2023-10-03 14:34:42 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

A
 
कादम्बरी ।
 
[ कथामुखे-
तस्यां च दण्डकारण्यान्तःपाति, सकलभुवन [^१]विख्यातम्, उत्पत्तिक्षेत्रमिव भगवतो धर्मस्य,
सुरपति [^२]प्रार्थनापीत- सकलसागर [^३]जलस्य, [^४]मेरुमत्सरादूँ [^५]द्गगनतलप्रसारित विकट [^६]शिरः सहस्रेण दिव-
सकररथगँ [^७]गमनपथमपनेतु- मभ्युद्यतेनावगणित [^८]सकलंसुरवचसा विन्ध्यगिरिण। णा [^९]प्येनु [^1]ङ्घिताज्ञस्य
जठरानलजीर्ण [^2]वाता पिदानवस्य, सुरासुरमुकुटमं [^१०]मकर [^११]पत्रकोटिचुम्बितचरणरजसो [^१२]दक्षिणामुख-

 
[ टि ]
-
 
DOW
 
-तस्यां चेति । तस्यां विन्ध्याटव्यामगस्त्यस्य मुनेर्वातापिद्विष आश्रमपदं मुनिस्थानमासी दिव्त्यन्वयः । इत
आश्रमविशेषणानि । दण्डकेति । दण्ड [^3]कारण्यं सत्ह्याद्रिसंबन्धि काननं तदन्तः- पाति । तदन्तर्वतीत्यर्थः ।
सकलेति । सकलानि समग्राणि यानि भुवनानि विष्टपानि तेषु विख्यातं प्रसिद्धम् । उदिति । भगवतो

माहात्म्यवतो धर्मस्य श्रेयस उत्पत्ति क्षेत्रमिव प्रभवस्थानमिव । इतो मुनिं विशिष्टि - सुरेति । सुरपतिरि-
न्द्रस्तस्य प्रार्थना याचना तया पीतं चुलुकीकृतं सकलसागरस्य समग्रसमुद्रस्य जलं पानीयं येन स तथा तस्य ।
विन्ध्येति । विन्ध्यगिरिणापि जलबालकाद्रिणा- प्यनुल्लङ्घितानतिक्रान्ताऽऽज्ञा शिष्टिर्यस्य स तथा तस्य । अथ

विन्ध्यगिरिं विशिनष्टि – मेरुमत्सरादिति । मेरोः सुवर्णाद्रेर्मत्सरान्मा- त्सर्याद्गगनतल आकाशतले प्रसारितानि
विस्तारितानि विकटानि विपुलानि यानि शिरांसि तेषां सहस्रं येन स तथा तेन । दिवसेति । दिवसकरः
सूर्यस्तस्य रथः स्यन्दनस्तस्य या गतिर्गमनं तस्याः पन्थाः । 'ऋक्पूरब्धूः - ' इत्यच् । तं अपनेतुं दूरीकर्तुमभ्यु-
द्यतेन प्रयतमानेन । अवेति । अवगणितान्यनादृतानि सकलानि समग्राणि सुराणां देवानां वचांसि वाक्यानि
येन स तथा तेन । अथ मुनिं विशेषयन्नाह - जठरेति । जठरानलेनोदराग्निना जीर्णोऽन्ततिरोहितो वातापि-
दानवो येन स तथा तस्य । सुरा देवा असुरा दानवास्तेषां मुकुटाः किरीटानि तेषु मकरपत्रं मकराकारः
पक्षः । 'पत्रं वाहनपक्षयोः' इत्यमरः । तस्य कोटिरग्रं तया चुम्बितं गृहीतं चरणरजोऽभिङ्घ्रिरेणुर्यस्य स तथा
तस्य । दक्षिणेति । दक्षिणा अवाची तस्या मुखमाननं तस्मिन्विशेषकस्तिलकस्तस्य । 'चित्रपुण्ड्रविशेषकः'
 
टिप्प० -

 
[^
1]F. सुमेहं प्रदक्षिणीकृत्य यथा प्रत्यहमादित्यो भ्रमति तथा मामपीति मनसि सुमेरुमीर्थ्यन्
ष्यन्विन्ध्य गिरिस्तथा कर्तुमादित्य- मनुरुरोध । तत्प्रत्याख्यानास्कुपितः स तन्मार्गमवरोढुं भृशं प्रवर्धमानो देवै-
निषिद्धोऽपि नात्यजद्दुराग्रहम् । ततसंस्रस्तानां देवानामनुरोधेन सपत्नीके गुरावगस्त्यमहर्षो तन्त्रोपस्थितेऽवन-

तशिरस्को विन्ध्याचलस्तं प्रणनाम । महर्षिस्तु - ' यावदहं न परावर्ते तावदेवमेव स्वमवनतस्तिष्ठेः' इत्या-
दिश्य दक्षिणां दिशमुपगतो नायापि प्रत्यागच्छति । बिविन्ध्योध्यप्यद्यावधि तथैव तिष्ठतीति पुराणम्

[^
2]F. पुरा किल आनोभ्रात्रोरिल्वल-वातापिनो र्दैत्ययोर्मध्ये ज्येष्ठ इल्वलो ब्राह्मणरूपभृत् भेमेषरूपवाहिनो बावाता-
पेर्मामांसेन निमन्त्रितान् ब्राह्मणान् भोजयामास । भुक्तेषु तेषु 'एहि बावातापे !' इस्थमित्वल्व- लेनाहूतो वातापि-
दै
र्देववरप्रभावात्तेषामुदरं fear farstीभित्त्वा निरक्रमीत् । ब्राह्मणानामित्थमकाण्डसंहारमालोक्य दयमानैरमरैः
प्रार्थितो भगवानगस्त्यो दुरभिसन्धिमिमं वातापिपिं भुक्त्वा जरयामासेति भारतम् ।
[^
3]F. दण्डको नाम
कश्चित्सूर्यवंशीयो नृपः शुक्राचार्यस्य कन्माया- मरजां नाम बलादुपजग्राह । शुक्राचार्य स्तदवगम्य राजानम-
पशत्- 'तवाचिरान्मृत्युर्भवेत् । सप्ताहान्तस्तदिदं ते राज्यं महारण्यतया परिणमेत् ।' तदेव राज्यं दण्ड-
कारण्य मिदमिति रामायणम् ।
 
पाठा० --

 
[^
]G. तलख्यातम्.
[^
]G. निपीत .
[^
]G. सलिलस्य .
[^
]G. मेरुशिखर .
[^
]G. अम्बरतल.
[^
]G. शिखर.
[^
]G. गतिपथ.

[^
]G. सुरसमूह .
[^
]G. असत. ङ्घित.
[^
१०]G. तटघटितमरकतमय .
[^
११]G. भङ्गकोटि ; पत्रकोटि.
[^
१२]G. दक्षिणाशावधू.