2023-10-04 02:37:42 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

लित [^१]दृष्टयो वीक्ष्य शून्या दश दिशो जराजर्जरितविषाणकोटयो जानकीसंवर्धिता जीर्णमृगाः । यस्मिन्ननवरतमृगयानिहत-
[^२]शेषवनहरिण [^३]प्रोत्साहित इव कृतसीताविप्रलम्भः कनकमुगो राघवमतिदूरं जहार । यत्र च मैथिलीवियोग- दुःखदुःखितौ [^४]रावणविनाशसूचकौ चन्द्रसूर्याविव
कबन्धग्रस्तौ समं रामलक्ष्मणौ त्रिभुवनभयं [^४]महच्चक्रतुः । अत्यायतश्च यस्मिन्दशरथ [^६]सुतबाणनिपातितो योजनबाहोर्बाहुरगस्त्य [^७]प्रसादनागतनाहुषाजगरकायशङ्का [^८]मकरो [^९]दृषिजनस्य । [^१०]जनकतनया च भर्त्रा [^११]विरहविनोदनार्थमुटजा [^१२]भ्यन्तरलिखिता यत्र रामनिवासदर्शनोत्सुका पुनरिव [^१३]धरणीतला [^१३]दुल्लसन्ती वनचरैरद्या [^१४]प्यालोक्यते ।
 
तस्य [^१६]च संप्रत्यपि प्रकटोपलक्ष्यमाणपूर्ववृत्तान्त- स्यागस्त्याश्रमस्य नातिदूरे जलनिधिपान-
[^१७]प्रकुपित [^१८]वरुणप्रोत्साहितेनागस्त्य मत्सरात्तदाश्रम- समीपवर्त्यपर इव वेधसा [^१९]जलनिधिरुत्पादितः,
 
[ टि ]-- जरेति । जरया वार्धक्येन जर्जरिता विशीर्णा विषाणकोटि: शृङ्गाग्रभागो येषां ते तथा । जान-
कीति । जानक्या सीतया संवर्धिता वृद्धिं प्रापिताः । यस्मिन्निति । यस्मिन्वने अनवरतं निरन्तरं या
मृगयाखेटस्तया निहता व्यापादितास्तेभ्यः शेषा [^1]उद्वरिता एव ये वनहरिणास्तैः प्रोत्साहित इवोत्साहं प्रापित
इव । कृतेति । कृतः सीताया विप्रलम्भो वियोगो विप्रतारणं वा येनैवंभूतोऽसौ कनकभृमृ- गः सुवर्णमृगो
रघोरपत्यं राघवमतिदूरं जहार हृतवान् । 'हृञ् हरणे' धातुः । लिटि रूपम् । यत्र सममिति सहचरितौ राम-
लक्ष्मणौ महदुत्कृष्टं त्रिभुवनस्य विष्टपस्य भयमातङ्कं चक्रतुर्विदधतुः । कीदृशौ । मैथिलीति । मैथिली जानकी
तस्या वियोगेन विरहेण यद्दुःखं तेन दुखितौ । पुनस्तावेव विशेषयन्नाह - कबन्ध इति । कबन्धः [^2]राहू
राक्षसाधिपतिस्तेन भ्ग्रस्तौ गृहीतौ । काविव । चन्द्रसूर्याविव पुष्पवन्ताविव । रावण इति । रावणस्य दशा-
ननस्य यो विनाशस्तस्य सूचकौ ज्ञापकौ । अत्यायतश्चेति । अथ यस्मिन्दशरथसुतो रामस्तस्य बाणैर्विशिखैः
निपातितः छिन्नो योजनबाहुनाम्नो दैत्यस्य बाहुर्भुजोऽत्यन्तमायतो [^3]विस्तृतः सोऽगस्तिमुनेर प्रसादेन कोपेन
आगतः प्राप्तो नहुषस्य राज्ञोऽजगरस्य कायस्तस्य शङ्कामृषिगणस्य मुनिसमुदायस्य चकार विधे । यत्र
चेति । यस्मिञ्जनकतनया सीता भर्त्रा रामेण विरहस्य वियोगस्य विनोदनं परिहारस्तदर्थमुटजस्य पर्णशा-
लाया अभ्यन्तरे लिखिता लिपीकृता सा रामस्य निवासो वसतिस्तस्य यद्दर्शनं तत्र उत्सुका उत्कण्ठिता ।
यथा पूर्वं धरणितलादुत्थिता तथैव पुनर्भूमितलादुल्लसन्ती वनचरैर्भिल्लैरद्यापि सांप्रतमप्यालोक्यते दृश्यते ।
 
तस्य चेति । तस्य चागस्त्याश्रमस्य संप्रत्यपि इदानीमपि प्रकटोप- लक्ष्यमाणः स्पष्टं ज्ञायमानः
पूर्ववृत्तान्तो यस्य तस्य नातिदूरेऽगस्त्य- मत्सरात्पीताब्धिमात्सर्याद्वेधसा तस्यागस्त्यस्याश्रमस्तस्य समीपवर्ती
निकटवर्त्यपरोऽन्यो जलनिधिरिव जलाशय इव उत्पादितः । कीदृशेन वेधसा जलेति । जल-
टिप्प० -
[^
1]F. अवशिष्टा इति यावत् ।
[^
2]F. कबन्धेन तन्नामकेन राक्षसेन प्ग्रस्तौ रामलक्ष्मणौ । शिरश्छे-
दात् कबन्धेन राहुणा ग्रस्तौ सूर्यचन्द्रौ । उभयोरपि त्रिभुवनभय- कारकत्वं समम् । इत्याशयः ।
[^
3]F. अ-
स्त्यस्य प्रसादनाय (अगस्त्यं प्रसन्नं कर्तुम् ) आगतो यो नाहुषः नहुषसंबन्धी अजगरकायः ( सर्पशरी-
रम् ) तच्छङ्काम् ऋषिजनस्याऽकरोत् । अगस्त्यस्य शापेन नहुषः सर्पो बभूव । अत एव अगस्त्यं प्रसाद-
यितुं मन्ये दीर्घः अजगरका एव पतितो भवेदिति कबन्धबाहौ ऋषीणां शङ्काऽभवदित्याशयः । ठीटीका.-
परिगृहीतः पाठो व्याख्या च विचार्येव ।
 
पाठा० --[^]G. दीनदृष्टयो.
[^
]G. नि:शेष; अशेष.
[^
]G. प्रोत्सारित .
[^
]G. दशवदन विनाशपिशुनौ .
[^
]G. अतिमहत्.
[^
]G. शर.
[^]G. प्रसादेन.
[^
]G. चकार.
[^
]G. ऋषिगणस्य .
[^
१०]G. तनयभत्र . र्त्रा .
[^
११]G. विनोदार्थम्.
[^
१२]G. अभ्यन्तरे.
[^
१३]G. धरणितलात्.
[^१४]G. उल्लसन्तीव.
[^
१५]G. उपलक्ष्यते.
[^
१६]G. चैवंविधस्य.
[^
१७]G. कुपित.
[^
१८]G. उत्साहितेन.
[^
१९]G. महाजलनिधि.