2023-10-28 12:18:37 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
७०४
कादम्बरी ।
[ कथायाम्-
,
न
तुमात्मना पारयन्तीम्, श्रोत्रहृदयग्राहिणाऽनुभूतपूर्वेण स्वरेणानन्दयन्नवादीत् - 'भीरु, परित्यज्यतां भयम् । प्रत्युज्जीवि-
व्यज्यतां तोऽस्मि तवैवामुना कण्ठग्रहेण । त्वं खल्वमृतसंभयवादप्सरसां कुलादुत्पन्ना । किं न स्मरसि तन्मे वचनमिदम् । तत्तेजोमयं वपुः स्वत एवाविनाशि विशेषतोऽमुना कादम्बरीकरस्पर्शेना- प्यायितमिति । तदेतावन्त्येव दिनानि पाणिना ते स्पृश्यमानोऽपि न यत्प्रत्युज्जीवितोऽस्मि तच्छापदोषात् । अद्य स तु मे द्वितीयवारं त्वदर्थमेवानुभूतदुःसहमदनज्वरदाहवेदनापरमदुःखस्य व्यपगतः शापः । परित्यक्ता सा मया त्वद्विरहदुःखदायिनी मानुषी शूद्रकाख्या तनुः । एषापि च तवास्यां रुचिरुत्पन्नेति त्वत्प्रीत्या प्रतिपन्ना प्रतिपालिता च । तदयं लोकश्चन्द्रलोकश्च ते द्वावप्यधुना चरणतलप्रतिबद्धौ । अपि च प्रियसख्या अपि ते महाश्वेतायाः प्रियतमो मयैव सह विगतशापः।' इत्यभिदधत्येव चन्द्रापीड-
शरीरान्तरितवपुषि चन्द्रमसि, चन्द्रलोकावस्थानलग्नममृतपरिमल- मेव केवलमधिकमुद्वहन्,अङ्गैरन्यतमस्तादृशेनैव वेषेण यादृशेन महाश्वेतोत्कण्ठयोपरतः, तथैव कण्ठेनैकावलीं धार-
[ टि ]-- इत्येवंशीलेनानुभूतपूर्वेणाकर्णितपूर्वेण स्वरेण शब्देनानन्द- यन्प्रमोदयन्नवादीदवोचत् । किं तदित्याह- भीर्विति । हे भीरु हे कातरे, भयं त्रासं परित्यज्यतां दूरीक्रियताम् । तवैवामुना कण्ठग्रहेण । त्वंणाहं प्रत्युज्जीवित: पुनर्जीवनं प्रापितोऽस्मि । खल्वविति निश्चये । त्वममृतसंभवात्पीयूषोत्पन्नादप्सरसां
सामुर्वशीप्रभृतीनां
कुलादभिजनादुत्पन्ना ।संजाता। इदं [^1]तन्मे मम वचनं किं न स्मरसि तन्मे वचनन स्मृतिगोचरीकरोषि । इदं किमिदम् । तत्त्याशयेनाह - तदिति । तच्चन्द्रापीडवपुस्तेजोमभयं वपुः स्ज्योतिर्मयं स्वत एव स्वभावत एवाविनाशि- नाश्यविनश्वरम् । विशे-
पषतोऽमुना कादम्बरीकरस्पर्शेनाप्यायितं शीतलीकृतमिति । तत्तस्मात्कारणादेताबवन्त्येव दिनानि ते तव
पाणिना तेकरेण स्पृश्यमा-
नोऽप्याश्लिष्यमाणोऽपि कृतदर्शनोऽपि न यत्यन्न प्रत्युज्जीवितोऽस्मि तच्छापदोषात्देवेति मन्तव्यम् । अद्य स तु मेत्वस्मिन्नहनि द्वितीयवारं त्वदर्थमेवानुभू-
तदुःसहमद्नज्वराहवेदनापरमदुःखस्य व्यपगतः शापः । परित्यक्ता सा मया त्वद्विरहदुः-
खदायिनी मानुषी शूद्रकाख्या तनुः । एषापि च तवास्यां रुचिरुत्पन्नेति त्वत्प्रीत्या प्रतिपन्ना
प्रतिपालिता च । तदयं लोकञ्चन्द्रलोकञ्च ते द्वावध्यनुना चरणतलप्रतिबद्धौ । अपि च प्रिय-
सख्या अपि ते महाश्वेतायाः प्रियतमो मयैव सह विगतज्ञापः । इत्यभिधयेव चन्द्रापीड-
शरीरान्तरिखबपुषि चन्द्रमसि, चन्द्रलोकावस्थान लग्नममृतपरिमलमेव केवलमधिकमुद्वहन्,
अङ्गैरम्बतमस्ता होनैव वेषेण यादृशेन महाश्वेतोत्कण्ठयोपरतः, तथैव कण्ठेनैकावलीं धार-
ते
।
इसेवं सीमानुभूतपूर्वेणा फर्णितपूर्वेण खरेण शब्देनानन्दयन्प्रमोदय नवादीदवोचत् किं तदित्याह-
भीविंति । हे भीरु हे कातरे, भयं त्रासं परित्यज्यतां दूरीक्रियताम् । तवैवामुना कण्ठग्रहेणाहं प्रत्युज्जी-
वित्तः पुनर्जीषनं प्रापितोऽस्मि । खल्विति निश्चये । त्वममृतसंभवात्पीयूषोत्पन्नादप्सरसामुर्वशीप्रभृतीनां
कुलादभिजनादुत्पन्ना संजाता। इदं तन्मे मम वचनं किं न स्मरसिन स्मृतिगोचरीकरोषि । इदं किमित्या-
शयेनाह - तदिति । तच्चन्द्रापीडवपुस्तेजोभयं ज्योतिर्मयं स्वत एव स्वभावत एवाविनाश्य विनश्वरम् ।
विशेषतोऽमुना कादम्बरीकरस्पर्धेनाप्यायितं शीतली कृतमिति । तत्तस्मात्कारणादेतावन्त्येव दिनानि ते तव
पाणिना करेण स्पृश्यमानोऽप्याश्लिष्यमाणोऽपि कृतदर्शनोऽपि यन्न प्रत्युज्जीवितोऽस्मि तच्छापदोषादेवेति
मन्तव्यम् । अद्य त्वस्मिन्नहनि द्वितीयवारं [^2]त्वदर्थमेवानुभूतं दुःसह उत्कटो यो मदनज्वरदाहस्तस्य वेदना
पीडा तस्याः परमदुःखं येनैवंभूतस्य मे मम स शापो व्यपगतो नाशं गतो दूरं गतः । त्वद्विरहदुःखदायिनी
मानुषी शूद्रकाख्या तनुः सा मया परित्यक्तोज्झिता । तव भवत्या अस्यां चन्द्रापीडतनौ रुचिरुत्पन्ना । अत
एषा मया प्रतिपन्नाजीङ्गी- कृता प्रतिपालिता च रक्षिता च । तदिति हेत्वर्थे । अयं लोको मर्त्यलोकश्चन्द्रलोकश्च
द्वावपि लोकावधुना सांप्रतं ते तव चरणतलप्रतिबद्धौ पादतलाश्रितौ । अपि चान्यच्च ते तव प्रियसख्या वल्ल
भवयस्यया अपि महाश्वेतायाः प्रियतमो वल्लभो मयैव चन्द्रापीडेनैव सह विगतशापः संजात इत्यभिदधत्येव कथ-
यत्येव चन्द्रापीडशरीरेणान्तरितं व्यवहितं वपुर्यस्य स तस्मिंश्चन्द्रमसि सति, चन्द्रलोके यदवस्थानं गतं तेन लग्न-
मासक्तममृतपरिमलमेव पीयूषामोदमेव केवलमधिं [^3]मधिकमुद्वहन्धारयन् । तादृशेनैव वेषेण नेपथ्येन यादृशेन वेषेण
महाश्वेताया उत्कण्ठयोत्कलिकयोपरतो मृतस्तथैव पूर्वोक्तप्रकारेणैव कण्ठेन निगरणेनैकावलीमेकयष्टिकां धारय-
टिप्प० --
[^1]F. पुनः स्खलति टीकाकारः । 'किं न स्मरसि तत् मे
( चन्द्ररूपस्य ) वचनम् ?' 'इदं
ततेजो मयं वपुः स्वतः' इति वाक्यविभागः । परोक्षे भूतकालिके चन्द्रवचने तदिति विशेषणस्यैव,
तस्मिन् काले प्रत्यक्षं वर्तमानस्य चन्द्रेणाङ्गुल्या निर्दिश्यमानस्य वपुषः कृते तु ' तदिदम्' इति परामर्श-
स्यैवौचित्यात् ।
[^2]F. 'स तु मे द्वितीयवारम्' इत्यादिको भ्रान्तिजनकः पाठो नास्त्येव । 'अद्य तु स मे व्यप-
गतः शापः' इत्येषव सुस्पष्टः पाठः ।
[^3]F. मूले स्वयं स्वीकृतम् 'अङ्गैः' 'अन्यतमः' इति पदद्वयं विस्मृतवां-
ष्टीकाकारः । ततश्च -
-'अमृतपरिमलमेव केवल मुद्दद्दन्नःवहन्नङ्गै:, अन्यतमः ( भिन्नरूपः, पूर्वतोप्यधिकसौन्द
र्यशाली ) ताइहोदृशेनैव चेवेषेण ०' इत्यादिरन्वयो व्याख्यार्थश्च बोध्यः ।