्षणे वनदेवताभिर्वनाधिष्ठात्रीभिः केशपाशः केश-
कलापस्तस्य कुसुमानि प्रसवानि तैः सुरभीकृतं सौगन्ध्यमापादितम् । कुसुमैरित्यत्र क्रियासिद्ध्युपकारकत्वेन करणे
तृतीया । इलो वनदेवता विशेषयन्नाह - अशङ्कितेति । शङ्कारहितं यथा स्यात्तथावतीर्णाभिरन्तः प्रवि-
ष्टाभिः । शङ्काराहित्यं च प्रेक्षकजनाभावात् । अम्भःक्रीडायां जलक्रीडायां रागो यासां ताभिः । पुनस्तदेव
 

 
G
 
टिप्प० - 1 उन्निद्राणि यान्यरविन्दानि तेषां यो मधुबिन्दूनां (मकरन्द बिन्दूनाम् ) निष्यन्दः द्रवः,
तेन बद्धाः चन्द्रकाः चन्द्राकाराणि मण्डलानि यस्मिन् । जले यदा चिक्कणो द्रवबिन्दुः पतति तदा जल-
स्वरोपरि मण्डलं प्रसरति । तथात्र स्थाने स्थाने कमलमधुमण्डलानि बढानीत्याशयः । उपरिव्याख्या-
ध्रुतः पाठस्तु न मनोहरः । 2 आरसितेन सह वर्तमानाः सारसिताः अर्थात् सशब्दाः समदाः सारसा
यस्मिन् । इत्यर्थो बोध्यः ।
 
पाठा०
 
-१ विघटितं. २ दिग्भाग.
 
३ बन्धनम्. ४ सलिलपरिपूरितम्. ५ मधुद्रवबद्ध; मकरन्दविन्दुबद्ध.
६ आरसित. .७ पतत्रि. ८ चञ्चलित, ९ उल्हसित १० शिशिर ११ आरचित. ११ अन्तः १३ केशकुसुमैः .
 
.