This page has not been fully proofread.

चन्द्रापीडपुण्डरीकयोर्विवाहः ]
 
उत्तरभागः ।
 
N
 
अन्यदा जम्माभिवान्छित हृदयवल्लभलाभमुदित
सर्वस्वजनमध्योपैगमननिर्वृतापि काद-
म्बरी बाष्पोत्तरललोचना विषण्णमुखी वासभवनागतं चन्द्रापीडमूर्ति चन्द्रमसमप्राक्षीत् -
'आर्यपुत्र, सर्वे खेलु वयं मृताः सन्तः प्रत्युज्जीविताः परस्परं संघटिताश्च । सा पुनर्वराकी
पत्रलेखास्माकं मध्ये न दृश्यते । न विद्मः किं तस्याः केवलाया वृत्तम्
?' इति । चन्द्रा-
पीडमूर्तिः प्रीतान्तरात्मा तां प्रत्यवादीत् – "शिये, कुतोऽत्र सा हि खलु मद्दुःखदुःखिनी
रोहिणी शप्तं मामुपश्रुत्य 'कथं त्वमेकाकी मर्त्यलोकनिवासदुःखमनुभवसि'- इत्यभिधाय
निवार्यमाणापि मया प्रेथमतरमेव मञ्चरणपरिचर्यायै मर्त्यलोके जन्मामहीत् । इतश्च जन्मा-
तरं गच्छता मया मदुपरमसममुन्मुक्तशरीरा पुनरपि मर्त्यलोकमवतरन्ती बलादाबर्ग्यात्मलोक
विसर्जिता तत्र पुनस्तां द्रक्ष्यसि " इति । कादम्बरी तु तच्छ्रुत्वा रोहिण्यास्तदोदारतया स्नेह-
लतया महानुभावतया संपतिव्रततया पेशलतया च विस्मितहृदया परं लजिता न किंचि-
दपि वक्तुं शशाक ।
 
अत्रान्तरे जन्मद्वयाका कालं प्रभोश्चन्द्रमसः कादम्बरीसंभोगसुखमिवोपपादयितुम-
अन्यदान्यस्मिन्काले जन्मन्यभिवाच्छितो यो हृदयवल्लभलाभस्तेन मुदिता हर्षिताः सर्वे ये स्वजनाः कुटु-
म्बिनस्तेषां मध्योपगमनं मध्ये समागमनं तेन निर्वृतापि सुखं प्राप्तापि च कादम्बरी बाष्पेणाश्रुणोत्प्राबल्येन
तरले चञ्चले लोचने यस्याः सा । विषण्णं खेदाकुलं मुखं यस्याः सा । वासभवनागतं वसतिसद्मागतं चन्द्रापीड-
मूर्ति चन्द्रापीडशरीरं चन्द्रमसं शशाङ्कमप्राक्षीत्प्रश्नं कृतवती । इतियोत्यमाह - आर्येति । हे आर्यपुत्र, सर्वे
खलु वयं मृताः सन्तः प्रत्युज्जीविताः परस्परमन्योन्यं संघट्टिताः मिलिताश्च । सा पुनर्वराकी तपस्विनी पत्रलेखै-
कास्माकं मध्ये न दृश्यते न दृग्गोचरीक्रियते । न विद्मो न जानीमस्तस्याः केवलाया एकाकिन्यः किं वृत्तं किं
जातम् । चन्द्रापीडमूर्तिः प्रीतान्तरात्मा संतुष्टात्मा तां कादम्बरीं प्रत्यवादीत्प्रत्यवोचत् – हे वल्लभे, अत्र सा
पत्रलेखा कुतः स्यात् । हि यस्मात्कारणात् । खल्विति निश्चये । मम दुःखेन दुःखिनी एवंविधा रोहिणी ब्राह्मी
शप्तं शापग्रस्तं मामुपश्रुत्याकर्ण्य कथं त्वमेकाक्यसहायो मर्त्यलोकनिवासदुःखं मनुष्य निवसन कष्टमनुभवस्यनुभव-
विषयीकरोषीत्यभिधायेत्युक्त्वा निवार्यमाणापि प्रतिषिध्यमानापि मया चन्द्रमसा प्रथमतरमेवादावेव मम चन्द्र-
मसश्चरणपरिचर्यायै पादसेवायै मर्त्यलोके मनुष्यक्षेत्रे जन्माग्रहीत् । इतश्च जन्मान्तरं भवान्तरं गच्छता व्रजता
मया चन्द्रमसा मदुपरमेण सममुन्मुक्तं शरीरं यया सा पुनरपि द्वितीयवारमपि मर्त्यलोकमवतरन्त्यवतारं
गृह्णन्ती बलाद्धठादावर्ज्यावर्जनां कृत्वात्मलोकं चन्द्रलोकं विसर्जिता । प्रेषितेत्यर्थः । तत्र संप्रति पुनस्तां द्रक्ष्यसि
विलोकयिष्यसीति । कादम्बरी तु तच्छ्रुत्वा तदाकर्ण्य रोहिण्यास्तदोदारतया स्नेहलतया वत्सलतया महानुभाव-
तया महाप्रभावतया सपतिव्रततया एकपतितया पेशलतया सहृदयतया च विस्मितहृदया चमत्कृतचित्ता परम-
त्यन्तं लज्जिता लज्जां प्राप्ता न किंचिदपि वक्तुं कथयितुं शशाक समर्था बभूव ।
 
अत्रान्तरेऽस्मिन्समये जन्मद्वयाकाङ्क्षतं भवान्तरद्वयाभिलषितं कालं प्रभोश्चन्द्रमसः कादम्बरीसंभोगसुखमि -
 
टिप्प० – 1 हृदयवल्लभलाभः कादम्बर्या न तु सर्वेषाम् । अत एव – 'जन्माभिवान्छित हृदयवल्लभ-
लाभमुदिता सर्व स्वजनमध्योपगमन निर्वृतापि' इत्येव पाठः । 2 संभोगसुखमुपपादयितुमिव वासरः अप-
ससार, तर्हि 'कालम्' किं कर्तुम् ? तस्मात् 'कालप्रभोः' इत्येव पाठः । कालप्रभोः कालनियन्तुश्चन्द्रमसः
जन्मद्वयाकाङ्क्षितं कादम्बरीसंभोगसुखमुपपादयितुमिव वासरोऽपससारेत्यन्वयः ।
 
पाठा० - १ उपयमन. २ वयं खलु. ३ अर्दित ४ दुःखिता ५ प्रथमम् ६ दिवश्च ७ आत. ८ अमरलो.
शम्. ९ तमा; तथा १० सपतिव्रतया; पातिव्रततया ११ कालप्रभोः,