2023-10-28 15:12:02 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
वसन्तागमतस्मिन्ने कादम्बर्युत्कण्ठा ]
उत्तरभागः ।
७०व चान्तरे [^१
तस्मिन्नेव चान्तरे ]तत्संधुक्षणायेव प्रवर्तयन्सरस किसलयलता- लास्योपदेशदक्षं दक्षिणानि-
लम्, आलोलरक्तपल्लव [^२]प्राल- म्बान्कम्पै [^३]म्पयन्नशोकशाखिनः, [^४]वान्ञ्छितमुफुकुलमञ्जरीभरेण नम्रय-
म्वा[^५]नम्रयन्बालसहकारान्, उत्कोरकयन्कुरुबकैः सह बकुल- तिलक चम्पकनीपान, न्, [^६]आपीतयन्किकिंकिरातैः
कँ [^७]ककुभानन्, विकिरन्नतिमुक्तकामोदम्, उद्दामयन्किकिंशुकवनानि, निरङ्कुश- यन्कामिजनमनांसि,
निर्मूलयम्न्मानम्, अपमार्जययँल्लज्जाम्, अप- कुर्वन्कोपम्, [^८]अपनयन्ननुनयव्यवस्थाम्, [^९]व्यवस्था-
पन्है
पय [^१०]न्हठचुम्बनालिङ्गनरतस्थितिम्, समुल्लासयम्न्मकरध्वज- [^११]रक्तध्वजानिव किंशुकानि, सकळलमेव
महारजतमय मिव रागमयमिव मै[^१२]मदनमय मिवोन्मादमयमिव प्रेममयमिवोत्सवमय - मयमिवौत्सुक्य
मयमिव जनयञ्जीवलोकम्, किसलयितसकल- कान्तारका ननोपवनत रुरुत्फुल्लचूतद्रुमामोदवा-
सितदशाशान्तरो मधुमदमै [^१३]मधुरको [^१४]किर्लोलालापदुःखिताध्वगजनश्रुतिर नवरत - नवरतमकरन्दसीकरासार-
>
[ टि ]-- तस्मिन्नेव चान्तरे विचाले [^1]तस्य संधुक्षणायेव तदुद्दीपनायेव सुरभिमासो वसन्तः प्रावर्तित प्रवृत्तो बभूव ।
'सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । गन्धोत्पले सौरभेय्यां शहल्लकी मातृभेदयोः । सुगन्धे च मनोहे
ज्ञे च वाच्यवत्सुरभि स्मृतम्' इति विश्वः । किं कुर्वन् । प्रवर्तयन्प्रवृत्तितिं कारयन् । कम् । दक्षिणा-
निलं मलयमारुतम् । कीदृशम् । सरसानि रसोपयुक्तानि किसलयानि यासामेवंविधा लता वल्लयस्तासां
लास्योपदेशो नृत्योपदेशस्तत्र दक्षं चतुरम् । आलोलाश्चपलाश्चञ्चला रक्तपल्लवा लोहित किसलयास्तेषां प्रालम्बा:
समूहा येषु तानशोकशाखिनः केसरवृक्षान्कम्पयन् । [^2]वाञ्छिते मुकुलमञ्जयौँर्यौ कुमलवहयौंड्मलवल्लर्यौ तयोर्भरेण बाल-
सहकारान्नवीनचूतान्नम्रयन्नम्रतां नयन् । कुरबकै- र्वृक्षविशेषैः सह बकुलः केसरः, तिलको वृक्षविशेषः,
चम्पको हेमपुष्पकः, नीपः कदम्बः एतानुत्प्राबल्येन कोरकयन्कलिका- मुत्पादयन् । 'कलिका कोरकः
पुमान्' इत्यमरः । किंकिरातैः कुरण्टकैः सह ककुभानर्जुनवृक्षामानापीतयन्पीतान्कुर्वन् । 'ककुभो वीणा-
प्रसवे रागभेदेऽर्जुनद्रुमे' इत्यनेकार्थः । अतिमुक्तकस्य माधवीलताया आमोदं परागं विकिरन्विक्षिपन् ।
किंशुका ब्रह्मपादपास्तेषां वनान्युद्दामयन्नुत्कटयन् । कामिनो जनास्तेषां मनांसि चेतांसि निरङ्कुशयन्नुच्छृङ्खलयन् ।
मानं गर्ववं निर्मूलयन्बुध्नत उत्पाटयन् । लज्जां त्रपामपमार्जयस्फोटयन् । कोपं क्रोधम् । अर्थात् कामिजम-
नकृतम् । अपाकुर्वन्दूरीकुर्वन्नि राकुर्वन् । अनुनयव्यवस्थां प्रणिपातमर्यादामैपनय चि [^3]मपनयन्निराकुर्वन् । इंटेन हठेन
बलेन चुम्बन
मास्यलेहनम्, आलिङ्गनमुपगूहनम्, रतिः संभोगः, एतासां स्थितिं मर्यादां व्यवस्थापयन्व्यषस्थवस्थां कुवैम् । मनर
र्वन् । मकरध्वजस्य कामस्य रक्तध्वजानिव किंशुकानि किंशुकपुष्पाण्यरुणवैजयन्त्य इव समुल्लासयन्प्रकाशयम्न् । महारजसमज-
मित्रतमयमिव सुवर्णमयमिव, रागमयमिवानुरागमयमिव मदनमयमिव कंदर्पमय मित्रमिव, उन्मादमयमिव वित्तविष्ठषमयमिव,
प्लवमयमिव, प्रेममयमिव स्नेहमयमित्रव, उत्सवमयमिव महोमैयमिव [^4]मयमिव, औत्सुक्यमयमिव रणरणकमयमिव, एवंविधं सकल
मेव समग्रमेव जीवलोकं विष्टपं जनयन्विदधत् । किसलयिताः संजात किसलयाः सकलाः समग्राः कान्तारकान•
नोपवनतरवो येन सः । तत्र कान्तारं शून्याटवी काननं निर्मानुषं वनमुपवनं नगरसमीपवर्तिवनम् । उत्फुल्लाः
प्रफुल्ला ये चूतद्रुमा आम्रवृक्षास्तेषामामोदः परिमलस्तेन वासितं सुरभीकृतं दशदिशामन्तरं विचालं येन सः ।
मधुनो यो मदस्तेन मधुरो मिष्टो यः कोकिलालापस्तेन दुःखिता अध्वगजनाः पान्थजनास्तेषां श्रुतिः [^5]श्रवणं
"
टिप्प० -
[^1]F. कामानलस्य ।
[^2]F. भ्रष्टः पाठः । 'विकसितमुकुलमञ्जरीभरेण' इत्येव ।
[^3]F. वसन्ते हि
मानशैथिल्ये सति अनुनय ( मानमोचन ) व्यवस्था क्रियते, न त्वपनीयते । अत एव – 'उपनयन्ननय-
व्यवस्थाम् ( अविनीतचेष्टाम् ) ' इति पाठः ।
[^4]F. उत्सववाचको 'मह' शब्द एव दृष्टः ।
[^5]F. दुःखिता
अध्वगजनानां कर्णा यत्र ।
.
पाठा० -
[^१]G. तत्क्षणमेव .
[^२]G. प्रलम्बान् .
[^३]G. स्तबकयन्.
[^४]G. विकसित .
[^५]G. आनम्रयन्; आनमयन्.
[^६]G. आपातयम्.
[^७]G. ककुभः .
[^८]G. उपनयन्.
[^९]G. उपस्थापयन्; आस्थापयन् .
[^१०]G. दृढ .
[^११]G. रक्तध्वजांशुकानि; रक्तांशुकानि, .
[^१२]G. रति-
मयमिवोत्सवमयमिव दानमयमिव प्रेममयमित्रव कलिमयमिवौत्सुक्य .
[^१३]G. मधुकर.
[^१४]G. उल्लाप.