This page has not been fully proofread.

उपोद्धातः ।
 
कादम्बरीकारः श्रीवाणभट्टः
लेषे केचन शब्दगुम्फविषये केचिद्रसे न्यापरे -
ऽलंकारे कतिचित्सदर्थविषये चान्ये कथावर्णने ।
आ सर्वत्र गभीरधीरकविता विन्ध्याटवीचातुरी-
संचारी कविकुम्भिकुम्भभिदुरो वाणस्तु पश्चाननः ॥
 
एतदुत्तरम् - गद्यकवीनामेव किम्, महाकवीनां चूडामणिर्बाणभट्टः प्रादुर्बभूव । महाकनिर्वाणो महा-
राजाधिराजश्रीहर्षस्य समकालिकः । यतो ह्ययं हर्षचरितनान्ना श्रीहर्षस्य चरितं वर्णयामास । महाराजः
श्रीहर्षवर्धनः ६०६ तमं ख्रिष्टसंवत्सरमारभ्य ६४८ तमं वर्ष यावद्राज्यशासनं कृतवानित्यैतिहासिकानां
समयः । अयं हि स्थानेश्वरजनपदनायकस्य प्रभाकरवर्धनस्य पुत्रः । अयं भाग्यशाली महावीरो राजनैति-
कश्च सर्वानन्यान्विजिय उत्तरभारते आत्मनश्चक्रवर्तित्वमास्थापयामास । ६२९ तमं खिष्टीयवत्सरमारभ्य
६४५ तमं यावद्धारते भ्रमन् चीनदेशीयो यात्री 'हाँगकाँग्' इत्याख्यो लिखति - 'उत्तरभारते तस्मिन्काले
श्रीहर्ष एवैकमात्रोऽधिपतिर्बभूव । नासीत्कश्चिदन्यः प्रशासकः ।'
 

 
9.
 
श्रीहर्षस्य राजसभायां मातङ्गदिवाकरो बाणो मयूरश्श्रेति प्रथिततमाः कषयो बभूवुरिति राजशेखरेणी-
लिखितम् । बाणो मयूरकबेर्भगिनी पतिरासीदिति केचित् । अन्ये तु मयूरो बाणस्य श्वशुर भासीदिति
वदन्ति । परं बाणमयूरौ समसामयिकाचित्यत्र न संदेहः । मयूरः किल सूर्यशतकस्य निर्माता, यो हि
शतकेनानेन सूर्य स्तुत्वा कुष्ठरोगान्मुक्तो बभूवेति सुप्रसिद्धम् । केचिदिमामपि किंवदन्तीमाहुर्यत् - मयू-
रवत् बाणोपि विकलाङ्गो बभूव, ततश्च चण्डीशतकेन भगवतीं स्तुवा रोगान्मुक्तिमवाप । तदिदं शतकं
काव्यमालागुच्छकेषु मुद्रितम् । हर्षचरितम् कादम्बरीपूर्वार्धम्, चण्डीशतकम्, पार्वतीपरिणयनाटकं
चेति बाणस्य कृतिमाहुः । मुकुटताडिकापि बाणकृतेति केचित् । किन्तु नात्र प्रमाणमुपलब्धम् । बहवस्तु-
हर्षचरितं कादम्बरी चेत्येव बाणस्य कृतिरित्यसाधयन् ।
 
9
 
अतिसमर्थो बाणकविः । 'गद्य कवीनां निकर्ष बदन्ती' ति यन्महस्वमारम्भप्रघहक एवं मया सूचितम्
यस च गद्यस्य वासवदत्ता कादम्बरी चेत्येच सर्वोपादेयं संस्कृतसाहित्ये काव्यद्वयमाहुस्तयोरपि च काद
उमरी सर्वोत्तमं गद्यकाव्यमिति मार्मिकाणामुक्ति: 1 तत्वपरीक्षका अभिप्रयन्ति यद् गद्यस्य गुम्फनपाटवं
बाणस्यालौकिकम् । यद्धि गयं पचतोपि सुमधुरम्, लोकानां हृदयाकर्षकम्, कर्णयोः संगीतस्येव सुखर
लहरीप्रसावकं च स्यादेवंविधस्य जन्मदाता बाणमन्तरा नान्यः कश्चन सफलो दृष्टः । दण्डिनो लेखानु-
सारम् - कथायामोजःप्राधान्यस्पर्शेपि बाणः कादम्बर्या वर्ण्यमानरसानुरोधेन पाञ्चालीरीतिं सुमधुरतथा
निरुवाह । वर्णानां गुम्फो मौक्तिकगुम्फमपि भृशमतिशे े-'कमलिनीपलाशानि जललवलान्छितान्या-
दाय, गर्भधूलिकषायपरिमलमनोहराणि च कुमुदकुवलय कमलानि गृहीत्वाऽऽगत्य तस्मिमेव लतागृहशि-
लातले शयनमयाकल्पयम् ।' इत्यादिभिरेवाक्षरैः को बाडपरः संपूर्ण प्रकरणं समापयितुं शकुयात् ?
 
अत एव साक्षात्सरस्वतीरूपोऽयमिति प्रशशंसुर्मार्मिका:- 'जाता शिखण्डिनी प्राकू यथा शिखण्डी
तथाऽवगच्छामि । प्रागल्भ्यमधिकमातुं वाणी बाणो बभूवेति ॥' बाणपरिष्टतस्य प्रत्येकपात्रस्य चरि
णमत थनुरू । मचs पण प्रक रनं प थ-
इप्रकारकमपि अकृत्रिमं सुस्वाभाविकम् । नामान्यप्यनुकूलानि - सेनापतिवरतोचितो मेघनादः ।
ब्राह्मणो मन्त्री शुकनास सत्पुत्रो वैशम्पायनः, पत्नी मनोरमा । तस्य चरित्रमात्रे महानादरः । पुत्रोत्पत्तौ
स्वयं राजा पूर्णपात्र माहरति । युवराजश्चन्द्रापीडः पितरमिव तमभ्युत्तिष्ठति । सेनौचित्याद्दत्तासनोपि तत्स
 
१ शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते । शीलाभहारिकावाचि बाणोक्तिषु च सा यदि ॥ ( सरस्वतीक-
ण्ठाभरणम् ) ।