कादम्बरी /8
This page has been fully proofread twice.
उपोद्धातः ।
कादम्बरीकारः श्रीवाणभट्टः
श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरे -
ऽलंकारे कतिचित्सदर्थविषये चान्ये कथावर्णने ।
आ सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरी-
संचारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥
एतदुत्तरम् - गद्यकवीनामेव किम्, महाकवीनां चूडामणिर्बाणभट्टः प्रादुर्बभूव । महाकविर्बाणो महाराजाधिराजश्रीहर्षस्य समकालिकः । यतो ह्ययं हर्षचरितनाम्ना श्रीहर्षस्य चरितं वर्णयामास । महाराजः
श्रीहर्षवर्धनः ६०६ तमं ख्रिष्टसंवत्सरमारभ्य ६४८ तमं वर्षं यावद्राज्यशासनं कृतवानित्यैतिहासिकानां समयः । अयं हि स्थानेश्वरजनपदनायकस्य प्रभाकरवर्धनस्य पुत्रः । अयं भाग्यशाली महावीरो राजनैतिकश्च सर्वानन्यान्विजित्य उत्तरभारते आत्मनश्चक्रवर्तित्वमास्थापयामास । ६२९ तमं ख्रिष्टीयवत्सरमारभ्य
६४५ तमं यावद्भारते भ्रमन् चीनदेशीयो यात्री 'हाँग्काँग्' इत्याख्यो लिखति - 'उत्तरभारते तस्मिन्काले श्रीहर्ष एवैकमात्रोऽधिपतिर्बभूव । नासीत्कश्चिदन्यः प्रशासकः ।'
श्रीहर्षस्य राजसभायां मातङ्गदिवाकरो बाणो मयूरश्चेति प्रथिततमाः कवयो बभूवुरिति राजशेखरेणोल्लिखितम् । बाणो मयूरकबेवेर्भगिनी पतिरासीदिति केचित् । अन्ये तु मयूरो बाणस्य श्वशुर आसीदिति
वदन्ति । परं बाणमयूरौ समसामयिकावित्यत्र न संदेहः । मयूरः किल सूर्यशतकस्य निर्माता, यो हि शतकेनानेन सूर्यं स्तुत्वा कुष्ठरोगान्मुक्तो बभूवेति सुप्रसिद्धम् । केच्चिदिमामपि किंवदन्तीमाहुर्यत् - मयूरवत् बाणोपि विकलाङ्गो बभूव, ततश्च चण्डीशतकेन भगवतीं स्तुत्वा रोगान्मुक्तिमवाप । तदिदं शतकं
काव्यमालागुच्छकेषु मुद्रितम् । हर्षचरितम्, कादम्बरीपूर्वार्धम्, चण्डीशतकम्, पार्वतीपरिणयनाटकं चेति बाणस्य कृतिमाहुः । मुकुटताडिकापि बाणकृतेति केचित् । किन्तु नात्र प्रमाणमुपलब्धम् । बहवस्तु-हर्षचरितं कादम्बरी चेत्येव बाणस्य कृतिरित्यसाधयन् ।
अतिसमर्थो बाणकविः । 'गद्य कवीनां निकषं वदन्ती' ति यन्महत्त्व- मारम्भप्रघट्टक एवं मया सूचितम् यस्य च गद्यस्य वासवदत्ता कादम्बरी चेत्येव सर्वोपादेयं संस्कृतसाहित्ये काव्यद्वयमाहुस्तयोरपि च कादम्भरी सर्वोत्तमं गद्यकाव्यमिति मार्मिकाणामुक्ति: । तत्त्वपरीक्षका अभिप्रयन्ति यद् गद्यस्य गुम्फनपाटवं बाणस्यालौकिकम् । यद्धि गद्यं पद्यतोपि सुमधुरम्, लोकानां हृदयाकर्षकम्, कर्णयोः संगीतस्येव सुखरलहरीप्रस्रावकं च स्यादेवंविधस्य जन्मदाता बाणमन्तरा नान्यः कश्चन सफलो दृष्टः । दण्डिनो लेखानुसारम् - कथायामोजःप्राधान्यस्पर्शेपि बाणः कादम्बर्यां वर्ण्यमानरसानुरोधेन [^१]पाञ्चालीरीतिं सुमधुरतथा
निरुवाह । वर्णानां गुम्फो मौक्तिकगुम्फमपि भृशमतिशेते-'कमलिनीपलाशानि जललवलाञ्छितान्यादाय, गर्भधूलिकषायपरिमलमनोहराणि च कुमुदकुवलय कमलानि गृहीत्वाऽऽगत्य तस्मिन्नेव लतागृहशिलातले शयनमस्याकल्पयम् ।' इत्यादिभिरेवाक्षरैः को वाऽपरः संपूर्णं प्रकरणं समापयितुं
शक्नुयात् ?
अत एव साक्षात्सरस्वतीरूपोऽयमिति प्रशशंसुर्मार्मिका:- 'जाता शिखण्डिनी प्राक् यथा शिखण्डी तथाऽवगच्छामि । प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ॥' बाणपरिधृतस्य प्रत्येकपात्रस्य चरित्रचित्रणमततिस्वाभाविकंकथारसानुरूपं च।
चातुर्यपूर्वकमालोचनेऽस्य पात्रणां प्रत्येकं चरित्रं परस्परं पृथक्- प्रकारकमपि अकृत्रिमं सुस्वाभाविकम् । नामान्यप्यनुकूलानि - सेनापतिर्वीरतोचितो मेघनादः । ब्राह्मणो मन्त्री शुकनास्तत्पुत्रो वैशम्पायनः, पत्नी मनोरमा । तस्य चरित्रमात्रे महानादरः । पुत्रोत्पत्तौ स्वयं राजा पूर्णपात्रमाहरति । युवराजश्चन्द्रापीडः पितरमिव तमभ्युत्तिष्ठति । तेनौचित्याद्दत्तासनोपि तत्स-
[^१]G. शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते । शीलाभट्ट- रिकावाचि बाणोक्तिषु च सा यदि ॥ ( सरस्वतीकण्ठाभरणम् ) ।
कादम्बरीकारः श्रीवाणभट्टः
श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरे -
ऽलंकारे कतिचित्सदर्थविषये चान्ये कथावर्णने ।
आ सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरी-
संचारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥
एतदुत्तरम् - गद्यकवीनामेव किम्, महाकवीनां चूडामणिर्बाणभट्टः प्रादुर्बभूव । महाकविर्बाणो महाराजाधिराजश्रीहर्षस्य समकालिकः । यतो ह्ययं हर्षचरितनाम्ना श्रीहर्षस्य चरितं वर्णयामास । महाराजः
श्रीहर्षवर्धनः ६०६ तमं ख्रिष्टसंवत्सरमारभ्य ६४८ तमं वर्षं यावद्राज्यशासनं कृतवानित्यैतिहासिकानां समयः । अयं हि स्थानेश्वरजनपदनायकस्य प्रभाकरवर्धनस्य पुत्रः । अयं भाग्यशाली महावीरो राजनैतिकश्च सर्वानन्यान्विजित्य उत्तरभारते आत्मनश्चक्रवर्तित्वमास्थापयामास । ६२९ तमं ख्रिष्टीयवत्सरमारभ्य
६४५ तमं यावद्भारते भ्रमन् चीनदेशीयो यात्री 'हाँग्काँग्' इत्याख्यो लिखति - 'उत्तरभारते तस्मिन्काले श्रीहर्ष एवैकमात्रोऽधिपतिर्बभूव । नासीत्कश्चिदन्यः प्रशासकः ।'
श्रीहर्षस्य राजसभायां मातङ्गदिवाकरो बाणो मयूरश्चेति प्रथिततमाः कवयो बभूवुरिति राजशेखरेणोल्लिखितम् । बाणो मयूरक
वदन्ति । परं बाणमयूरौ समसामयिकावित्यत्र न संदेहः । मयूरः किल सूर्यशतकस्य निर्माता, यो हि शतकेनानेन सूर्यं स्तुत्वा कुष्ठरोगान्मुक्तो बभूवेति सुप्रसिद्धम् । केच्चिदिमामपि किंवदन्तीमाहुर्यत् - मयूरवत् बाणोपि विकलाङ्गो बभूव, ततश्च चण्डीशतकेन भगवतीं स्तुत्वा रोगान्मुक्तिमवाप । तदिदं शतकं
काव्यमालागुच्छकेषु मुद्रितम् । हर्षचरितम्, कादम्बरीपूर्वार्धम्, चण्डीशतकम्, पार्वतीपरिणयनाटकं चेति बाणस्य कृतिमाहुः । मुकुटताडिकापि बाणकृतेति केचित् । किन्तु नात्र प्रमाणमुपलब्धम् । बहवस्तु-हर्षचरितं कादम्बरी चेत्येव बाणस्य कृतिरित्यसाधयन् ।
अतिसमर्थो बाणकविः । 'गद्य कवीनां निकषं वदन्ती' ति यन्महत्त्व- मारम्भप्रघट्टक एवं मया सूचितम् यस्य च गद्यस्य वासवदत्ता कादम्बरी चेत्येव सर्वोपादेयं संस्कृतसाहित्ये काव्यद्वयमाहुस्तयोरपि च कादम्भरी सर्वोत्तमं गद्यकाव्यमिति मार्मिकाणामुक्ति: । तत्त्वपरीक्षका अभिप्रयन्ति यद् गद्यस्य गुम्फनपाटवं बाणस्यालौकिकम् । यद्धि गद्यं पद्यतोपि सुमधुरम्, लोकानां हृदयाकर्षकम्, कर्णयोः संगीतस्येव सुखरलहरीप्रस्रावकं च स्यादेवंविधस्य जन्मदाता बाणमन्तरा नान्यः कश्चन सफलो दृष्टः । दण्डिनो लेखानुसारम् - कथायामोजःप्राधान्यस्पर्शेपि बाणः कादम्बर्यां वर्ण्यमानरसानुरोधेन [^१]पाञ्चालीरीतिं सुमधुरतथा
निरुवाह । वर्णानां गुम्फो मौक्तिकगुम्फमपि भृशमतिशेते-'कमलिनीपलाशानि जललवलाञ्छितान्यादाय, गर्भधूलिकषायपरिमलमनोहराणि च कुमुदकुवलय

[^१]G.