2023-10-26 14:48:59 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
७०६
कादम्बरी ।
[ कथायाम्-
परिष्वज्य ताम्, तदनु हर्षपरवशो विलासवतीं कण्ठेऽवलम्ब्य, [^१]जराभङ्गवलिपरिशिथिलि -
तमूलेन बाहुनोत्क्षिप्तोत्तरीयां- शुकाञ्चलः स्वयमेवाशिक्षितलयविसंष्ठुलैः पदैर्नृत्यन्निवोत्फुल्लव-
दननरपति सहस्रपरिवृतोऽम्भोजाकर इव मलयमारुतप्रेङ्खो- लनाविवर्तितः, मदलेखां 'काक्वासौ
क्कावासौ' इति पुनःपुनः पृच्छन्पुनः पुनर्निर्विशेषहर्षवृत्तिं शुकनासं कण्ठे संभावयंस्तत्रैवाग-
च्छत् । दृष्ट्वा च तथा पुण्डरीककण्ठे लग्नं चन्द्र पीडमानन्दनिर्भरः शुकनास- मवादीत्-
'दिव्या, मया नैकाकिना तनय प्रत्युज्जीवनोत्सवसुख- मनुभूतम्' इति । चन्द्रापीडस्तु तथा
हर्षपरवशं पितरमालोक्य ससंभ्रमोन्मुक्त पुण्डरीक: पुरेव पृथ्वीतलनिवेशित
शिराश्चरणयोर-
पतत् । अथ सत्वरोपसृतस्तं तथा प्रणतमुन्नमय्य तारापीडोऽभ्य- धात्–'पुत्र, यद्यपि पिताहं
तब तव शापदोषात्स्वपुण्यैर्वा संजातः, तथापि जगद्वन्दनीयो लोकपालस्त्वम् । अपि च मय्यपि
नमस्यो योंऽशः सोऽपि मया त्वय्येव संक्रामितः । तदुभयथापि त्वमेव नमस्कार्यः' इत्य-
भिदधदेव समं राजपुत्रलोकसहस्रैः प्रतीपमस्य पादयोरपतत् । विलासवती तु तथा पित्रा
प्रणते तस्मिम्परितोषेण स्वाङ्गेष्विवा- संमान्ती, तं पुनः शिरसि पुनर्ललाटे पुनश्च कपोलयो-
,
www.Bad.com
[ टि ]-- बाहुभ्यां तां परिष्वज्याश्लिष्य तदनु पश्चाद्धर्षपरवशः प्रमोदपरतन्त्रः कण्ठे विलासवतीमवलम्ब्यावलम्बनं [^1]कृत्वा
............हे पुत्र हे सुत,
यद्यपि शाप [^2]दोषात्स्वपुण्यैर्वाहं तव पिता संजातः, तथाप्येवं सत्यपि त्वमेव जगतां वन्दनीयो नमस्कार्यः । यतो
लोकपालस्त्वम् । अपि युक्त्यन्तरे । मध्य्यपि मयि विषयेऽपि नमस्यो योंऽ[^3]शः । जात्येकवचनम् । सोऽपि मया
त्वय्येव संक्रामितस्तदुभयथापि लोकपालत्वेन मदंशसंक्रमणेन च त्वमेव भवानेव नमस्कार्यो नमस्करणीय इत्यभि
दधदेवेति कथयन्नेव राजपुत्रलोकसहस्रैः समं प्रतीपं विलोममस्य चन्द्रापीडस्य पादयोरपतत्पतितवान् । विलास-
वती तु तथा तेन प्रकारेण पित्रा तारापीडेन प्रणते नते तस्मिंश्चन्द्रापीडे परितोषेण हर्षेण खाङ्गेष्विवासंमान्ती
प्रवे [^4]शमलभमाना । एतेन प्रमोद तिरेकः सूचितः । तं सुतं पुनः शिरस्युत्तमाङ्गे, पुनर्ललाटेऽलिके भालस्थले, पुनः
9
टिप्प० -
[^1]F. टीकासापेक्षोंऽशः - जरसा भङ्गेन ( अभिभवेन ) या वल्यः चर्मसंकोचलहर्यः ताभिः
शिथिलितं मूलं यस्य, ईदृशेन बाहुना उत्क्षिप्तः ( स्कन्धोपरि निहितः ) उत्तरीयाञ्चलो येन सः । उत्फु-
ल्लनयनेन नरपतिसहस्रेण परिवृतः । न शिक्षितः ( अनुवर्तितुं नाऽभ्यस्तः ) यो लयः ( वाद्यादिगत्या सह
स्वरस्य साम्यम् ) तेन विसंतुतष्ठुलै : विषमगतिभिः पदैः (पदन्यासैः ) नृत्यन्निव, अत एव मलयमारुतद्वारा
या प्रेङ्खोलना ( संचालनम् ) तेन विवर्तितः
( क्षोभं प्रापितः ) अम्भोजाकर इव कमलखण्ड इव, (नृ-
त्यन् राजा पवनतरलजलाशयस्थानीयः, उत्फुल्लानि नरपति मुखानि कमलस्थानीयानि इति कुमलाकर-
साम्यम् ) । हर्षेण निर्विशेषा (अभिन्ना, समाना ) वृत्तिर्यस्य ईदृशं शुकनासं पुनः पुनः कण्ठालिङ्गनेन
संमानयन् । दिष्ट्या ( भाग्याभिनन्दनस्यावसरः ) तनयप्रत्युज्जीवनस्य सुखं न मया एकाकिना, अपि
त्वयाप्यनुभूतम् । ससंभ्रमम् उन्मुक्तः ( कण्ठप्राग्रहात् दूरीकृतः ) पुण्डरीको येन । पुरेव पूर्वमिव ( उज्ज-
यिन्यां तारापीडं पितरं मत्वा यथा प्राणणंसीत्तथा ) भूतलन्यस्तमस्तकः । सत्वरं शीघ्रम् उपसृतः (समी-
पमागतः ) तारापीड: अभ्यधात् अभाषत ।
[^2]F. तव शापदोषात्, अहं च स्वस्य पुण्यैः ( तव पिता
जात: ) ।
[^3]F. अहं नरपाल इति यो नमनीयत्वांशः - 'अष्टानां लोकपालानां मात्राभिर्निर्मितो नृपः' इति,
सोपि त्वयि संक्रमितः, राज्यं दत्त मित्यर्थः ।
[^4]F. अवकाशमलभमाना, इत्यर्थ उचितः ।
पाठा० -
[^१]G. जरामित्यारभ्य - तारापीडोऽभ्यधादित्यन्तं व्याख्यायां त्रुटितोंऽश इति ज्ञेयम्.