This page has not been fully proofread.

चन्द्रापीडादीनां सुखलाभः ]
 
उत्तरभागः ।
 
७११
 
कादम्बरीरुच्या च सर्वत्रैवापरेष्वपि रंम्यतरेषु तेषु तेषु स्थानेषु तया सह जन्मद्वयाकायै-
वापरिसमाप्तान्यपुनरुक्तानि च तानि तानि न केवलं चन्द्रमाः कादम्बर्या सह, कादम्बरी
महाश्वेतया सह, महाश्वेता तु पुण्डरीकेण सह, पुण्डरीकोऽपि चन्द्रमसा सह, परस्परावियो-
गेन सर्व एव सर्वकालं सुखान्यनुभवन्तः परां कोटिमानन्दस्याध्यगच्छन् ॥
 
'सहस्रपत्रामोदवाहिनि' इति पाठः । कादम्बरीरुच्या च कादम्बर्याः स्पृहया चापरेष्वपीतरेष्वपि रम्यतरेव
तिमनोहरेषु तेषु तेषु स्थानेषु प्रदेशेषु । सर्वत्रैव तथा कादम्बर्या सह जन्मद्वयाकाङ्क्षयैव भवान्तरद्वयवाञ्छ्यै
वापरिसमाप्तान्यपरिपूर्णान्यपुनरुक्तानि च कदाचिदसेवितानि । प्रतिदिननवीनानीत्यर्थः । तानि तानि च वक्तुम-
शक्यानि न केवलं चन्द्रमाः कादम्बर्या सह, किं तु कादम्बरी महाश्वेतया सह, महाश्वेता पुण्डरीकेण, पुण्डरी
कोऽपि चन्द्रमसा सह, परस्परमन्योन्यमवियोगेनाप्रलम्भेन सर्व एव सर्वकालं समग्रसमयं सुखानि सातान्यनु-
भवन्तोऽनुभव विषयी कुर्वन्त आनन्दस्य प्रमोदस्य परां कोटिं परमामवस्थामध्यगच्छन्प्राप्तवन्तः ॥
 
इति श्रीपादशाह श्रीअकब्बरजलालदीन सूर्यसहस्रनामाध्यापक श्रीशत्रुंजयतीर्थकरमोच-
नाद्यनेक सुकृत विधाप कम होपाध्याय श्रीभानुचन्द्रगणितच्छिण्याष्टोत्तरशतावधान साधक-
प्रमुदितपादशाह श्री अकब्बरप्रदत्तं
पुस्युहद मापराभिधानमहोपाध्यायश्रीसिद्ध चन्द्रगणिवि.
रचितायां कादम्बरीटीकायामुत्तरखण्डटीका समाप्ता ॥
 
पाठा० - १ रम्यवनेषु तेषु तेषु २ सुखम् ; सर्वसुखानि .
 
कादम्बरी स्वमहसाऽन्य विजिश्वरीयं
दुष्पाठपांसुनिकरैस्तिमिराऽऽवृताभूत् ।
चन्द्रद्वेयेsपि मिलिते न चकास्ति कामं
 
कामं प्रपूरयति त'च्चषकं' बुधानाम् ॥ १ ॥
जयपुरवैभव - साहित्य वैभवादीनि यस्कृतिस्तेन ।
सन्मञ्जुनाथनामश्रीमथुरानाथशास्त्रिणा व्यरचि ॥ २ ॥
तैलङ्गान्वयमञ्जुमण्डनमणि'श्री मण्डना'ऽऽस्थानभृत्
 
भास्ववंश विभूषणाम्बरंपतेर्वंशक्रमादाश्रितः ।
गाथासप्तशती - मुखानि कृतवान् श्रीमञ्जुनाथाऽपरा-
भिख्योऽसौ रसनन्दनन्दकुमिते वर्षे व्यलेखीदिदम् ॥ ३ ॥
इति श्रीजयपुर
महाराजाधिराजसंमानित- तैलङ्गभट्टान्ववायसंभूत-मञ्जुनाथोपनामक-कविशिरो-
मणिदेवर्षिभश्रीमथुरानाथशास्त्रि साहित्याचार्य निर्मितं कादम्बरीचषकोत्तरार्द्धमपूर्यत ।
 
समाप्तोऽयं ग्रन्थः ।
 
१ प्रकृतटीकाकारद्वयम् । २ नवीनैरेव छन्दोभिर्निबद्धं भारतसुप्रसिद्धैर्विद्वद्भिः प्रशस्तमनेकचित्रमनोहरमपूर्वमिदं
वैभवद्वयम् - 'मथुरानाथशास्त्री, रेज़िडेन्सीरोड, जयपुर' तः प्राप्यम् । ३ टिप्पणीकर्तुः पूर्वजः, एतत्परिचयः साहित्य-
वैभवात्प्राप्यः । ४ आम्बेर (जयपुर) राज्याधिपतेः । ५ सटीका 'गाथासप्तशती' ('निर्णयसागर, मुम्बई' तः प्राप्या )
पतरप्रमुखानि काव्यानि ।