2023-10-03 15:16:18 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

४६
 
कादम्बरी ।.
 
[ कथामुखे-
यत्र च दशरथवचनमनुपालयनुत्सृष्टराज्यो दशवदनलक्ष्मी विभ्रम [^१]विरामो रामो महामु
निमगस्त्यमनुचरन्सह सीतया लक्ष्मणोपरचितरुचिरपर्णशालः पञ्चवट्यां कंचित्कालं सुख-

मुवास । [^२]चिरैशून्येऽद्यापि यत्र शाखानिलीन निभृतपाण्डुक- पोतपत [^३]पङ्क्तयोऽमललग्नतापसाग्निहोत्र-
धूमराजय इव लक्ष्यन्ते तरवः । बलिकर्मकुसुमान्युद्धरन्त्याः सीतायाः करतलादिव संक्रान्तो
यत्र रागः स्फुरति लताकिसलयेषु । यत्र च पीतोद्गीर्णजलनिधिजलमिव मुनिना निखिल -
माश्रमपान्तवर्तिषु विभक्तं महाह्रदेषु । यं[^४]यत्र च दशरथसुतनिकरनिशित- शरनिपातनिहत-
रजे
[^५]रजनीचर [^६]बलबहलरुधिरसिँ [^७]सिक्तमूलमद्यापि तें[^८]तद्रागाविद्धनिर्गत पलाशमिवाभाति नव [^९]किसलयम-
रण्यम् । अधुनापि यत्र जलरसमये गं[^१०]गम्भीरमभिनव [^११]लंधर निवहनिनादमाकर्ण्य भगवतो

रामस्य त्रिभुवनविवरव्यापिनश्चापघोषस्य स्मरन्तो न गृहन्ति शेह्णन्ति [^१२]शष्पकवलमजसमभुस्रमश्रुजललु-

 
[ टि ]--
यत्र चेति । यत्र यस्मिन्ना श्रमपदे दशरथनन्दनो नाम रामो महामुनिमगस्त्यमनुचरन्ननुगच्छन्कंचित्कालं
पञ्चवट्यां जनस्थाने सीतया जानक्या सह सुखं यथा स्यात्तथोवास वसतिं चक्रे । किं कुर्वन् । दशरथस्य राज्ञो
वचनमाज्ञामनुपालयन्यथा निर्दिष्टः तथैव समाचरन् । इतो रामं विशेषयन्नाह — उत्सृष्टेति । उत्सृष्टं व्त्यक्तं

राज्यं येन स तथा । दशेति । दशवदनस्य दशाननस्य या लक्ष्मीः श्रीस्तस्या विभ्रमो विलासरतस्य विरामोऽव-
सानं यस्मात्स तथा । लक्ष्मण इति । लक्ष्मणेन सौमित्रिणोपरचिता कृता रुचिरा मनोहरा पर्णशालोटजो यस्मै
स तथा । अथ च यत्र यस्मिन्नाश्रमपदे चिरकालशून्येऽद्याप्येतत्कालपर्यन्तं तरवो लक्ष्यन्ते दृश्यन्त इत्यन्वयः ।
इतः पादपान्विशेषयन्नाह - शाखेति । शाखासु शालासु निलीनाः संलग्ना निभृतमत्यर्थं पाण्डघःव: श्वेता ये कपोता

रक्तलोचनास्तेषां पङ्क्तयः श्रेणयो येषु ते तथा । कीदृशा इव । अमला निर्मला लग्नास्तापसानां तपखिस्विनां यदग्निहोत्रं
तस्य धूमानां राजिर्येष्वेवंभूता इव लक्ष्यन्ते । यत्र चेत्यस्य सर्वत्रानुषङ्गः । बलीति । बलिकर्मार्थं कुसुमान्युद्धरन्त्याः
पुष्पावचयं कुर्वन्त्याः सीताया जानक्याः करतलादिव विनिर्गतः सन् । लताकिसलयेषु संक्रान्तो रागः स्फुरति
स्फूर्तिमान्भवति । यत्र चेति । मुनिनागस्त्येन पूर्वं पीतं पश्चादुद्गीर्णं च तन्निखिलं जलनिधिजलमिवाश्रमोपान्तवर्तिषु महाह्र-
वर्तिषु महाह
देषु विभक्तं दृश्यते । यत्र चेति । नवानि प्रत्यप्ग्राणि किसलयानि यस्मिन्नेबंवंभूतमरण्यं अद्यापि
आभाति शोभत इत्यन्वयः । तदेव विशिष्टि – दशरथेति । दशरथस्य सुतो रामस्तस्य निशिताः तीक्ष्णा ये
शरास्तेषां यः निकरः समूहस्तस्य निपातेन निहता ये रजनीचरा राक्षसाः पुण्यजनास्तेषां यद्लं सैन्यं तत्संबन्धि

यद्हलं विस्तृतं रुधिरं रक्तं तेन सिक्तं मूलं य॒स्य । अत एवायापि तद्रागेणाविद्धानि युक्तानि निर्गतानि [^1]पलाश-
पुष्पाणि यस्मिन्नेवंभूतमिव । अधुनापीति । सांप्रतमपि यत्र यस्मिञ्जलधर- समये वर्षाकाले जीर्णमृगा वृद्धहरिणाः
ष्प बालतृणं तस्य कवलं ग्रासं न गृह्णन्ति नाददते । कीदृशाः । अभीति । अभिनवा नूतना ये जलधरा मेघा-
स्तेषां निवहः समूहस्तस्य निनादं शब्दमाकर्ण्य श्रुत्वा रामस्य भगवतः पूज्यस्य चापो धनुस्तस्य घोषं शब्दं स्मरन्तः

स्मृतिविषयीकुर्वन्तः । घोषस्येति स्मृतियोगे मातुः स्मरतीति- वत्कर्मणि षष्ठी । अथ घोषं विशेषयन्नाह - त्रिभुव
नेति । त्रिभुवनं विष्टपं तस्य विवराणि छिद्राणि तानि व्याप्नोतीत्येवंशीलः स तथा तस्य । कीदृशा मृगाः ।
अजस्रं निरन्तरमश्रुजलेन नेत्रजलेन लुलिता व्याकुलीभूता दृष्टयो नेत्राणि येषां ते तथा । किं कृत्वा । दश

दिशो दश ककुभो वीक्ष्यावलोक्य । कीदृश्यो दिशः । शून्याः सजातीयप्राणिरहिताः । मृमागान्विशेषयन्नाह -
 

 
टिप्प० -

 
 
 
[^
1]F. पलाशानि पत्राणि । स्वभावरक्तेषु किसलयेषु रुधिररागा- विद्धत्वस्योत्प्रेक्षा ।
 
पाठा० -

 
[^
]G. रामो.
[^
]G. अतिचिर.
[^
]G. पङ्क्तयोऽलग्न .
[^
]G. यत्र दशरथसुतशर .
[^
]G. रजनीचर .
[^
]G. बहुल, .
[^
रक्त.
 
]G. रक्त.
[^
]G. रागानुविद्ध.
[^
]G. किसलम् .
[^
१०]G. गम्भीररवम्.
[^
११]G. जलघरनिनाद.
[^
१२]G. सम्यक्शष्प,
 
.