This page has not been fully proofread.

अगस्त्याश्रमः ]
 
पूर्वभागः ।
 
विशेषकम्य, सुरलोकादेकहुंकारनिपातितन
हुषेप्रकटप्रभावस्य भगवतो महामुनेरगस्त्यस्य भार्य-
या लोपामुद्रया स्वयमुपरचितालवालकैः करपुटसलिलसेक संवर्धितः सुतनिर्विशेषरुपशोभितं
पादपैः, तत्पुत्रेण च गृहीतव्रतेनाषाढिना पवित्रभस्मविरचितत्रिपुण्डकाभरणेन कुशचीवरवी-
ससा मौझमेखलाकलितमध्येन गृहीत
हेरितपर्णपुटेन प्रत्युटजमटता भिक्षां दृढदस्युनाना प..
वित्रीकृतम्, अतिप्रभूतेमाहरणाच यस्मेध्मवाह इति पिता द्वितीयं नाम चकार, दिशि दिशि
शुकहरितैश्च कदलीवनैः श्यामलीकृतपरिसरम्, सरिता च कलशयोनिपरिपीतसागरमार्गानु-
गतयेव बद्धवेणिकया गोदावर्या परिगतमाश्रमपदमासीत् ।
 
इति कोशः । सुरेति । सुरलोका देकहुंकारेणैक हुंकृतिमात्रेण निपातितो भ्रंशितो यो नहुषो रांजा तेन प्रकटः
स्पष्टः प्रभावो यस्य स तथा तस्य भगवतो माहात्म्यवतः । महांश्चासौ मुनिश्च महामुनिस्तस्योत्प्रकृष्टमननशीलस्य ।
पुनः कीदृशम् । पादपैर्वृक्षैरुपशोभितम् । अथ पादपान्विशिष्टि - अगस्त्येति । अगस्त्यस्य भार्यया पत्या
लोपामुद्रया स्वयमात्मनोपरचितमालवालकमावापो येषां ते तथा तैः । करेति । करा एव पुष्टानि तैर्यः सलिलय
जलस्य सेकः सिच्चनं तेन संवर्धितैर्वृद्धि प्रापितैरत एव सुतेभ्यः सूनुभ्यो निर्गतो विशेषो येभ्यस्ते तथा तैः । तत्पुत्रेण
दृढदस्युनाम्ना पवित्रीकृतम् । अथ तत्पुत्रं विशिष्टि - पाशो दण्ड आषाढः सु विद्यते यस्यासौ स तेन । पवित्रं
यद्भस्म तेन विरचितं निर्मितम् । त्रयाणां पुण्ड्रकाणां समाहारस्त्रिपुण्ड्रकं तिलकविशेषस्तदेवाभरणमलंकारो यस्य स
तथा कुशेति । कुशेति । कुशा एव चीवरं वासो यस्य स तेन मौजेति । मुञ्जः शरस्तत्संबन्धिनी या मेखला
तया कलितो व्याप्तो मध्यो मध्यप्रदेशो यस्य स तथा तेन । गृहीतेति । गृहीतमात्तं हरितं नीलं पर्णपुटं पत्रपुटं
येन स तथा तेन । किं कुर्वता । उटजमुटजं प्रति प्रत्युटजं भिक्षार्थमटता पर्यटनं कुर्वता । 'पर्णशालोटजः' इति
कोशः । 'अकथितम्' इत्यनेन भिक्षामिति द्वितीया । चः पुनरर्थे । यस्य दृढदस्युनाम्नः पितागस्त्य इध्मवाह
इत्यन्वर्थं द्वितीयं नाम चकार निर्ममे । कस्मात् । अतीति । अतिप्रभूता य इध्मानस्तेषामाहरणादानयनात् ।
दिशीति । दिशि दिशि प्रत्येकदिशि शुकवद्धरितैनलैः कदलीवनै रम्भाकाननैः श्यामलीकृतः कृष्णीकृतः परिसरः
पर्यन्तभूर्यस्य तत्तथा तम् । गोदावर्येति । गोदावर्यां सरिता परिगतं परिप्राप्तम् । अथ गोदावरीं विशेषयन्नाह -
कलशेति । कलशयोनिरगस्त्यस्तेन परिपीत श्रुलुकीकृतो यः सागरः समुद्रस्तस्य मार्गः पन्थास्तमनुगतयेवानु-
सत्येव । वेणीति । वेण्येव वेणिका । बद्धा वेणिका यया सा तथा । 'वेणी धारारयश्च' इति कोशः ।
 
टिप्प० -- 1 वृत्रवधाद् ब्रह्महत्यामुपगते सुरपतौ स्वर्गराज्यमराजकमालोक्य निर्जरैः स्वस्वतेजोभिः
संवर्ध्य नहुषः स्वर्गराज्येऽभिषिक्तः । ऐश्वर्यमदाह्रष्टबुद्धिः स इन्द्राणीमकामयत । सासु मिश्रणया तं
संदिदेश - 'यदि महर्षिभिरूढां शिबिका मारुहा मन्मन्दिरमुपगच्छसि ततस्ते भवामि' इति : दुर्बुद्धिप्रेरितो
नहुषस्तु प्रभुतथा भृगुमुखान्महर्षीन् शिबिकावहने नियोज्य इन्द्राणीमभिसरन् त्वरितगमनाय भृगुं शिरसि
पदाऽऽजघान - 'सर्प सर्प' इति । भृगोर्जटासु निभृतं विलीनो भगवानगस्त्यस्तत्पदाघातात्प्रकुपितः
शशाप - 'सर्प एव सन् भुवि निपत' इति महाभारतम् । 2 अगस्त्यपरिपीततया नूनं सागरो लुसः ।
अत एव साध्या गोदावर्या बद्धवेणिकया सत्या ( संस्काराकरणात् जटीभूततया बद्धा वेणिः गया )
तन्मार्गानुगमनं कर्तव्यमेवेति उत्प्रेक्षाशयः ।
 
पाठा-
-१ निपतित. २ प्रकटन. ३ तद्भार्यया. ४ लोपामुद्रया च. ५ आषाढिनतिना ६ चीर. ७ वल्कल.
८ मुञ्ज. ९ हरिणकर्णपुटेन १० शुक्कुल, ११ श्यामीकृत. १२ कावेर्या .