कादम्बरी /74
This page has not been fully proofread.
विन्ध्याटवी ]
पूर्वभागः ।
कल्पान्तप्रदोषसंध्येव प्रेतृतनीलकण्ठा पलवारुणा व अमृतमथनवेलेव श्रीदुमोपशोभित
वारुणीपरिगता च, प्रावृडिव घनश्यामलानेकशतहदालंकृता च, चन्द्रमूर्तिरिव सततमृक्षसा-
र्थानुगता हरिणाध्यासिता च, राज्यस्थितिरिव चमरमृगबालव्यजनोपशोभिता समद्गजघटा-
परिपालिताच, गिरितनयेव स्थाणुसंगता भृगपतिसेविता च, जानकीव प्रसूतकुशलवा निशा-
चरपरिगृहीता च, कामिनीव चन्दनमृगमदपरिमलवाहिनी रैचिरागुरुतिलकभूषिता च,
।
अत एव 'कर्णीसुतः करटकः स्यशास्त्रप्रवर्तकः । ख्यातौ तस्य सखायौ द्वौ विपुलाचलसंज्ञकौ । शशो मन्त्रिवर-
स्तस्य' इति बृहत्कथायां कथा निबद्धा । पक्षे संनिहिताः समीपवर्तिनो विपुलाः पृथुला अचलाः पर्वता यस्यां सा
तथा । शशो मृदुलोमको लोध्रवृक्षो वा तेनोपगता सहिता च । 'शशो लोध्रे नृभेदे च पशौ' इत्यनेकार्थः ।
कल्पान्तेति । कल्पान्तस्य युगान्तस्य प्रदोषो रजनीमुखं तस्य या संध्या सायंकालस्तद्वदिव । उभयोः सादृश्य-
माह - प्रवृत्ता नीलकण्ठा मयूरा यस्यां सा तथा । सस्तैः पल्लवैः किसलयैररुणा चेति । पक्षे प्रवृत्तो नीलकण्ठो
महादेवो यस्याम् । पल्लववदरुणा रक्ता चेत्यर्थः । अमृतेति । अमृताय सुधायै यन्मथनं विलोडनम् । क्षीरसमुद्र-
स्पेति शेषः । तत्र वेलाम्भसो वृद्धिः समयो वा । तद्वदिव । उभयोः सादृश्यमाह – श्रीति । श्रीद्रुमाः श्रीवृक्षा-
स्तैरुपशोभिता वरुणानां वृक्षविशेषाणां समूहो वारुणं तेन परि सामस्त्येन गता प्राप्ता चेत्यर्थः । पक्षे श्री मौ
लक्ष्मीकल्पद्रुमौ ताभ्यामुपशोभिता वरुणस्येदं वारुणं मद्यं तेन परिगता सहिता च । समुद्रप्रभवत्वात्तस्येति भावः ।
प्रावृड्डर्षास्तद्वदिव । उभयोः सादृश्यमाह - घनेति । घनं निबिडं श्यामला । अत्यन्तकृष्णेत्यर्थः । अनेकशत-
संख्याका ये हदैा ग्रहाः (?) तैरलंकृता च । पक्षे घनैर्मेघैः श्यामला अनेका भिन्नाभिन्न स्वरूपाः शतहदा जलबा-
लिकास्ताभिरलंकृता चेति विग्रहः । चन्द्रस्य कुमुदबान्धवस्य मूर्तिरिव शरीरमिव । उभयोः साम्यमाह -
सततेति । ऋक्षा भल्लूकास्तेषां सार्थः समुदायस्तैनानुगता, तथा हरिणैर्मृगैरध्यासिताश्रिता च । पक्षे सततं
निरन्तरमृक्षाणि नक्षत्राणि तेषां सार्थः समुदायस्तेनानुगता सहानुयाता हरिणेन मृगेणाध्यासिता च । राज्यस्थिती
राज्यमर्यादा सेव । उभयोः साम्यमाह – चमरेति । चमराश्चमर्यः, मृगा हरिणाः बालव्यजनानि चामराणि
तैरुपशोभिता, सह मदेन वर्तमानाः समदा ये गजा हस्तिनस्तेषां घटाः समुदायास्ते परिपालिता यया सा । अथ
च तादृशी राज्यस्थितिरित्युभयोः साम्यम् । गिरिति । गिरेर्हिमाचलस्य तनया पार्वती तद्वदिव । उभयोः
सादृश्यमाह - स्थाण्विति । स्थाणवः कीलकाः संगताः प्राप्ता यया सा, मृगपतयः सिंहास्ते सेविता आश्रिता
यया सेति विग्रहः । पक्षे स्थाणुर्महादेवस्तेन संगता मिलिता, तथा मूर्तिमा सहो मृगपतिस्तेन सेविता । सिंहवाहन-
त्वादिति भावः । जानकीति । जानकी सीता तद्वदिव । उभयोः साम्यमाह - प्रसूतेति । प्रसूताः कुशानां
दर्भाणां लवा यया सा निशाचरैरुलूकादिभिः परिगृहीता स्वीकृता । पक्षे प्रसूतौ जनितौ कुशलवाभिधानौ सुतौ यया
सा, निशाचरेण रावणेन परिगृहीता । स्वस्थानं नीतेत्यर्थः । कामिनीति । कामिनी शृङ्गारनायिका सेव । उभयोः
सादृश्यमाह–चन्दनमिति । चन्दनं वृक्षः, मृगमदो गन्धधूली तयोः संसर्गाद्यः परिमलस्तं वहतीति सा तथा
रुचिरो योऽगुरुवृक्षस्तथा तिलकवृक्षश्च ताभ्यां भूषिता शोभिता चेति । पक्षे चन्दनं च मृगमदश्च तयोरनुलेप-
नवशात्परिमलस्तं वहतीत्येवंशीला । रुचिरस्य शोभनस्यागुरोः काकतुण्डस्य तिलकेन पुण्ड्रेण भूषिता शोभिता
चेति विग्रहः । सेति । प्रियोत्कण्ठया व्रजति या नारी सोत्कण्ठिता तद्वदिव । उभयोः सादृश्यमाह -
।
टिप्प० - 1 वारुणीपरिगतेत्येव पाठः । विन्ध्याटवी श्री दुमैर्बिल्ववृक्षैरुपशोभिता, वारुणीं पश्चिमां
दिशं परिगता भारतपश्चिमपर्यन्तगामित्वात् । अमृतमथनवेला तु लक्ष्मी-कल्पद्रुमाभ्यां उपशोभिता,
वारुण्या समुद्रमथनोत्थया मदिरया युक्ता इत्यर्थः । 2 अगाधजलाशयाः । 'तत्रागाधजलो हदः' इत्यमरः ।
3 विद्युत इत्यर्थः । 4 चमरमृगाणां वालाश्रामराणि व्यजनानि तालवृन्तानि तैरुपशोभिता इत्यर्थः ।
पाठा० -१ प्रनृत्यत् ; नवृत्त:. २ वारुण. ३ पतिगृहीता. ४ कृष्णागरु.
६ का०