2023-09-30 15:12:58 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

४२
 
कादम्बरी ।
 
सो [ कथामुखे -
 
सो
^१]त्कण्ठेव विविधपल्लवानिलवीजिता समदना च, बालग्रीवेव व्याघ्रनखपेकि [^२]पङ्क्तिमण्डिता गण्डका-
भरणा च, पौ[^३]पानभूमिरिव प्रकटितमधुकोश [^४]शता प्रकीर्णविविध- कुसुमा च, क्वचित्प्रल
यवेलेव महावराहदंष्ट्रासमुत्खातधरणिमण्डला, क्वचिद्दशमुखनगरीव चटुलवानरवृन्दभन्ज्यमान [^५]तुङ्गशा-

लाकुला, क्वचिदचिरनिर्वृत्त विवाह भूमिरिव हरितकुश समित्कुसुम- शमीपलाशशोभिता, चँ[^६]क्वचि-
दुद्वृत्तमृगपतिनादभीतेव कण्ट किता, कचिन्मत्तेव कोकिलकुल [^७]प्रलापिनी, कचिदुन्मत्तेव वायु-
वेगकृततालशब्दा, क्वचिद्विधवेवोन्मुक्ततालपत्रा, क्वचित्समर- भूमि रिव शरशतनिचिता, क्वचि
 

 
[ टि ]--
विविधेति । विविधा अनेकप्रकारा ये पल्लवास्तेषामनिलो वायुस्तेन वीजिता तथा मदनेन मदनद्रुमेण सहवर्त -
माना । संयुक्तेत्यथः । पक्षे सह मदनेन कन्दर्पेण वर्तमाना समदना सा । उत्कण्ठिता रूस्त्र्यपि तथा । बालेति ।
बालाः स्तनंधयास्तेषां ग्रीवा कन्धरा तद्वदिव । उभयोरेकधर्मतामाह
- व्याघ्रेति । व्याघ्राः शार्दूला नखाः सुर-
भि [^1]नखप्राणिनस्तेषां पङ्किःक्ति: श्रेणी तया मण्डिता शोभिता तथा गण्डका वाघ्रर्ध्रीणसास्त एवाभरणं यस्यां सेति । पक्षे
व्याघ्रनखपङ्क्त्या मण्डिता । अत एव 'शार्दूलदिव्यनख- भूषणभूषिताय नन्दात्मजाय' इति । बालरक्षार्थं व्याघ्रना
वध्यन्त इति प्रसिद्धिः । गण्डस्थलपर्यन्तवर्ति यत्तादृशं ग्रीवास्थं भूषणं देशविशेषे गण्डकै [^2]कमिति प्रसिद्धं तदाभरणं
यस्यां सा । पानेति । मद्यपानार्थं या भूमिः सा पानभूमिस्तुद्वदिव । उभयत्र साम्यमाह - प्रकटितेति । प्रक-
टितमाविष्कृतं यन्मधु माक्षिकं कोशा एव कोशकाः पट्टसूत्रस्था [^3]नानि तेषां शतं यस्यां सा । पक्षे प्रकटितं मधु मद्यं
तस्य कोशकानि पानपात्राणि तेषां शतं ययेति विग्रहः । प्रकीर्णानि पर्यस्तानि विविधानि विचित्राणि कुसुमानि यस्या-

मित्युभयत्र समानम् । क्वचिदिति । क्वचित्प्रदेशे यदा सर्वं जलमयं तदा प्रलयस्तस्य वेलावसरस्तद्वदिव । 'वेला
वारादवसरः' इति कोशः । उभयोः सादृश्यमाह - महेति । महावराहाः क्रोडास्तेषां दंष्ट्रा दाढास्ताभिः समुत्खातं
सम्यक्प्रकारेण खनितं धरणिमण्डलं पृथ्वी प्रदेशो यस्याः सा तथा । पक्षे महावराहस्य परमेश्वरतृतीया- वताररूप
दंष्ट्रया समुत्खातमू र्ध्वमानीतं घरणिमण्डलं यस्यामिति विग्रहः । क्वचिदिति । क्वचित्प्रदेशे दशमुखस्य रावणस्य
नगरी लङ्का तद्वदिव । उभयत्र साम्यमाह - चटुलेति । चटुलाश्चञ्चला ये वानराः कपयस्तेषां वृन्दं समूहस्तेन
भज्यमानास्त्रोट्यमानास्तुङ्गा उच्चाः शाला: शालवृक्षास्तैराकुला व्याकुला । पक्षे कपिवृन्देन भज्यमानास्तुङ्गा याः
शाला गृहैकदेशास्ताभिराकुला व्यप्ग्रेति विग्रहः । क्वचिदिति । क्वचित्प्रदेशेऽचिरं तत्कालं निवृत्तो निष्पन्नो विवाहः

पाणिपीडनं यस्यामेवंविधा भूमिस्तद्वदि । उभयोस्तुल्यतामाह - हरितेति । यथायोग्यमन्वयः । हरिता नीला
ये कुशा दर्भाः, समिध एधांसि, कुसुमानि पुष्पाणि, शमी शिवा, पलाशा ब्रह्मपादपास्तैः शोभिता विराजमाना ।
उद्वाहभूमिरप्येतादृशी स्यादित्युभयोः साम्यम् : क। क्वचिदिति । उद्वृत्तो निर्मर्यादो यो मृगपतिः सिंहस्तस्य नादो
गर्जितं तेन भीते । कण्टको रोमाञ्चः संजातोऽस्या इति कण्टकिता । द्वितीयपक्षे कण्ट किता कण्टकयुक्ता ।
कन्वि
क्वचिदिति । केक्वेति पूर्ववत् । मधुना मत्तेव कोकिलानां परभृतानां कुलानि तेषां कलशब्दरूपः
प्रलापो यस्याम् । अथ च 'प्रलापोऽनर्थकं वचः' । क्वचिदिति । उन्मत्तेवोन्मादवातंयुक्तेव वायुवेगेन पवना-
धिक्येन कृतो विहितस्तालवृक्षैः शब्दो यस्यां सा । उन्मादवातवानपि तालं शब्दं करोतीति लोकप्रसिद्धम् ।
कन्
क्वचिदिति । विधवेव मृतभर्तृकेव । उभयोः शब्दसाम्यमाह - उन्मुक्तेति । उन्मुक्तानि त्यक्तानि तालप-
त्राणि तालदलानि भरयस्यां सा । पक्ष उन्मुक्तानि तालपत्राणि ताडङ्का ययेति विग्रहः । क्वचिदिति । समरः
 
-
 

 
[^
1
 
टिप्प० -1
]F. व्याघ्राणां नखशिपङ्क्तिभिः ( गमनकालोत्पन्न नखचिह्न- श्रेणिभिः ) मण्डितेति स्पष्टोऽर्थः ।
 

[^
2]F. 'गण्डा, 'तामीवीज' इति भाषाप्रसिद्धम् ।
[^
3]F. प्रकटितम् आविष्कृतं मधु-कोशानां माक्षिकाधाराणाम्

( 'शहद के छत्ते' ) शतं यस्याम् ( अटवी ) । आविष्कृतं मधुकोशानां मद्यपात्राणां शतं यस्याम्
( पानभूमिः ) । इति स्पष्टोऽर्थः ।
[^
4]F. करतलध्वनिः, भुजास्फालनशब्दो वा ।
 

 
[^
]G. सोलात्कण्टनिवेते.
[^
]G. पदप ङ्क्ति.
[^
]G. आपान.
[^
]G. कोकशता.
[^
]G. शृङ्ग; उत्तुङ्ग
[^
]G. उन्मत्त.
[^
]G. कुलकल,
 

 
.