कादम्बरी /743
This page has not been fully proofread.
७१०
कादम्बरी ।
[ कथायाम्-
पससार वासरः । अनुरागपता केवोल्लसदपरसंध्यावधूत्रपावरणायेव वितस्तार वासतेयी ।
चन्द्रोदयाभिरामं च समग्रमेव जगदभवत् । एवं च भरेणावतीर्णायां रजन्यां चन्द्रापीडश्चि-
राभिलषितमुन्मीलितनयनकुवलयमुत्स्रस्तनीवीप्रसृतकर निवारणानुबन्धमनुभूतप्रत्यालिङ्गनसु-
खमैभिप्रार्थितसुरतपरिसमाप्तित्रपासुभगं कादम्बरीप्रथम सुरतसुखमनुभूयैक दिवसमिव दशरात्रं
स्थित्वा परितुष्टहृदयाभ्यां श्वशुराभ्यां विसर्जितः पितुः पादमूलमाजगाम ।
,
आगत्य च समकालमेवानुभूतक्केशं राजलोकमात्मसमं कृत्वा, समारोपितराज्यभारः पुण्ड-
रीके, परित्यक्त सर्वस्वकार्ययोः पित्रोः पादावनुचरन् कदाचिदत्यद्भुतोत्फुल्लनयननैगमजनाव-
लोकितो जन्मभूमिस्नेहादुज्जयिन्याम्, कदाचिद्रन्धर्वराजगौरवेणानुपमरमैणीयतममहिनि हेम-
कूटे, कदाचिदमृतपरिमलाधिवाससुरभिशिशिर सर्वप्रदेशहारिणि रोहिणीबहुमाननेन चन्द्र-
लोके, कदाचिदहर्निशोत्फुल्ल सहस्रपत्र निवेहोद वाहिनि पुण्डरीकप्रीत्या लक्ष्मीनिवाससरसि,
-
वोपपादयितुं निष्पादयितुं वासरो दिवसोऽपससारापसृतो बभूव । अनुरागस्यानुरते: पताकेव वैजयन्तीवोल्लसन्ती
यापरसंध्या पश्चिमसंध्या सैव वधूः स्त्री तस्यास्त्रपा लज्जा तस्या आवरणायाच्छादनायेव वासतेयी रात्रिर्वितस्तार
प्रससार । चन्द्रोदयेन शशाङ्कप्रकाशेनाभिरामं मनोहरं च समग्रमेव सकलमेव जगदभवत्संजज्ञे । एवममुना
प्रकारेण भरेण संभारेणावतीर्णायां संजातायां रजन्यां त्रियामायां चन्द्रापीडश्चिरकालं यावदभिलषितं वाञ्छित
मुन्मीलितानि विकसितानि नयनकुवलयानि नेत्रोत्पलानि यत्र तत् । उत्ख़स्ता शिथिलिता श्लथीजाता या नीव्यु -
चयस्तस्यां प्रसृतो विस्तृतो यः करो हस्तस्तस्य निवारणं दूरीकरणं तदेवानुबन्धः प्रतिबन्धो यत्र तदनुभूतं साक्षा-
त्कृतं प्रत्यालिङ्गनसुखं तया दीयमानोपगूहनसातं यस्मिंस्तत्तथा अभिप्रार्थिताभियाचिता सुरतस्य संभोगस्य परिसमा-
प्तिर्यस्यामेवंविधा या त्रपा लज्जा तया सुभगं मनोहरमेतादृशं कादम्बर्याः प्रथमं सुरतस्य सुखं सातमनुभूय साक्षा-
त्कृत्यैकदिवसमिव दशरात्रं दशदिवसं स्थित्वास्थाय परितुष्टहृदयाभ्यां संतुष्टचित्ताभ्यां श्वशुराभ्यां चित्ररथहं-
साभ्यां विसर्जितो दत्ताज्ञः पितुस्तारापीडस्य पादमूलं चरणसमीपमाजगामाययौ ।
आगत्य चागमनं कृत्वा च समकालमेवैकवारमेवानुभूतः क्लेशो दुःखं यैरेवंभूतं राजलोकं नृपजनमात्मसमं
निजसदृशं स्वैतुल्यं कृत्वा विधाय, पुण्डरीके समारोपितो न्यस्तो राजभार आधिपत्यधूर्येन सः । परित्यक्तमु-
ज्झितं सर्वं स्वकार्य सांसारिककृत्यं याभ्यां तौ माता च पिता च पितरौ । एकशेषः । तयोः पित्रोः पादौ
चरणायनुचरन्सेवयन् । कदाचित्कस्मिंश्चिदवसरेऽत्यद्भुतोत्फुल्लनयना विकसितनेत्रा ये नैगमजना वणिग्जनास्तै-
रवलोकितो वीक्षितो जन्मभूमिस्नेहादुत्पत्तिवसुधाप्रीतेरुज्जयिन्यां विशालायाम् । कदाचित्कस्मिंश्चित्प्रस्तावे गन्धर्व-
राजस्य गौरवेणात्यादरेणानुपमो मनोहरो रमणीयतमोऽतिशयेन रन्तुं योग्यो महिमा माहात्म्य नेतादृशे
हेमकूटे । कदाचिद्रोहिणीबहुमाननेन ब्राह्मी कारेणामृतस्य पीयूषस्य परिमल आमोदस्तस्याधिवासेन संस्कारेण
सुरभिः सुगन्धो यः शिशिरः शीतलः सर्वप्रदेशः समग्रस्थलं तेन हारिणि मनोहरे चन्द्रलोके । कदाचिदहर्नि-
शमहोरात्रमुत्फुल्लानि विस्मेराणि सहस्रपत्राणि तेषां निवहः समूहो यस्मिन्नेतादृशमुदं जलं वहतीत्येवंशीले ।
उदकस्योदादेशः । पुण्डरीकप्रीत्या पुण्डरीकस्नेहेन लक्ष्म्या रमाया निवाससरस्यवस्थानसरसि कासारे । क्वचित्
***
पाठा-
-
..
-
टिप्प० -1 वस्तुतस्तु - 'अनुरागकवोष्णतया ( अनुररागेण च भस्तकालिकलौहित्येन च, ईषदुष्ण-
तया च ईषद विनयोन्मुखतया च ) अपरसन्ध्यावधूत्रपावरणायेव वितस्तार तमोवासो वासवी ।' इत्येव
पाठ: । सन्ध्यया सह स्नेहवशात् वासवी ( प्राची ) अन्धकाररूपं वसनं विस्तारितवती । अन्धकारावि-
र्भावेन अविनयोन्मुखायाः सन्ध्याया लज्जां निवारयामासेत्याशयः । 2 द्विवचनमुचितम् । 3 प्राप्तसुखं
समृद्धियुक्तं च । 4 उदकं जलं वहतीत्येव वक्तव्यम्, पेषवासेत्यादिना उदकस्योदादेशः ।
•१ उल्लालस. २ वा रजनी; तमोवासो वासवी ३ अप्रार्थित ४ रमणीयतर; रमणीयता. ५ मोद; निवद्दौष.