कादम्बरी /734
This page has not been fully proofread.
वसन्तागमने कादम्बर्युत्कण्ठा ]
उत्तरभागः ।
७०१
तस्मिन्नेव चान्तरे तत्संधुक्षणायेव प्रवर्तयन्सरस किसलयलतालास्योपदेशदक्षं दक्षिणानि-
लम्, आलोलरक्तपल्लवप्रालम्बान्कम्पैयन्नशोकशाखिनः, वान्छितमुफुलमञ्जरीभरेण नम्रय-
म्वालसहकारान्, उत्कोरकयन्कुरुबकैः सह बकुलतिलक चम्पकनीपान, आपीतयन्किकिरातैः
कँकुभान, विकिरन्नतिमुक्तकामोदम्, उद्दामयन्किशुकवनानि, निरङ्कुशयन्कामिजनमनांसि,
निर्मूलयम्मानम्, अपमार्जयल्लज्जाम्, अपकुर्वन्कोपम्, अपनयन्ननुनयव्यवस्थाम्, व्यवस्था-
पन्हैठचुम्बनालिङ्गनरतस्थितिम्, समुल्लासयम्मकरध्वजरक्तध्वजानिव किंशुकानि, सकळमेव
महारजतमय मिव रागमयमिव मैदनमय मिवोन्मादमयमिव प्रेममयमिवोत्सवमय मिवौत्सुक्य
मयमिव जनयञ्जीवलोकम्, किसलयितसकलकान्तारका ननोपवनत रुरुत्फुल्लचूतद्रुमामोदवा-
सितदशाशान्तरो मधुमदमैधुरको किर्लोलापदुःखिताध्वगजनश्रुतिर नवरत मकरन्दसीकरासार-
>
तस्मिन्नेव चान्तरे विचाले तस्य संधुक्षणायेव तदुद्दीपनायेव सुरभिमासो वसन्तः प्रावर्तित प्रवृत्तो बभूव ।
'सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । गन्धोत्पले सौरभेय्यां शहकी मातृभेदयोः । सुगन्धे च मनोहे
च वाच्यवत्सुरभि स्मृतम्' इति विश्वः । किं कुर्वन् । प्रवर्तयन्प्रवृत्ति कारयन् । कम् । दक्षिणा-
निलं मलयमारुतम् । कीदृशम् । सरसानि रसोपयुक्तानि किसलयानि यासामेवंविधा लता वल्लयस्तासां
लास्योपदेशो नृत्योपदेशस्तत्र दक्षं चतुरम् । आलोलाश्चपलाश्चञ्चला रक्तपलवा लोहित किसलयास्तेषां प्रालम्बा:
समूहा येषु तानशोकशाखिनः केसरवृक्षान्कम्पयन् । वाञ्छिते मुकुलमजयौँ कुमलवहयौं तयोर्भरेण बाल-
सहकारान्नवीनचूतान्नम्रयन्नम्रतां नयन् । कुरबकैर्वृक्षविशेषैः सह बकुलः केसरः, तिलको वृक्षविशेषः,
चम्पको हेमपुष्पकः, नीपः कदम्बः एतानुत्प्राबल्येन कोरकयन्कलिकामुत्पादयन् । 'कलिका कोरकः
पुमान्' इत्यमरः । किंकिरातैः कुरण्टकैः सह ककुभानर्जुनवृक्षामापीतयन्पीतान्कुर्वन् । 'ककुभो वीणा-
प्रसवे रागभेदेऽर्जुनद्रुमे' इत्यनेकार्थः । अतिमुक्तकस्य माधवीलताया आमोदं परागं विकिरन्विक्षिपन् ।
किंशुका ब्रह्मपादपास्तेषां वनान्युद्दामयन्नुत्कटयन् । कामिनो जनास्तेषां मनांसि चेतांसि निरङ्कुशयनुच्छृङ्खलयन् ।
मानं गर्व निर्मूलयन्बुध्नत उत्पाटयन् । लजां त्रपामपमार्जयस्फोटयन् । कोपं क्रोधम् । अर्थात् कामिजम-
कृतम् । अपाकुर्वन्दूरीकुर्वन्नि कुर्वन् । अनुनयव्यवस्थां प्रणिपातमर्यादामैपनय चिराकुर्वन् । इंटेन बन चुम्बन
मास्यलेहनम्, आलिङ्गनमुपगूहनम्, रतिः संभोगः, एतासां स्थितिं मर्यादां व्यवस्थापयन्व्यषस्थ कुवैम् । मनर
ध्वजस्य कामस्य रक्तध्वजानिव किंशुकानि किंशुकपुष्पाण्यरुणवैजयन्त्य इव समुल्लासयन्प्रकाशयम् । महारजसमज-
मित्र सुवर्णमयमिव, रागमयमिवानुरागमयमिव मदनमयमिव कंदर्पमय मित्र, उन्मादमयमिव वित्तविष्ठषमयमिव,
प्रेममयमिव स्नेहमयमित्र, उत्सवमयमिव महोमैयमिव औत्सुक्यमयमिव रणरणकमयमिव एवंविधं सकल
मेव समग्रमेव जीवलोकं विष्टपं जनयन्विदधत् । किसलयिताः संजात किसलयाः सकलाः समग्राः कान्तारकान•
नोपवनतरवो येन सः । तत्र कान्तारं शून्याटवी काननं निर्मानुषं वनमुपवनं नगरसमीपवर्तिवनम् । उत्फुल्लाः
प्रफुल्ला ये चूतद्रुमा आम्रवृक्षास्तेषामामोदः परिमलस्तेन वासितं सुरभीकृतं दशदिशामन्तरं विचालं येन सः ।
मधुनो यो मदस्तेन मधुरो मिष्टो यः कोकिलालापस्तेन दुःखिता अध्वगजनाः पान्थजनास्तेषां श्रुतिः श्रवणं
"
टिप्प० - 1 कामानलस्य । 2 भ्रष्टः पाठः । 'विकसितमुकुलमञ्जरीभरेण' इत्येव । 3 वसन्ते हि
मानशैथिल्ये सति अनुनय ( मानमोचन ) व्यवस्था क्रियते, न त्वपनीयते । अत एव – 'उपनयननय-
व्यवस्थाम् ( अविनीतचेष्टाम् ) ' इति पाठः । 4 उत्सववाचको 'मह' शब्द एव दृष्टः । 5 दुःखिता
अध्वगजनानां कर्णा यत्र ।
.
पाठा० - १ तत्क्षणमेव २ प्रलम्बान् ३ स्तबकयन्. ४ विकसित ५ आनम्रयन्; आनमयन्. ६ आपातयम्.
७ ककुभः ८ उपनयन्. ९ उपस्थापयन्; आस्थापयन् १० दृढ ११ रक्तध्वजांशुकानि; रक्तांशुकानि, १२ रति-
मयमिवोत्सवमयमिव दानमयमिव प्रेममयमित्र कलिमयमिवौत्सुक्य १३ मधुकर. १४ उल्लाप.