2023-10-03 15:25:22 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

पम्पासर: लित [^१]
 
पूर्वभागः ।
 
४७
 
लित
दृष्टयो वीक्ष्य शून्या दश दिशो जराजर्जरितविषाणकोटयो जानकीसंवर्धिता जीर्णमृगाः ।
यस्मिन्ननवरतमृगयानिहत
-
[^२]
शेषेवनहरिण [^३]प्रोत्साहित इव कृतसीताविप्रलम्भः कनकमुगो राघ-
वमतिदूरं जहार । यत्र च मैथिलीवियोग- दुःखदुःखितौ [^४]रावणविनाशसूचकौ चन्द्रसूर्याविव

कबन्धस्तोग्रस्तौ समं रामलक्ष्मणौ त्रिभुवनभयं मै[^४]मच्चक्रतुः । अत्यायतश्च यस्मिन्दशरथंथ [^६]सु-
तं
बाणनिपातितो योजनबाहोर्बाहुरगस्त्य [^७]प्रसाद नागतनाहुषाजगरकाय शङ्का भं[^८]मकरो [^९]दृषिजनस्य ।
जै
[^१०]जनकतनया च भर्त्रा विरं[^११]विरहविनोदनार्थमुटजा [^१२]भ्यंन्तरलिखिता यत्र रामनिवास दर्शनोत्सुका
पुनरिव धै[^१३]धरणीतला [^१३]दुर्लेल्लसन्ती वनचरैरद्या [^१४]प्यालोक्यते ।
 
तस्य

 
तस्य [^१६]
च संप्रत्यपि प्रकटोपलक्ष्यमाणपूर्ववृत्तान्त- स्यागस्त्याश्रमस्य नातिदूरे जलनिधिपान-

[^१७]
प्रकुपित [^१८]वरुणप्रोत्साहितेनागस्त्य मत्सरात्तदाश्रम- समीपवर्त्यपर इव वेधसा जै[^१९]जलनिधिरुत्पादितः,
 

 
[ टि ]--
जरेति । जरया वार्धक्येन जर्जरिता विशीर्णा विषाणकोटि: शृङ्गाग्रभागो येषां ते तथा । जान-

कीति । जानक्या सीतया संवर्धिता वृद्धिं प्रापिताः । यस्मिन्निति । यस्मिन्वने अनवरतं निरन्तरं या

मृगयाखेटस्तया निहता व्यापादितास्तेभ्यः शेषा उद्वरिता एव ये वनहरिणास्तैः प्रोत्साहित इवोत्साहं प्रापित

इव । कृतेति । कृतः सीताया विप्रलम्भो वियोगो विप्रतारणं वा येनैवंभूतोऽसौ कनकभृगः सुवर्णमृगो

रघोरपयं राघवमतिदूरं जहार हृतवान् । 'हृञ् हरणे' धातुः । लिटि रूपम् । यत्र सममिति सहचरितौ राम-

लक्ष्मणौ महदुत्कृष्टं त्रिभुवनस्य विष्टपस्य भयमातङ्कं चतुर्विदधतुः । कीदृशौ । मैथिलीति । मैथिली जानकी

तस्या वियोगेन विरहेण यद्दुःखं तेन दुखितौ । पुनस्तावेव विशेषयन्नाह - कबन्ध इति । कबन्धः राहू

राक्षसाधिपतिस्तेन भ्रस्तौ गृहीतौ । काविव । चन्द्रसूर्याविव पुष्पवन्ताविव । रावण इति । रावणस्य दशा-

ननस्य यो विनाशस्तस्य सूचकौ ज्ञापकौ । अत्यायतश्चेति । अथ यस्मिन्दशरथसुतो रामस्तस्य बाणैर्विशिखैः

निपातितः छिन्नो योजनबाहुनाम्नो दैत्यस्य बाहुर्भुजोऽत्यन्तमायतो विस्तृतः सोऽगस्तिमुनेर प्रसादेन कोपेन

आगतः प्राप्तो नहुषस्य राज्ञोऽजगरस्य कायस्तस्य शङ्कामृषिगणस्य मुनिसमुदायस्य चकार विधे । यत्र

चेति । यस्मिञ्जनकतनया सीता भर्त्रा रामेण विरहस्य वियोगस्य विनोदनं परिहारस्तदर्थमुटजस्य पर्णशा-

लाया अभ्यन्तरे लिखिता लिपीकृता सा रामस्य निवासो वसतिस्तस्य यद्दर्शनं तत्र उत्सुका उत्कण्ठिता ।

यथा पूर्व धरणितलादुत्थिता तथैव पुनर्भूमितलादुल्लसन्ती वनचरैर्भिल्लैरद्यापि सांप्रतमप्यालोक्यते दृश्यते ।
 

 
तस्य चेति । तस्य चागस्त्याश्रमस्य संप्रत्यपि इदानीमपि प्रकटोपलक्ष्यमाणः स्पष्टं ज्ञायमानः

पूर्ववृत्तान्तो यस्य तस्य नातिदूरेऽगस्त्यमत्सरात्पीताब्धिमात्सर्याद्वेधसा तस्यागस्त्यस्याश्रमस्तस्य समीपवर्ती

निकटवर्त्यपरोऽन्यो जलनिधिरिव जलाशय इव उत्पादितः । कीदृशेन वेधसा जलेति । जल-

टिप्प० - 1 अवशिष्टा इति यावत् । 2 कबन्धेन तन्नामकेन राक्षसेन प्रस्तौ रामलक्ष्मणौ । शिरश्छे-

दात् कबन्धेन राहुणा अस्तौ सूर्यचन्द्रौ । उभयोरपि त्रिभुवनभयकारकत्वं समम् । इत्याशयः । 3 भग-

स्त्यस्य प्रसादनाय (अगस्त्यं प्रसनं कर्तुम् ) आगतो यो नाहुषः नहुषसंबन्धी अजगरकायः ( सर्पशरी-

रम् ) तच्छकाम् ऋषिजनस्याऽकरोत् । अगस्त्यस्य शापेन नहुषः सर्पो बभूव । अत एव अगस्त्यं प्रसाद-

यितुं मन्ये दीर्घः अजगरकाथ एव पतितो भवेदिति कबन्धबाहौ ऋषीणां शङ्काऽभवदित्याशयः । ठीका.

परिगृहीतः पाठो व्याख्या च विचार्येव ।
 

 
पाठा० --१ दीनदृष्टयो. २ नि:शेष; अशेष. ३ प्रोत्सारित ४ दशवदन विनाशपिशुनौ ५ अतिमहत्. ६ शर.

७ प्रसादेन. ८ चकार. ९ ऋषिगणस्य १० तनयभत्र . ११ विनोदार्थम्. १२ अभ्यन्तरे. १३ घरणितलात्.

१४ उल्लसन्तीव. १५ उपलक्ष्यते. १६ चैवंविधस्य. १७ कुपित. १८ उत्साहितेन. १९ महाजलनिधि.