This page has not been fully proofread.

७०४
 
कादम्बरी ।
 
[ कथायाम्-
,
 

 
तुमात्मना पारयन्तीम्, श्रोत्रहृदयग्राहिणाऽनुभूतपूर्वेण स्वरेणानन्दयन्नवादीत् - 'भीरु, परि-
व्यज्यतां भयम् । प्रत्युज्जीवितोऽस्मि तवैवामुना कण्ठग्रहेण । त्वं खल्वमृतसंभवादप्सरसां
कुलादुत्पन्ना । किं न स्मरसि तन्मे वचनमिदम् । तत्तेजोमयं वपुः स्वत एवाविनाशि विशे-
पतोऽमुना कादम्बरीकरस्पर्शेनाप्यायितमिति । तदेताबन्त्येव दिनानि पाणिना ते स्पृश्यमा-
नोऽपि न यत्प्रत्युज्जीवितोऽस्मि तच्छापदोषात् । अद्य स तु मे द्वितीयवारं त्वदर्थमेवानुभू-
तदुःसहमद्नज्वराहवेदनापरमदुःखस्य व्यपगतः शापः । परित्यक्ता सा मया त्वद्विरहदुः-
खदायिनी मानुषी शूद्रकाख्या तनुः । एषापि च तवास्यां रुचिरुत्पन्नेति त्वत्प्रीत्या प्रतिपन्ना
प्रतिपालिता च । तदयं लोकञ्चन्द्रलोकञ्च ते द्वावध्यनुना चरणतलप्रतिबद्धौ । अपि च प्रिय-
सख्या अपि ते महाश्वेतायाः प्रियतमो मयैव सह विगतज्ञापः । इत्यभिधयेव चन्द्रापीड-
शरीरान्तरिखबपुषि चन्द्रमसि, चन्द्रलोकावस्थान लग्नममृतपरिमलमेव केवलमधिकमुद्वहन्,
अङ्गैरम्बतमस्ता होनैव वेषेण यादृशेन महाश्वेतोत्कण्ठयोपरतः, तथैव कण्ठेनैकावलीं धार-
ते
 

 
इसेवं सीमानुभूतपूर्वेणा फर्णितपूर्वेण खरेण शब्देनानन्दयन्प्रमोदय नवादीदवोचत् किं तदित्याह-
भीविंति । हे भीरु हे कातरे, भयं त्रासं परित्यज्यतां दूरीक्रियताम् । तवैवामुना कण्ठग्रहेणाहं प्रत्युज्जी-
वित्तः पुनर्जीषनं प्रापितोऽस्मि । खल्विति निश्चये । त्वममृतसंभवात्पीयूषोत्पन्नादप्सरसामुर्वशीप्रभृतीनां
कुलादभिजनादुत्पन्ना संजाता। इदं तन्मे मम वचनं किं न स्मरसिन स्मृतिगोचरीकरोषि । इदं किमित्या-
शयेनाह - तदिति । तच्चन्द्रापीडवपुस्तेजोभयं ज्योतिर्मयं स्वत एव स्वभावत एवाविनाश्य विनश्वरम् ।
विशेषतोऽमुना कादम्बरीकरस्पर्धेनाप्यायितं शीतली कृतमिति । तत्तस्मात्कारणादेतावन्त्येव दिनानि ते तव
पाणिना करेण स्पृश्यमानोऽप्याश्लिष्यमाणोऽपि कृतदर्शनोऽपि यन्न प्रत्युज्जीवितोऽस्मि तच्छापदोषादेवेति
मन्तव्यम् । अद्य त्वस्मिन्नहनि द्वितीयवारं त्वदर्थमेवानुभूतं दुःसह उत्कटो यो मदनज्वरदाहस्तस्य वेदना
पीडा तस्याः परमदुःखं येनैवंभूतस्य मे मम स शापो व्यपगतो नाशं गतो दूरं गतः । त्वद्विरहदुःखदायिनी
मानुषी शूद्रकाख्या तनुः सा मया परित्यक्तोज्झिता । तव भवत्या अस्यां चन्द्रापीडतनौ रुचिरुत्पन्ना । अत
एषा मया प्रतिपन्नाजीकृता प्रतिपालिता च रक्षिता च । तदिति हेर्थे । अयं लोको मर्त्यलोकश्चन्द्रलोकश्च
द्वावपि लोकावधुना सांप्रतं ते तव चरणतलप्रतिबद्धौ पादतलाश्रितौ । अपि चान्यच्च ते तव प्रियसख्या वल्ल
भवयस्यया अपि महाश्वेतायाः प्रियतमो वल्लभो मयैव चन्द्रापीडेनैव सह विगतशापः संजात इत्यभिदधयेव कथ-
यत्येव चन्द्रापीडशरीरेणान्तरितं व्यवहितं वपुर्यस्य स तस्मिंश्चन्द्रमसि सति, चन्द्रलोके यदवस्थानं गतं तेन लग्न-
मासक्तममृतपरिमलमेव पीयूषामोदमेव केवलमधिंकमुद्वहन्धारयन् । तादृशेनैव वेषेण नेपथ्येन यादृशेन वेषेण
महाश्वेताया उत्कण्ठयोत्कलिकयोपरतो मृतस्तथैव पूर्वोक्तप्रकारेणैव कण्ठेन निगरणेनैकावलीमेकयष्टिकां धारय-
टिप्प० -- 1 पुनः स्खलति टीकाकारः । 'किं न स्मरसि तत् मे ( चन्द्ररूपस्य ) वचनम् ?' 'इदं
ततेजो पुः स्वतः' इति वाक्यविभागः । परोक्षे भूतकालिके चन्द्रवचने तदिति विशेषणस्यैव,
तस्मिन् काले प्रत्यक्षं वर्तमानस्य चन्द्रेणाङ्गुल्या निर्दिश्यमानस्य वपुषः कृते तु ' तदिदम्' इति परामर्श-
स्यैवौचित्यात् । 2 'स तु मे द्वितीयवारम्' इत्यादिको भ्रान्तिजनकः पाठो नास्त्येव । 'अद्य तु स मे व्यप-
गतः शापः' इत्येष सुस्पष्टः पाठः । 3 मूले स्वयं स्वीकृतम् 'अङ्गैः' 'अन्यतमः' इति पदद्वयं विस्मृतवां-
ष्टीकाकारः । ततश्च -
-'अमृतपरिमलमेव केवल मुद्दद्दन्नः, अन्यतमः ( भिन्नरूपः, पूर्वतोप्यधिकसौन्द
र्यशाली ) ताइहोनैव चेषेण ०' इत्यादिरन्वयो व्याख्यार्थश्च बोध्यः ।