2023-10-25 13:14:33 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

चन्द्रापीडादीनां सुखलाभः ]
 
उत्तरभागः ।
 
७११
 
कादम्बरीरुच्या च सर्वत्रैवापरेष्वपि रं[^१]रम्यतरेषु तेषु तेषु स्थानेषु तया सह जन्मद्वयाकाकङ्क्षयै-
वापरिसमाप्तान्यपुनरुक्तानि च तानि तानि न केवलं चन्द्रमाः कादम्बर्या सह, कादम्बरी
महाश्वेतया सह, महाश्वेता तु पुण्डरीकेण सह, पुण्डरीकोऽपि चन्द्रमसा सह, परस्परावियो-
गेन सर्व एव सर्वकालं [^२]सुखान्यनुभवन्तः परां कोटिमानन्दस्याध्यगच्छन् ॥
 

 
[ टि ]--
'सहस्रपत्रामोदवाहिनि' इति पाठः । कादम्बरीरुच्या च कादम्बर्याः स्पृहया चापरेष्वपीतरेष्वपि रम्यतरे
ष्वतिमनोहरेषु तेषु तेषु स्थानेषु प्रदेशेषु । सर्वत्रैव तथाया कादम्बर्या सह जन्मद्वया- काङ्क्षयैव भवान्तरद्वयवाञ्छ्यै
वापरिसमाप्तान्यपरिपूर्णान्यपुन- रुक्तानि च कदाचिदसेवितानि । प्रतिदिननवीनानीत्यर्थः । तानि तानि च वक्तुम-
शक्यानि न केवलं चन्द्रमाः कादम्बर्या सह, किं तु कादम्बरी महाश्वेतया सह, महाश्वेता पुण्डरीकेण, पुण्डरी
कोऽपि चन्द्रमसा सह, परस्परमन्योन्यमवियोगेनाप्रलम्भेन सर्व एव सर्वकालं समग्रसमयं सुखानि सातान्यनु-
भवन्तोऽनुभव विषयी कुर्वन्त आनन्दस्य प्रमोदस्य परां कोटिं परमामवस्थामध्य- गच्छन्प्राप्तवन्तः ॥
 

 
इति श्रीपादशाह श्रीअकब्बरजलालदीन सूर्यसहस्रनामाध्यापक- श्रीशत्रुंजयतीर्थकरमोच-
नाद्यनेक सुकृत विधाप कम होपाध्याय श्रीभानुचन्द्रगणितच्छिण्ष्याष्टोत्तरशतावधान साधक-
प्रमुदितपादशाह श्री अकब्बरप्रदत्तं
पु
तषुस्युहद मापराभिधानमहोपाध्यायश्रीसिद्ध चन्द्रगणिवि.
रचितायां कादम्बरीटीकायामुत्तरखण्डटीका समाप्ता ॥
 
पाठा० -

 
[^
]G. रम्यवनेषु तेषु तेषु .
[^
]G. सुखम् ; सर्वसुखानि .
 

 
कादम्बरी स्वमहसाऽन्य विजिश्त्वरीयं

दुष्पाठपांसुनिकरैस्तिमिराऽऽवृताभूत् ।
चन्द्रद्वे

चन्द्र [^१]द्व
येsपि मिलिते न चकास्ति कामं
 

कामं प्रपूरयति त'च्चषकं' बुधानाम् ॥ १ ॥

जयपुरवैभ [^२]व - साहित्य वैभवादीनि यस्कृतिस्तेन ।

सन्मञ्जुनाथनामश्रीमथुरानाथशास्त्रिणा व्यरचि ॥ २ ॥

तैलङ्गान्वयमञ्जुमण्डनमणि'श्री [^३]मण्डना'ऽऽस्थानभृत्
 

भास्वद्वंश विभूषणा [^४]म्बरंपतेर्वंशक्रमादाश्रितः ।

गाथा [^५]सप्तशती - मुखानि कृतवान् श्रीमञ्जुनाथाऽपरा-

भिख्योऽसौ रसनन्दनन्दकुमिते वर्षे व्यलेखीदिदम् ॥ ३ ॥

 
इति श्रीजयपुर
महाराजाधिराजसंमानित- तैलङ्गभट्टान्ववायसंभूत-मञ्जुनाथोपनामक-कविशिरो-
मणिदेवर्षिभट्टश्रीमथुरानाथशास्त्रि साहित्याचार्य निर्मितं कादम्बरीचषकोत्तरार्द्धमपूर्यत ।
 

 
समाप्तोऽयं ग्रन्थः ।
 

 
[^
]G. प्रकृतटीकाकारद्वयम् ।
[^
]G. नवीनैरेव छन्दोभिर्निबद्धं भारतसुप्रसिद्धैर्विद्वद्भिः प्रशस्तमनेकचित्रमनोहरमपूर्वमिदं
वैभवद्वयम् - 'मथुरानाथशास्त्री, रेज़िडेन्सीरोड, जयपुर' तः प्राप्यम्
[^
]G. टिप्पणीकर्तुः पूर्वजः, एतत्परिचयः साहित्य-
वैभवात्प्राप्यः ।
[^
]G. आम्बेर (जयपुर) राज्याधिपतेः ।
[^
]G. सटीका 'गाथासप्तशती' ('निर्णयसागर, मुम्बई' तः प्राप्या )
पतर

एतत्
प्रमुखानि काव्यानि ।