This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
दुर्दिनोन्मादितसकलजीवलोकहृदयो मदाकुर्लभ्रमद्धमरझंकार कातरितविरहातुरमनोवृत्तिरा-
त्मसंभवैकोल्लासकारी भरात्प्रावर्तत सुरभिमासः ।
 
येन च कुसुमधन्वनः परमात्रेण मधुना पर्याकुलितहृदया कादम्बरी, संप्राप्ते भगवतः
कामदेवस्य महे, महता प्रयत्नेन कथंकथमप्यतिवाहितदिवसा, श्यामायमानदशदिशि सांया
स्नात्वा, निर्वर्तितकामदेवपूजा तस्य पुरश्चन्द्रापीड मतिसुरभिशीतलैः स्नापयित्वाम्भोभिरा चर-
णाद्विलिप्य मृगमदामोदिना हरिचन्दनेन, सुरभिकुसुम स्रग्भिरुद्रथितं कुन्तलकलापं कृत्वा,
एक कर्णार्पित सत्किँसलयाशोक स्तबक कर्णपूरं कर्पूरकुसुमप्रचुरैः प्रसाध्याभरणविशेषैः, विस्मृत-
निमेषा पिबन्तीव भावार्द्रया ईशा सुचिरमालोक्य, उत्कण्ठानिर्भरा, पुनः पुनर्निश्वस्योत्कम्प-
माना साध्वसेन स्विन्नसर्वाङ्गी, समुत्कण्ट किततं नूरुच्छुष्यदधरवदना महाश्वेतावलोकन-
भयान्मुहुर्मुहुर्दिक्षु विक्षिप्तोञ्च कितदृष्टि: अतिचिरमिवोपसृत्य, पुनःपुनः स्थित्वाविष्ठेव पर-
७०२
 
यस्मिन्सः । अनवरतं निरन्तरं यो मकरन्दसीकरासारो मकरन्दवातास्तबिन्दुवेगवदृष्टिस्तदेव दुर्दिनं मेघजं तम-
रतनोन्मादितान्युन्मादं प्रापितानि सकलजीवलोकहृदयानि येन सः, मदाकुला ये भ्रमन्तो भ्रमराः शिलीमुखा-
स्तेषां झंकारा झंकृतयस्तैः कातरिता कातरीकृता विरहातुरजनानां मनोवृत्तिर्येन सः । आत्मसंभवस्य कामस्यै-
कोऽद्वितीय उल्लासकारी प्रकाशकारी सुरभिभासः प्रावर्ततेत्यन्वयस्तु प्रागुक्त एव ।
 
येन कुसुमधन्वनः कंदर्पस्य परमात्रेणात्युत्कृष्टशस्त्रेण मधुना वसन्तेन पर्याकुलितहृदया व्याकुलितचित्ता
कादम्बरी भगवतः कामदेवस्य ग्रह उत्सवे संप्राप्त समागते सति महता प्रयत्नेनोद्यमेन कथंकथमपि महता
कष्टेनातिवाहित दिवसा अतिक्रान्तवासरा । श्यामायमानाः कृष्णायमानाः दशदिशो यस्मिन्नेवंभूते साया
संध्यायां स्नात्वा स्नानं कृत्वा निर्वर्तिता विहिता कामदेवस्य पूजार्चा यया सा, तस्य कामदेवस्य पुरोऽग्रे चन्द्रापी-
डमतिसुरभिशीतलैरतिसुगन्धिशिशिरैरम्भोभिः पानीयैः स्नापयित्वा स्नानं कारयित्वा, चरणाञ्चरणाव भिव्याप्य
मृगमदः कस्तूरिका तस्या आमोदः परिमलो विद्यते यस्मिन्नेवंभूतेन हरिचन्दनेन विलिप्य विलेपनं कृत्वा ।
'हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे । ज्योत्स्नायां कुङ्कुमे च' इति विश्वः । सुरभीणि यानि कुसुमानि तेषां
स्रग्भिर्मालाभिरुथित उद्बद्धः कुन्तलकलापः केशसमूहो यस्य स तं कृत्वा विधायैककर्णेऽर्पितो न्यस्तः सन्ति
शोभनानि किसलयामि यस्मिन्नेवंभूतोऽशोकस्तबकः कङ्केलिगुच्छकः स एव कर्णपूरो यस्य स तम् । कर्पूरकुसुम-
प्रचुरैराभरणविशेषैः वैः प्रसाध्य प्रसाधनं कृत्वा विस्मृतनिमेषा त्यक्तनिमेषोन्मेषा पिबन्तीव । अत्यादरेणावलोकनं
पानमुच्यते । भावेन चित्तसमुद्भवेनाईया सजलया दृशा सुचिरं बहुकालं चिरकालमालोक्य निरीक्ष्योत्कण्ठाया
निर्भरोऽतिशयो यस्यां सा । पुनःपुनर्निश्वस्य निश्वासं मुक्त्वोत्प्राबल्येन कम्पमानातिवेपमाना साध्वसेन भयेन
स्विनं प्रस्विन्नं सर्वाङ्गं यस्याः सा । समुत्कण्टकिता तनूः शरीरं यस्याः सा । उच्छुष्यन्ती शोषं प्राप्यमाणेऽधर-
वदने दन्तच्छदमुखे यस्याः सा । महाश्वेताया अवलोकनं तस्माद्भयं भीतिस्तस्मान्मुहुर्मुहुर्वारंवार दिक्षु विक्षिप्ता
प्रेरितोचक तोता दृष्टिया सा । अतिचिरमिव बहुकाल मिवोपसृत्य समीपमागत्य पुनःपुनः स्थित्वावस्थानं
 
टिप्प० - 1 उच्छुष्यन्नधरो यस्मिन्नीदृशं वदनं यस्याः सा, इति बहुव्रीहिगर्भो बहुव्रीहिः । अन्यथा
वदनस्य शोष एवाधरस्यापि शोषो निरूपितो भवेत्, अधरस्य वदनान्तर्गतत्वात् ।
 
पाठा०-१ अमयन्. २ चकित. ३ महोत्सवे. ४ निवर्तित ५ कृत्वैव कर्णा, ६ आरोपित ७ प्रसरत्किसलय;
सकिसलय, ८ दृष्ट्या ९ तनु: १० परवतीव.