This page has not been fully proofread.

कपिञ्जलद्वारा श्वेतकेतुसंदेश: ]
 
उत्तरभागः ।
 
अम्बित्वा गाढतरं सुचिरमालिलिङ्ग । उन्मुक्तश्च मात्रोपसृत्य पुनःपुनः कृतनमस्कारः शुक-
नासं प्रणनाम । आशीः सहस्राभिवर्धितञ्च तेनात्मनोपसृत्य यथानुक्रमं पित्रो: शुकनासस्य
मनोरमायाश्चैष वो वैशम्पायन इति पुण्डरीकं विनयविलक्षावनम्रवदनमदर्शयत् ।
 

 
ः।
 
तस्मिन्नेष च प्रस्तावे समुपसृत्य कपिञ्जलः शुकनासमवादीत्–'एवं संदिष्टमार्यस्य भग-
वता श्वेतकेतुना । अयं खलु पुण्डरीकः संवर्धित एव केवलं मया । आत्मजः पुनस्तव ।
अस्यापि भवरखेव लग्नः स्नेहः । तद्वैशम्पायन एवायमित्येवमवगत्याविनयेभ्यो निवारणीयः ।
परोऽयमिति कृत्वा नोपेक्षणीयः । यच्चापगतशापोऽध्यात्मसमीपं नानीतस्तत्तवैवायम्, इति ।
अन्यच्चात्मानमस्मिन्नाचन्द्रकालीनायुषि स्थापयित्वा कृतार्थ: । सर्मेत्यस्माद्दिव्यलोकादप्युपरि-
ष्टागन्तुमुद्यतं मे सत्त्वाख्यं ज्योतिः' इति । शुकनासस्तु विनयावनतं पुण्डरीकं पाणिनांडसे-
ऽवलम्ब्य कपिञ्जलं प्रत्यवादीत्
– 'कपिञ्जल, सकलजगदाशयज्ञेन सता भगवता किमित्या-
दिष्टम् । सर्वथा स्नेहस्यायमसंतोषः' इति ।
 
एवंविधैश्च पूर्वजन्मवृत्तान्तानुस्मरणालापैः परसरावलोकनसुखोत्फुल्ललोचनानां सर्वेषा-
७०७
 
कपोलयोर्गल्लात्परप्रदेशयोश्चुम्बित्वा चुम्बनं कृत्वा गाढतरमतिदृढं सुचिरं बहुकालमालिलिङ्ग । आलिङ्ग्य उन्मुक्तश्च
मात्रा विलासवत्या, उपसृत्य समीपे गत्वा पुनः पुनः कृतनमस्कारो विहितनमस्कृतिः शुकनासं प्रणनाम नम-
स्कृतिं चक्रे । तेन शुकनासेनाशीः सहस्रैर्माङ्गल्याभिवादनसहस्रैरभिवर्धितोऽभिनन्दितश्चात्मना स्वयमुपसृत्योप-
सरणं कृत्वा
नुक्रमं यथाक्रमं पित्रोः शुकनासस्य मनोरमायाश्चैष वो युष्माकं वैशम्पायन इति पुण्डरीकं विनयेन
विलक्षं विस्मयान्वितम् । 'विलक्षो विस्मयान्विते' इत्यमरः । अवनम्रमवनतं वदनं यस्य स तमदर्शयदर्शयामास ।
 
तस्मिन्नेव प्रस्तावे समये समुपसृत्य पार्श्वे समागत्य कपिञ्जल: शुकनासमवादीदवोचत् । आर्यस्य भवतः
श्वेतकेतुना भगवतैव संदिष्टं कथितं वर्तते । खल्विति निश्चये । अयं पुण्डरीकः केवलं मया संवर्धित एव वृद्धिं
प्रापित एव । आत्मजः पुत्रः पुनःपुनस्तव भवतः । अस्यापि पुण्डरीकस्यापि भवत्स्वेव स्नेहो लमः संबद्धः ।
तदिति हेत्वर्थे । वैशम्पायन एवायं पुण्डरीक इत्येवमवगत्य ज्ञात्वाऽविनयेभ्यो निवारणीयो दूरीकार्यः । अयं
परोऽन्य इति ज्ञात्वा नोपेक्षणीयो नोपेक्षाविषयीकर्तव्यः । यच्चापंगतशापोऽप्यात्मसमीपं स्वसविधं नानीतो न
प्रापितस्तस्मात्तवैव भवदीय एवायमिति । अन्यच्च चन्द्रकालश्चन्द्रापीडावस्थानलक्षणस्तत्र भवमायुस्तस्मित् ।
'आत्मा वै जायते पुत्रः' इति श्रुतेः । आत्मानं पुत्रं स्थापयित्वा यावत्कालं चन्द्रापीडः स्थास्यति तावत्काल -
मयमिति भावः । अत एव कृतार्थः कृतकृत्यः । संप्रतीदानीमस्माद्दिव्यलोकादप्युपरिष्टाद्गन्तुं मे मम सत्त्वाख्यं
ज्योतिरुद्यतं कृतप्रयत्नमिति । शुकनासस्तु सुष्नु विनयादवनतं नम्रीभूतं पुण्डरीकं पाणिना हस्तेनांसे स्कन्धेऽ-
वलम्ब्य कपिञ्जलं प्रत्यवादीत्प्रत्यवोचत् । तदेव दर्शयन्नाह – कपिञ्जलेति । हे कपिजल, सकलजगतः
समग्रविश्वस्याशयज्ञेनाभिप्रायवेदिना सता भगवता पूज्येन किमित्यादिष्टं कथितम् । सर्वथा स्नेहस्यायं पुण्डरी-
कोऽसंतोषोऽधृतिस्थानम् । कदाचिदस्मिस्नेहो न निवर्तित इति भावः ।
 
इत्येवंविधैश्च पूर्वजन्मवृत्तान्तस्य भवान्तरोदन्तस्यानुस्मरणानि तेषामालापैः संभाषणैः परस्परमन्योन्यमवलो-
कनं वीक्षणं तस्य सुखं तेनोत्फुल्ललोचनानां संफुलनेत्राणाम् । 'प्रफुल्लोत्फुल्लसंफुल्लव्या कोशविकचस्फुटाः' इत्यमरः ।
 
टिप्प० - 1 आशीर्वचनसहखैः । 2 आचन्द्रकालिकम् आयुर्यस्य ईदृशे अस्मिन् ( पुण्डरीके )
आत्मानं निजस्वरूपम् (निजतत्त्वम्) स्थापयित्वा, इत्यर्थ: । 3 स्नेहस्य अपरितृप्तिः । सर्वज्ञतया ममाशयं
जानतापि महर्षिणा यदेतत्संदिष्टं तत् केवलमस्मासु स्नेहप्रकटन मिति भावः ।
 
पाठा
 
•१ सविनयवैलक्ष्य. २ एव. ३ आचन्द्रसमकालीनायुषि, ४ अस्मत्॰ ५ संस्मरण,