This page has not been fully proofread.

४६
 
कादम्बरी ।.
 
[ कथामुखे-
यत्र च दशरथवचनमनुपालयनुत्सृष्टराज्यो दशवदनलक्ष्मी विभ्रमविरामो रामो महामु
निमगस्त्यमनुचरन्सह सीतया लक्ष्मणोपरचितरुचिरपर्णशालः पञ्चवट्यां कंचित्कालं सुख-
मुवास । चिरैशून्येऽद्यापि यत्र शाखानिलीन निभृतपाण्डुकपोतपत योऽमललग्नतापसाग्निहोत्र-
धूमराजय इव लक्ष्यन्ते तरवः । बलिकर्मकुसुमान्युद्धरन्त्याः सीतायाः करतलादिव संक्रान्तो
यत्र रागः स्फुरति लताकिसलयेषु । यत्र च पीतोद्गीर्णजलनिधिजलमिव मुनिना निखिल -
माश्रमपान्तवर्तिषु विभक्तं महाहदेषु । यंत्र च दशरथसुतनिकरनिशितशरनिपातनिहत-
रजेनीचरबलबहलरुधिरसिँक्तमूलमद्यापि तेंद्रागाविद्धनिर्गत पलाशमिवाभाति नवकिसलयम-
रण्यम् । अधुनापि यत्र जलघरसमये गंम्भीरमभिनवजलंधर निवहनिनादमाकर्ण्य भगवतो
रामस्य त्रिभुवनविवरव्यापिनचापघोषस्य स्मरन्तो न गृहन्ति शेष्पकवलमजसमभुजललु-
यत्र चेति । यत्र यस्मिन्ना श्रमपदे दशरथनन्दनो नाम रामो महामुनिमगस्त्यमनुचरन्ननुगच्छन्कंचित्कालं
पञ्चवट्यां जनस्थाने सीतया जानक्या सह सुखं यथा स्यात्तथोवास वसतिं चक्रे । किं कुर्वन् । दशरथस्य राज्ञो
वचनमाज्ञामनुपालयन्यथा निर्दिष्टः तथैव समाचरन् । इतो रामं विशेषयन्नाह — उत्सृष्टेति । उत्सृष्टं व्यक्तं
राज्यं येन स तथा । दशेति । दशवदनस्य दशाननस्य या लक्ष्मीः श्रीस्तस्या विभ्रमो विलासरतस्य विरामोऽव-
सानं यस्मात्स तथा । लक्ष्मण इति । लक्ष्मणेन सौमित्रिणोपरचिता कृता रुचिरा मनोहरा पर्णशालोटजो यस्मै
स तथा । अथ च यत्र यस्मिन्नाश्रमपदे चिरकालशून्येऽद्याप्येतत्कालपर्यन्तं तरवो लक्ष्यन्ते दृश्यन्त इत्यन्वयः ।
इतः पादपान्विशेषयन्नाह - शाखेति । शाखासु शालासु निलीनाः संलग्ना निभृतमत्यर्थ पाण्डघः श्वेता ये कपोता
रक्तलोचनास्तेषां पतयः श्रेणयो येषु ते तथा । कीदृशा इव । अमला निर्मला लग्नास्तापसानां तपखिनां यदग्निहोत्रं
तस्य धूमानां राजिर्येष्वेवंभूता इव लक्ष्यन्ते । यत्र चेत्यस्य सर्वत्रानुषङ्गः । बलीति । बलिकर्मार्थ कुसुमान्युद्धरन्त्याः
पुष्पावचयं कुर्वन्त्याः सीताया जानक्याः करतलादिव विनिर्गतः सन् । लताकिसलयेषु संक्रान्तो रागः स्फुरति
स्फूर्तिमान्भवति । यत्र चेति । मुनिनागस्त्येन पूर्वं पीतं पश्चादुद्गीर्णं च तन्निखिलं जलनिधिजलमिवाश्रमोपान्त-
वर्तिषु महाहदेषु विभक्तं दृश्यते । यत्र चेति । नवानि प्रत्यप्राणि किसलयानि यस्मिन्नेबंभूतमरण्यं अद्यापि
आभाति शोभत इत्यन्वयः । तदेव विशिष्टि – दशरथेति । दशरथस्य सुतो रामस्तस्य निशिताः तीक्ष्णा ये
शरास्तेषां यः निकरः समूहस्तस्य निपातेन निहता ये रजनीचरा राक्षसाः पुण्यजनास्तेषां यद्वलं सैन्यं तत्संबन्धि
यद्वहलं विस्तृतं रुधिरं रक्तं तेन सिक्तं मूलं य॒स्य । अत एवायापि तद्रागेणाविद्धानि युक्तानि निर्गतानि पलाश-
पुष्पाणि यस्मिन्नेवंभूतमिव । अधुनापीति । सांप्रतमपि यत्र यस्मिञ्जलधरसमये वर्षाकाले जीर्णमृगा वृद्धहरिणाः
शप बालतृणं तस्य कवलं ग्रासं न गृह्णन्ति नाददते । कीदृशाः । अभीति । अभिनवा नूतना ये जलधरा मेघा-
स्तेषां निवहः समूहस्तस्य निनादं शब्दमाकर्ण्य श्रुत्वा रामस्य भगवतः पूज्यस्य चापो धनुस्तस्य घोषं शब्दं स्मरन्तः
स्मृतिविषयीकुर्वन्तः । घोषस्येति स्मृतियोगे मातुः स्मरतीतिवत्कर्मणि षष्ठी । अथ घोषं विशेषयन्नाह - त्रिभुव
नेति । त्रिभुवनं विष्टपं तस्य विवराणि छिद्राणि तानि व्याप्नोतीत्येवंशीलः स तथा तस्य । कीदृशा मृगाः ।
अजस्रं निरन्तरमश्रुजलेन नेत्रजलेन लुलिता व्याकुलीभूता दृष्टयो नेत्राणि येषां ते तथा । किं कृत्वा । दश
दिशो दश ककुभो वीक्ष्यावलोक्य । कीदृश्यो दिशः । शून्याः सजातीयप्राणिरहिताः । मृमान्विशेषयन्नाह -
 

 
टिप्प० - 1 पलाशानि पत्राणि । स्वभावरक्तेषु किसलयेषु रुधिररागाविद्धत्वस्योत्प्रेक्षा ।
 
पाठा० - १ रामो. २ अतिचिर. ३ पङ्कयोऽलग्न ४ यत्र दशरथसुतशर ५ रजनीचर ६ बहुल, ७ रक्त.
 
८ रागानुविद्ध. ९ किसलम् १० गम्भीररवम्. ११ जलघरनिनाद. १२ सम्यकशष्प,