This page has not been fully proofread.

पम्पासर: ]
 
पूर्वभागः ।
 
४७
 
लितदृष्टयो वीक्ष्य शून्या दश दिशो जराजर्जरितविषाणकोटयो जानकीसंवर्धिता जीर्णमृगाः ।
यस्मिन्ननवरतमृगयानिहत
शेषेवनहरिणप्रोत्साहित इव कृतसीताविप्रलम्भः कनकमुगो राघ-
वमतिदूरं जहार । यत्र च मैथिलीवियोगदुःखदुःखितौ रावणविनाशसूचकौ चन्द्रसूर्याविव
कबन्धस्तो समं रामलक्ष्मणौ त्रिभुवनभयं मैहचक्रतुः । अत्यायतश्च यस्मिन्दशरथंसु-
तंबाणनिपातितो योजनबाहोर्बाहुरगस्त्यप्रसाद नागतनाहुषाजगरकाय शङ्का भंकरोषिजनस्य ।
जैनकतनया च भर्त्रा विरंहविनोदनार्थमुटजाभ्यंन्तरलिखिता यत्र रामनिवास दर्शनोत्सुका
पुनरिव धैरणीतलादुर्लेसन्ती वनचरैरद्याप्यालोक्यते ।
 
तस्य च संप्रत्यपि प्रकटोपलक्ष्यमाणपूर्ववृत्तान्तस्यागस्त्याश्रमस्य नातिदूरे जलनिधिपान-
प्रकुपित वरुणप्रोत्साहितेनागस्त्य मत्सरात्तदाश्रमसमीपवर्त्यपर इव वेधसा जैलनिधिरुत्पादितः,
 
जरेति । जरया वार्धक्येन जर्जरिता विशीर्णा विषाणकोटि: शृङ्गाग्रभागो येषां ते तथा । जान-
कीति । जानक्या सीतया संवर्धिता वृद्धिं प्रापिताः । यस्मिन्निति । यस्मिन्वने अनवरतं निरन्तरं या
मृगयाखेटस्तया निहता व्यापादितास्तेभ्यः शेषा उद्वरिता एव ये वनहरिणास्तैः प्रोत्साहित इवोत्साहं प्रापित
इव । कृतेति । कृतः सीताया विप्रलम्भो वियोगो विप्रतारणं वा येनैवंभूतोऽसौ कनकभृगः सुवर्णमृगो
रघोरपयं राघवमतिदूरं जहार हृतवान् । 'हृञ् हरणे' धातुः । लिटि रूपम् । यत्र सममिति सहचरितौ राम-
लक्ष्मणौ महदुत्कृष्टं त्रिभुवनस्य विष्टपस्य भयमातङ्कं चतुर्विदधतुः । कीदृशौ । मैथिलीति । मैथिली जानकी
तस्या वियोगेन विरहेण यद्दुःखं तेन दुखितौ । पुनस्तावेव विशेषयन्नाह - कबन्ध इति । कबन्धः राहू
राक्षसाधिपतिस्तेन भ्रस्तौ गृहीतौ । काविव । चन्द्रसूर्याविव पुष्पवन्ताविव । रावण इति । रावणस्य दशा-
ननस्य यो विनाशस्तस्य सूचकौ ज्ञापकौ । अत्यायतश्चेति । अथ यस्मिन्दशरथसुतो रामस्तस्य बाणैर्विशिखैः
निपातितः छिन्नो योजनबाहुनाम्नो दैत्यस्य बाहुर्भुजोऽत्यन्तमायतो विस्तृतः सोऽगस्तिमुनेर प्रसादेन कोपेन
आगतः प्राप्तो नहुषस्य राज्ञोऽजगरस्य कायस्तस्य शङ्कामृषिगणस्य मुनिसमुदायस्य चकार विधे । यत्र
चेति । यस्मिञ्जनकतनया सीता भर्त्रा रामेण विरहस्य वियोगस्य विनोदनं परिहारस्तदर्थमुटजस्य पर्णशा-
लाया अभ्यन्तरे लिखिता लिपीकृता सा रामस्य निवासो वसतिस्तस्य यद्दर्शनं तत्र उत्सुका उत्कण्ठिता ।
यथा पूर्व धरणितलादुत्थिता तथैव पुनर्भूमितलादुल्लसन्ती वनचरैर्भिल्लैरद्यापि सांप्रतमप्यालोक्यते दृश्यते ।
 
तस्य चेति । तस्य चागस्त्याश्रमस्य संप्रत्यपि इदानीमपि प्रकटोपलक्ष्यमाणः स्पष्टं ज्ञायमानः
पूर्ववृत्तान्तो यस्य तस्य नातिदूरेऽगस्त्यमत्सरात्पीताब्धिमात्सर्याद्वेधसा तस्यागस्त्यस्याश्रमस्तस्य समीपवर्ती
निकटवर्त्यपरोऽन्यो जलनिधिरिव जलाशय इव उत्पादितः । कीदृशेन वेधसा जलेति । जल-
टिप्प० - 1 अवशिष्टा इति यावत् । 2 कबन्धेन तन्नामकेन राक्षसेन प्रस्तौ रामलक्ष्मणौ । शिरश्छे-
दात् कबन्धेन राहुणा अस्तौ सूर्यचन्द्रौ । उभयोरपि त्रिभुवनभयकारकत्वं समम् । इत्याशयः । 3 भग-
स्त्यस्य प्रसादनाय (अगस्त्यं प्रसनं कर्तुम् ) आगतो यो नाहुषः नहुषसंबन्धी अजगरकायः ( सर्पशरी-
रम् ) तच्छकाम् ऋषिजनस्याऽकरोत् । अगस्त्यस्य शापेन नहुषः सर्पो बभूव । अत एव अगस्त्यं प्रसाद-
यितुं मन्ये दीर्घः अजगरकाथ एव पतितो भवेदिति कबन्धबाहौ ऋषीणां शङ्काऽभवदित्याशयः । ठीका.
परिगृहीतः पाठो व्याख्या च विचार्येव ।
 
पाठा० --१ दीनदृष्टयो. २ नि:शेष; अशेष. ३ प्रोत्सारित ४ दशवदन विनाशपिशुनौ ५ अतिमहत्. ६ शर.
७ प्रसादेन. ८ चकार. ९ ऋषिगणस्य १० तनयभत्र . ११ विनोदार्थम्. १२ अभ्यन्तरे. १३ घरणितलात्.
१४ उल्लसन्तीव. १५ उपलक्ष्यते. १६ चैवंविधस्य. १७ कुपित. १८ उत्साहितेन. १९ महाजलनिधि.