This page has not been fully proofread.

चन्द्रापीडस्योज्जीवनं पुण्डरीकस्यागमनं ] उत्तरभाग: ।
 
वती, परित्याजिता बलाल्लजया सहाबलाजनसहजां भीति भगवता भुवनत्रयोन्मादकारिणा
मन्मथेन, आत्मानमपारयन्ती संधारयितुमेकान्ते निःसहा सहसा तमभिपद्य मुकुलितैनयन-
पङ्कजा जीवन्तमिव निर्भरं कण्ठे जग्राह ।
 
चन्द्रापीडस्य तु तेनामृत सेकाहादिना कादम्बरीकण्ठग्रहेण सद्यः सुदूरगतमपि कण्ठस्थानं
पुनर्जीवितं प्रत्यपद्यत । दिवसकुमामीलितं कुमुदमिव शरज्योत्स्नानिपाता दुच्छुसित मा बन्ध-
नाहृदयम् । उषः परामृष्ठेन्दी वर मुकुललीलयोदमी लस्कर्णान्तायतं चक्षुः । अम्भोरुह विभ्रमेण
वाजृम्भत वदनम् । एवं च सुप्तप्रतिबुद्ध इव प्रत्यापन्न सर्वाङ्गचेष्टश्चन्द्रापीडस्तथा कण्डलग्नां
कादम्बरीं चिरविरहदुर्बलाभ्यां दोय गाढतरं कण्ठे गृहीत्वा वाताहतां बालकदलीमिव
भयोत्कम्पमानाङ्गयष्टिम्, उद्गाढतरामीलिताक्षीं वक्षस्येव प्रबेष्टुमीहमानाम्, न मोक्तुं न ग्रही-
७०३
 
कृत्वाविष्टा भूतमस्तेव । परवती परायत्ता बलाद्धठालजया त्रपया परित्याजिता परित्यक्ता अबलाजनः स्त्रीज..
मस्तस्य सहजा सहोत्पन्नां भीतिं भगवता माहात्म्यवता भुवनत्रयस्योन्मादकारिणा चित्तविठवजन केन मन्म-
थेन कंदर्पेणात्मानं संधारयितुं धारणां कर्तुमपारयन्त्यसमर्था एकान्ते विजने निःसहा परिश्रान्ता सहसा एकपदे
तमभिपद्य गत्वा मुकुलिते संकुचिते नयनपङ्कजे यस्याः सा । जीवन्तमिव श्वसन्तमिव निर्भरं यथा स्यात्तथा
कण्ठे निगरणे जग्राह गृहीतवती ।
 
चन्द्रापीडस्य तु तेनामृतस्य सेकः सिञ्चनं तद्वदाहादिना प्रमोदजनकेनैवं विधेन कादम्बरीकण्ठग्रहेण सद्य-
स्तत्कालं सुदूरगतमपि दविष्ठदेशप्राप्तमपि जीवितं प्राणितं पुनः कण्ठस्थानं निगरणदेशं प्रत्यपद्यत स्त्री-
चक्रे । दिवसक्लमं वासरसंबन्धिश्रम स्तेनामीलितं संकुचितं शरत्कालीना या ज्योत्स्ना चन्द्रिका तस्या निपाता-
त्पतनादाबन्धनादावृन्तात्कुमुद मिव कैरवमिवोच्छ्रसितमुल्लसितं हृदयं भुजान्तरम् । उषसा प्रत्यूषेण परामृष्टं
कृतस्पर्श यदिन्दीवर मुकुलं नीलसरोजकुब्यलं तस्य लीलेयेवेति लुप्तोपमा । कर्णं यावदायतं विस्तीर्ण
चक्षुः । जायेकवचनम् । उदमीलद्विकस्वरं बभूव । 'व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उषः' इति हैमः ।
अम्भोरुहं कमलं तस्य विभ्रमेण विलासेनेव । अत्र वाशब्द इवार्थे । वदनमजृम्भत विकसितमभूत् ।
एवं चादौ सुप्तः पश्चात्प्रतिबुद्धो जागरित इव प्रत्यापन्ना सर्वाङ्गचेष्टा येनैवंभूतश्चन्द्रापीडस्तथा तेन प्रकारेण
कण्ठलमां कादम्बरी चिरकालीनो यो विरहस्तेन दुर्बलाभ्यां कृशाभ्यां दोर्भ्यां भुजाभ्यां गाढतरं कण्ठे
गृहीत्वा, वाताहतां समीरान्दोलितां बालकदलीमिव भयेनोत्कम्पमाना वेपमानाङ्गयष्टिर्यस्याः सा । उत्प्राबल्येन
गाढतरं दृढतरमामीलिते संकोचिते अक्षिणी यया सा । वक्षसि भुजान्तरे प्रवेष्टुं प्रवेश कर्तुमीहमाना स्पृह-
माना न मोक्तुं न ग्रहीतुमादातुमात्मना खेनापारयन्तीमप्रभवतीं श्रोत्रे कर्णे हृदयं भुजान्तरं ताभ्यां गृह्यत
 
-
 
टिप्प० - 1 प्रमादोयम् । मन्मथेन लज्जया सह अबलाजनसहजां भीति बलात् परित्याजिता [ काद-
म्बरीकर्तृके भीतिकर्म कपरित्यागे मन्मथः प्रयोजकः कर्ता, मन्मथः कादम्बरीद्वारा भीति परित्याजितवान्,
इति तात्पर्यम् ], अत एव भात्मानं संधारयितुमपारयन्ती । 2 वस्तुतस्तु - 'उच्च सितमाबबन्ध हृदयम्'
इति पाठः । हृदयम् ( कर्तृ) शरज्योत्स्नाऽभिपातात्कुमुदमिव, उच्चासं निश्वासम् भाबबन्ध तत्याज ।
3 पुनर्भ्रान्तष्टीकाकारः । वेपमाना अङ्गयष्टिर्यस्यास्ताम्, आमीलिते आक्षिणी यया ताम्, प्रवेष्टुम् हमा
नाम्, चन्द्रापीडं न मोक्तुम् ( उत्कण्ठावशात् ), न च ग्रहीतुम् ( लजावशात् ) आत्मना स्वेन पारय-
न्तीम्, इति सर्वत्र द्वितीया ।
 
पाठा० -१ लोचन, २ दिवसनिमीलितम् ; दिवसक्लमनिमीलित ३ आ निषन्धनात्; आवभन्. ४ लोच-
माभ्यां पिबन्निव