कादम्बरी /738
This page has not been fully proofread.
चन्द्रापीडस्योज्जीवनं-पुण्डरीकस्यागमनम् ] उत्तरभागः ।
यन्, तथैवाकल्पनिःसहैरङ्गैः, तथैवापाण्डुक्षामकपोलवाहिना मुखेनाम्बरतलादवतरन्नदृश्यत
कपिञ्जलकरावलम्बी पुण्डरीकः ।
B
दृष्ट्वा च तं दूरत एवोन्मुक्त चन्द्रापीडवक्षःस्थला कादम्बरी स्वयमेव धावित्वा देत्तकण्ठग्रहा
महाश्वेतां पुण्डरीकागमन महोत्सवेन यावन्न वर्धयत्येव, तावदवतीर्य पुण्डरीकः परमोपकारिणे
चन्द्रापीडवपुषे शशाङ्काया ढौकत । चन्द्रापीडस्तु तं कण्ठे गृहीत्वाब्रवीत् – 'सखे पुण्डरीक,
यद्यपि प्राग्जम्मसंबन्धाजामातासि तथाप्यनन्तर
जन्माहत सुहृत्स्नेह सद्भावेनैव मया सह वर्ति-
तव्यं भवता' इत्येवं च बदत्येव चन्द्रापीडे चित्ररथहंसौ दिष्ट्या वर्धयितुं केयूरको हेमकूट-
मगमत् । मदलेखापि धावमाना निर्गत्य मृत्युंजयजपव्यग्रस्य तारापीडस्य विलासवत्याच
पादयोः पतित्वा 'देव, देव्या सह दिष्ट्या वर्धसे । प्रत्युज्जीवितो युवराजः समं वैशम्पायनेन'
इत्यानन्द निर्भर मुञ्चैर्जगाद ।
राजा तु तच्छ्रुत्वा शरीरसंस्कार विरहोद्गताविरलदीर्घपरुषपलित लोमशप्रकोष्ठाभ्यां दोय
,
७०५
बिभ्रत् । तथैव पूर्वोक्तप्रकारेणैव ईषत्पाण्डू शुक्लौ क्षामौ कृशौ कपोलौ वहतीत्येवंशीलेन मुखेनाननेन कपिञ्ज
लकरं कपिञ्जलहस्तमवलम्बत इत्येवंशीलः पुण्डरीकोऽम्बरतलाब्योमतलादाकाशतलादव तरन्नवतरणं कुर्वन्नदृश्यता
वालोक्यत । जनैरिति शेषः ।
दूरत एव दविष्ठ एव दृष्ट्वा च निरीक्ष्य च तं पुण्डरीकमुन्मुक्तं व्यक्तं च चन्द्रापीडवक्षःस्थलं यया सैवंभूता
कादम्बरी स्वयमेवात्मनैव धावित्वा धावनं कृत्वा दत्तः कण्ठग्रहो यस्या एतादृशीं महाश्वेतां पुण्डरीकस्यागम-
नमहोत्सवस्तेन यावन वर्धयत्येव वर्धापनं न करोत्येव तावत्तस्मिन्समये पुण्डरीकोऽवतीर्योत्तरणं कृत्वा परमोप-
कारिणे परमोपकृतिविधायिने चन्द्रापीडस्येव वपुः शरीरं यस्य स तथा तस्मै शशाङ्काय चन्द्रमसे चन्द्रायाढौ-
कैत । चन्द्रापीडस्तु तं पुण्डरीकं कण्ठे गृहीत्वा कण्ठग्रहं कृत्वा कण्ठाश्लेषं गृहीत्वाब्रवीदवोचत् । एतदेव दर्श-
यन्नाह – सखे इति । हे सखे हे वयस्य पुण्डरीक, यद्यपि प्राग्जन्मसंबन्धाद्भवान्तरसंबन्धात्त्वं जामातासि ।
महाश्वेतायाश्चन्द्रवंशोत्पन्नत्वेन चन्द्रमसः पुत्रीत्वादस्याः पतित्वेन चास्य जामातृत्वमिति भावः । तथाप्यनन्तर-
जन्मनि शुद्रकभव आहृतोऽर्जितो यः सुहृत्स्नेहो मित्रप्रेम तस्य सद्भावेनैव मया सह वर्तितव्यं चलितव्यं
भवता । एवं च वदति कथयति चन्द्रापीडे चित्ररथहंसौ कादम्बरी महाश्वेतापितरौ दिष्ट्या भाग्येन वर्धयितुं
वर्धापनं कर्तुं केयूरको हेमकूटमगमद्ययौ । मदलेखापि निर्गत्य धावमाना धावनं कुर्वाणा मृत्युञ्जयो महा
जपो जापस्तेन व्यग्रस्य व्याकुलस्य तारापीडस्य विलासवत्याश्च पादयोश्चरणयोः पतित्वाभिवादनं कृत्वा हे
देव, देव्या सह दिष्ट्या वर्धसे । समं वैशम्पायनेन युवराजः प्रत्युज्जीवित इत्यानन्दनिर्भरं यथा स्यात्तथोच्चै-
र्गाहवरेण जगादात्यर्थमवोचत् ।
तच्छ्रुत्वाकर्ण्य शरीरस्य संस्कारविरहोऽधिवासनराहित्यं तेनोगतानि प्रादुर्भूतानि प्रकटीभूतान्य विरलानि
निबिडानि दीर्घाण्यायतानि परुषाणि कठिनानि यानि पलितानि तैर्लोमशौ प्रकोष्ठौ ययोरेवंभूताभ्यां दोय
टिप्प० - 1 सर्वत्र पर्यायशब्दोगिरणायोच्छन्नपि मूकोऽत्र टीकाकारमहोदयः ! ! शशाङ्काय अढौ--
कत, शशाङ्कमुपागमत् इत्यर्थ: । 'गत्यर्थकर्मणी' त्यादिना कर्मणि चतुर्थी ।
पाठा० - १ समुत्सृष्टशुकशरीर: पुण्डरीक: २ दत्तकण्ठग्रहम् ; दत्तकण्ठग्रहा.
८९ का०