2023-10-03 13:33:27 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

विन्ध्याटवी ]
 
पूर्वभागः ।
 
दमरपतितनुरिव नेत्रसहस्रसंकुला, क्वचिन्नारायणमूर्तिरिव तमाल- नीला, क्वचित्पार्थरथपता-
केव [^१]कप्याक्रान्ता, कर्चिं[^२]क्वचि- दवनिपतिद्वारभूमिरिव वेत्रलताशतदुःप्रवेशा, क्वचिद्विराटनगरीव

[^३]
कीच कशताकुला, क्वचिदम्बरश्रीरिव व्यांयाधानुगम्यमानतरल- तारकमृगा, क्वचिद्गृहीतव्रतेव
दर्भचीरजटावस्कलधारिणी, अपरिमित बै[^४]बहलपत्रसंचयापि सप्त [^५]पर्णोपशोभिता, क्रूरसत्त्वापि
मुनिजनसेविता, पुष्पवत्यपि पवित्रा विन्ध्यादवी नाम ।
 

 
[ टि ]
-
 
-सङ्ग्रामस्तस्य भूमिरिव । उभयोस्तुल्यतामाह - शरेति । शरा मुञ्जदण्डास्तेषां शतं तेन निचिता व्याप्ता । पक्षे
शरा बाणास्तेषां शतैर्निचितेति विग्रहः । क्वचिदिति । अमराणां देवानां पतिः प्रभुरिन्द्रस्तस्य तनुरिव शरीरमिव ।
उभयोः साम्यमाह – नेत्रेति । नेत्राणां [^1]वृक्षविशेषाणां सहस्रं तेन संकुला । यद्वा । नेत्राणां जटानां सहस्रं तेन
संकुला । 'जटांशुकयोर्नेत्रम्' इत्यमरः । पक्षे नेत्राणां चक्षुषां सहस्रं तेन संकुलेति विग्रहः । क्वचिदिति ।
नारायणस्य कृष्णस्य मूर्तिरिव शरीरमिव । उभयोः साम्यमाह - तमालेति । तमालैर्वृक्षविशेषैर्नीला । पक्षे
तमालवन्नीला । क्वचिदिति । पार्थोऽर्जुनस्तस्य रथः स्यन्दनस्तस्य पताका वैजयन्ती सेव । उभयोस्तुल्यमाह -
कपीति । कपिभिर्गोलाङ्गूलैराकाक्रान्ता । पक्षे कपिचिह्नोपयुक्तेत्यर्थः । क्वचिदिति । अवनिपती राजा तस्य द्वार -

भूमिरिव । उभयोः सादृश्यमाह - वेत्रेति । वेत्राणि वृक्षविशेषाः लता वल्लयश्च तासां शतं तेन दुःप्रवेशा दुःखेन
प्रवेष्टुं शक्या । पक्षे वेत्रलता वेत्रयष्टयः सरलत्वाल्लतोपमानम् । ताभिर्दुःप्रवेशेत्यर्थः । क्वचिदिति । क्वचित्प्रदेशे
विराटराजनगरी तद्वदिव । उभयोः साम्यमाह — कीचकेति । कीचकाः सच्छिंद्रवेणवस्तैराकुला । पक्षे कीचकानां
स्वप्रियाबान्धवानां शतं तेनाकुला व्यग्रा । क्वचिदिति । अम्बरमाकाशं तस्य श्रीरिव । उभयसादृश्यमाह -
व्याघेधेति । व्याधैरनुगम्यमानास्तरला भयविह्वला [^2]स्तारक मृगा विचित्रमृगा यस्यां सा । पक्षे व्याधेनानुगम्यमान-
स्तरलतारका मृगश्चन्द्रनक्षत्रं यस्यामिति विग्रहः । महादेवेन व्याधरूपधारिणा हतं (?) तस्यार्धं मृगनक्षत्रमिति
प्रसिद्धम् । क्वचिदिति । गृहीतेति । गृहीतमात्तं व्रतं नियमो यया सैवंविधेव । उभयतुल्यतामाह - दर्भेति ।
दर्भाः कुशाः, चीराणि तृणविशेषाणि, जटा शिफा, वल्कलानि चोचानि, एतानि धर्तुतुं शीलमस्याः सा तथा । पक्षे
दर्भचीराणि पूर्वोक्तानि, जटाः संहताः कचाः । 'शिफाजटे संहतौ कचौ' इत्यनेकार्थः । वल्कलानि प्रतीतानि तेषां
धारणं विद्यते यस्या इति विग्रहः । अपरीति । अपरिमितान्यगणितानि बहलानि निबिडानि पत्राणि पर्णाणि तेषां

संचयः समूहो यस्यामेवंभूतापि सप्तपर्णोपशोभितेति विरोधः । तत्परिहारपक्षे सप्तपर्णोऽयुक्छदस्तेन शोभायमाने-
त्यर्थः । क्रूरेति । क्रूरं सत्त्वं मनो यस्याः सैवंविधापि मुनिजनसेवितेति विरोधः । 'सत्त्वं द्रव्ये गुणे चित्ते
व्यवसायस्वभावयोः' इत्यनेकार्थः । तत्परिहारपक्षे क्रूरा हिंस्राः सत्त्वाः प्राणिनो यस्यामिति विग्रहः । मुनिजनतपो-

माहात्म्यात्क्रूरा अक्रूरतां गता इत्यत्र व्यङ्ग्यम् । पुष्पवतीति । पुष्पवत्यार्तववत्यपि पवित्रेति विरोधः । तत्परि
हारपक्षे पुष्पं सूनं विद्यते यस्यामिति विग्रहः ।
 
टिप्प० –

 
[^
1]F. 'नरगिस' इति उर्दू भाषायामिति कश्चित् । वस्तुतस्तु नेत्राणां वृक्षमूलानां सहस्रेण
संकुला । 'नेत्रं मन्थगुणे वस्त्रभेदे मूले तु द्रुमस्य च ' इति मेदिनी ।
[^
2]F. व्याधैः किरातैः अनुगम्यमानाः,
अत एव तरलतारका भयेन चञ्चलनेत्रकनीनिका मृगां यस्यां सा ( अटवी ) । व्याधरूपिणा महादेवेन
अनुगम्यमानम् अत एव तरलं तारकमृगं मृगशिरोनक्षत्रम् (मृग-तारकम् - तारक मृगम्) यस्यां सा ।

पुरा हि ब्रह्मा निजकन्यां सुन्दरीं सन्ध्यामालोक्य कामातुर- स्तामन्वगच्छत् । सन्ध्या मृगीरूपेण शिवं
शरणमयासीत् । ब्रह्मापि मृगो भूत्वा तामन्वधावत् । तदवलोक्य शिवो ब्रह्मणः शिरश्छेदाय पिनाकेन
शरं प्रजिघाय । भीतलज्जितो ब्रह्मा मृगशिरो- नक्षत्रमध्यास्त । शिवशरोपि आर्द्रानिक्षत्ररूपेण तमनु स्थित

इति शिवपुराणम् ।
[^
3]F. शोभमाना ।
 
पाठा०
 

 
[^१]
GREICH
 
•१
. वानराकाक्रान्ता.
[^
]G. अमरपति,
[^
]G. कीचकावृता; कीचकराता शतावृता.
[^
]G. बहुल,
[^
]G. पर्णभूषिता.