2023-10-25 14:05:43 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

७०८
 
कादम्बरी ।
 
[ कथायाम् -
 
मेव तेषामचेतितैव सा क्षणदा [^१]प्रयाता । प्रातरेव च सकलगन्धर्वलोकानुगतौ सममे [^२]मचिरा-
गौरीभ्यां चित्ररथहंसौ गन्धर्वराजावपि तत्रैवाजग्मतुः । आगतयोश्च तयोर्लज्जितात्मजोपग-

ममुदितहृदययोर्जामातृदर्शनसमुत्फुल्लनयनयोस्तारा बीपी शुकना-
साभ्यां सहानुभूतसंबन्धकोचि
तसंवादकथयोः सहस्रगुण इव महोत्सवः प्रावर्तत ।
 

 
अथ प्रवर्तमान एव तस्मिंश्चित्ररथस्तारापीडमयादीत् - 'विद्यमाने स्वभवने किमर्थमय-
मरण्ये महोत्सवः क्रियते ? अपि च यद्यप्यस्माकमयमेव परस्पराभिरुचिनिष्पन्नो धर्म्यो
विवाहस्तथापि लोकसंव्यवहारोऽनुवर्तनीय एव । तद्गम्यतां तावदस्मदीयमवस्थान- म् । ततः
स्वभूमिं चन्द्रलोकं वा गमिष्यथ ।' तारापीडस्तु तं प्रत्यवादीत् – 'गन्धर्वराज, यत्रैव निरति-
शयं संपत्सुखं तदेव वनमपि भवनम् । तदीदृशं क्कावापरत्र संपत्सुखं प्राप्तम् ? अन्यच्च संप्रति

[^३]
सर्वगृहाण्येव मया जामातरि ते संक्रामितानि । तद्वयस्य, वधूसमेतं तमेवादाय गम्यतां गृह-
सुखानुभवनाय' इति । चित्ररथस्तु तथा भिहित: [^४]'राजर्षे, यथा ते रोचते' इत्युक्त्वा चन्द्रा-

पीडमादाय हेमकूटमगात् । गत्वा च चित्ररथः कादम्बर्या सह समग्रमेव स्वं राज्यं चन्द्रा-
पीडाय न्यवेदयत् । पुण्डरीकायापि समं महाश्वेत्या निजपदं हंसो न्यवेदयत् । तौ तु हृद-
यरुचितवधूलम्भ- मात्रकेणैव कृतार्थोथौ न किंचिदप्यपरं प्रत्यपद्येताम् ।
 

 
[ टि ]--
सर्वेषामेव तेषामचेतितैवाज्ञातैव सा क्षणदा रात्रिः प्रयाता गता । प्रातरेव च प्रत्यूषे च सकलगन्धर्वलोकैः सम-

प्रदेवगायनजनैरनुगतौ सहितावचिरेरा गौरीभ्यां महाश्वेताकादम्बरीजननीभ्यां समं चित्ररथहंसौ कादम्बरीमहाश्वे-

तापितरौ गन्धर्वराजौ गन्धर्वनायकावपि तत्रैवाजग्मतुराय यतुः । आगतयोश्च तयोर्लज्जिते त्रपिते ये आत्मजे

पुत्र्यौ तयोरुपगमः प्राप्तिस्तेन मुदितं हर्षितं हृदयं ययोस्तौ तयोर्जामातृदर्शनेन दुहितुः पत्यवलोकनेन समुत्फुल्ले

विकसिते नयने ययोस्तौ तयोः । क्वचित् 'वदनयोः' इति पाठः । तारापीडशुकनासाभ्यां सहानुभूतः संजातो

यः संबन्धकस्तस्योचिता योग्याः संवादकथा ययोस्तौ तयोः सहस्रगुण इव महोत्सवः प्रावर्तत प्रवृत्तोऽभूत् ।
 

 
अथेति । तदनन्तरं प्रवर्तमाने संजायमान एव तस्मिन्महोत्सवे चित्ररथस्तारापीडमवादी दब्रवीत् । तदे-

वाह - विद्यमान इति । स्वभवने स्वकीयसद्मनि विद्यमाने वर्तमानेऽयं महोत्सवः किमर्थं किंप्रयोजनमरण्ये

क्रियतेऽटव्यां विधीयते । अपि च प्रकारान्तरे । यद्यप्यस्माकमयमेव परस्परमन्योन्यं याऽभिरुचिरभिलाषस्तया

निष्पन्नो धर्म्मो विवाहस्तथापि लोकसंव्यवहारोऽनुवर्तनीय एव रक्षणीय एव । तदस्मदीयमास्माकीनमवस्थान-

मास्पदं तावद्गम्यताम् । ततस्तदनन्तरं स्वभूमिं चन्द्रलोकं वा गमिष्यथ यास्यथ । तारापीडस्तु तं

चित्ररथं प्रत्यवादीत्प्रत्यवोचत् । हे गन्धर्वराज, यत्रैव निरतिशयमधिकं संपत्सुखं तदेव वनमपि भवनं गृहम् ।

तदीदृशमपरत्रान्यत्र क्व कुत्र मया संपत्सुखं प्राप्तं लब्धम् । अन्यच्च संप्रतीदानीं सर्वगृहाण्येव मया ते तव

जामातरि दुहितुः पत्यौ संक्रामितानि संकल्पितानि । तत्तस्माद्धेतोर्हे वयस्य हे मित्र, वधूसमेतं तमेव वरमेवा-

दाय गृहीत्वा गृहसुखस्यानुभवनं साक्षात्करणं तस्मै गम्यतां व्रज्यताम् । चित्ररथस्तु तथाभिहितस्तेन प्रकारेणोक्तः

राजर्षे, यथा ते तुभ्यं रोचते इत्युक्त्वा चन्द्रापीडमादाय हेमकूटमगाद्ययौ । गत्वा च चित्ररथः कादम्बर्या

सह समग्रमेव सकलमेव स्वमात्मीयं राज्यं चन्द्रापीडाय न्यवेदयन्निवेदितवान् । पुण्डरीकायापि महाश्वेतया समं

निजपदं हंसो न्यवेदयत् । तौ तु चन्द्रापीडपुण्डरीकौ तु हृदये चित्ते रुचिते ईप्सिते ये वध्वौ तयोर्लम्भमात्र

केणैव प्राप्तिमात्रकेणैव कृतार्थी कृतकृत्यौ न किंचिदप्यपरमन्यत्प्रत्यपद्येतां स्वीकुर्वाताम् ।
 

 
टिप्प० – 1 स्वयं 'मदिरा' इति नाम पूर्व लिखितवानध्येवमाह । धन्यः !

पाठा० - १ प्रभाता. २ मदिरा ३ सर्वगृहसुखान्येव. ४ राजर्षिणा.