कादम्बरी /733
This page has not been fully proofread.
७००
कादम्बरी ।
[ कथायाम्-
काननेन, मुषितषचनावकाशेनापि वैशम्पायनेक्रोशनपरेण, अनवरतमा चरणाद्विकीर्णचन्द-
नचर्चेन, चरणतलनिवेशितार्द्रारविन्दिनीदलेन, करार्पित कर्पूरक्षोददन्तुरतुषारखण्डेन, हृदय-
विनिहित हि मार्द्रहारदण्डेन, कपोलतलस्थापित स्फैटिकमणिदर्पणेन, ललाटतटघंटित चन्द्रमणिना,
अंसदेशावस्थापित मृणालनालेन, कदलीदलव्यजनवाहिना, आनर्तिततालवृन्तेन, जलार्द्रानिल-
संचारिणा, कुसुमतल्पकल्पनाकुलेन, धारागृहजलयत्र प्रवर्तनाहृतार्तिना, मणिकुट्टिमक्षालनाप्र-
हस्तेनं च संजल किञ्जकजलजोपचारप्रकरसंभ्रान्तेन च शिशिरभूगृहाभ्यन्तरप्रत्यवेक्षण
चोद्यानदीर्घिकातटलतागहनमण्डपसेकेंतापहारिणा च मलयजरसचन्द्रार्द्रजलचन्द्राश्रयावधा-
नदानोद्यतेन चाप्तपरिजनेनोपचर्य माणस्यापि काष्ठीभूतदेहस्य हिक्षमो झटित्येवारुरोह परां कोटिं
कामानलः । राज्ञ एव तुल्यावस्थस्य महाश्वेतोत्कण्ठया पुण्डरीकात्मनो वैशम्पायनस्य च ।
,
प्युच्छुष्क माननं मुखं यस्य स तेन । मुषितो गृहीतो वचनस्यावकाशोऽवगाहः प्रवेशस्थलं यस्यैवंभूतेनाप्याक्रो-
शनं तत्र परेणासक्तेनानवरतं निरन्तरमा चरणाच्चरणौ मर्यादीकृत्य विकीर्णा विक्षिप्ता चन्दनचर्चा मलयजपूजा
येन स तेन । चरणतले निवेशितानि स्थापितान्यार्द्राण्युन्नान्यरविन्दिनीनां दलानि कमलिनीनां पत्राणि येन स
तथा तेन । करे हस्तेऽर्पितः प्रदत्तो वितरितः कर्पूरक्षोदेन घनसारचूर्णेन दन्तुरो विषमोन्नतस्तुषारखण्डो हिम-
शकलं यस्य स तथा तेन । हृदये वक्षसि विनिहितः स्थापितो हिमेनार्दो हारदण्डो येन स तथा तेन । कपोलतले
स्थापितो विधृतः स्फटिकमणिदर्पणो येन स तथा तेन । ललाटतटेडलिकतटे घटितः संघट्टितश्चन्द्रमणिश्चन्द्र-
कान्तो येन स तथा तेन । अंसदेशे स्कन्धप्रदेशेऽवस्थापितं न्यस्तं मृणालनालं बिसनालं येन स तथा तेन ।
कदलीदलानां रम्भापत्राणां व्यजनं वहतीत्येवंशीलेनानर्तितो भ्रमं नीतस्तालवृन्तो येन स तथा तेन । जलेना-
म्भसा योऽनिलो वायुस्तं संचारयति प्रवर्तयतीत्येवंशीलः स तथा तेन । कुसुमैः पुष्पैर्या तल्पकल्पना शय्या-
विरचना तेनाकुलेन व्याकुलेन । धारागृहस्य जलयन्त्राणां प्रवर्तनात्प्रक्षरणादा ईषता दूरीकृतार्तिर्यस्य स तेन ।
मणिकुट्टिमस्य क्षालना धावनं तत्राग्रहस्तो यस्य स तेन । 'आयस्तेन' इति पाठ आयस्तेन खिन्नेनेत्यर्थः । सज-
लानि जलसहितानि किजल्कजलजानि केसरोपयुक्तकमलानि तेषामुपचारः प्रकार उपचरणं तेन संभ्रान्तेन
मूढेन । शिशिरं शीतलं यद्भूगृहं भूमिस्थं सदनं तस्य अभ्यन्तरं मध्यं तस्य प्रत्यवेक्षणं गवेषणं तत्र दक्षेण तु -
रेण । उद्यानस्य दीर्घिका वापी तस्यास्तटं तीरं तस्य लतागहनमण्डपो जनाश्रयस्तत्र यः सेकः सिञ्चनं तेन ताप-
मपहरतीत्येवंशीलः स्वभावः स तथा तेन । मलयजर सश्चन्दनद्रवश्चन्द्रः कर्पूर आईं जलं चन्द्रस्य शशाङ्कस्याश्रय
आश्रयण मे तैरवधानदानं समाधिदानं तत्रोद्यतेनोद्युक्तेन । 'अवधानसमाधानप्रणिधानानि तु समाधौ स्युः' इति
हैमः । आप्तो विश्वस्तो यः परिजनः परिच्छदस्तेनोपचर्यमाणस्योपचारविषयी क्रियमाणस्यापि काष्टीभूतदेहस्य दारु-
सादृश्यमापन्नशरीरस्य दाहे क्षमः समर्थः कामानलो मदनवह्निः क्षणेन परां कोटिं झटित्येव तत्कालमेवारुरो-
हारूढवान् । राज्ञ एव तुल्यावस्थस्य सदृशावस्थस्य महाश्वेताया उत्कण्ठयोत्कलिकया पुण्डरीकात्मनो वैशम्पाय-
नस्य च । मदनानलः परां कोटिमारुरोहेत्यत्रापि संयोज्यम् । तृतीयान्तानि सर्वाण्याप्त परिजनस्य विशेषणानि ।
टिप्प० - 1 वैशम्पायनस्य आक्रोशस्तिरस्कारस्तत्र तत्परेण, शुकरूपेण तेनैवागत्य कथाकीर्तने कृते
अस्येयं दशा जातेति । 2 धन्या बुद्धिः ! मृतस्य तापदूरीकरणे का शक्तिः ? धारागृहात जलयन्त्रप्रवर्तन-
यापि आाहता ( समन्ततः प्रवर्तिता ) आार्तिर्येन, इत्यर्थः ।
पाठा० - १ दुःखित. २ क्रोशपरेण. ३ वितीर्ण ४ विनिहितार्द्र ५ स्फाटिक स्फुटित; स्फाटिक. ६ मृणालेन.
७ सकुसुमतस्प. ८ आइत; आहित; अकृत ९ आयस्तेन. १० सजलपङ्कजकिअल्ककह्लारप्रकरप्रचारणसंभ्रान्तेन,
११ अन्धकारशिशिर. १२ संतापापहारिणा; संतापकारिणा १३ मलयजरसचन्द्रार्द्रजलार्द्रचन्द्राश्रयः मलयजजलाई
चन्द्राश्रय. १४ दाहहेतुः
•
413