कादम्बरी /732
This page has not been fully proofread.
शुकस्य राज्ञश्च शरीरत्यागः ]
उत्तरभागः ।
६९९
एवं च विहतसर्वबाह्यप्रतिक्रियस्य हृदयेऽप्यसुखायमानसकलान्यविनोदस्य तामेवाभिध्यायत-
तामेवोत्प्रेक्षमाणस्य तामेवा भिलषतस्तामेव पश्यतस्ता मेवालपतस्ता मेवा लिङ्ग तस्तया सह ति-
gतस्तां प्रकोपयतस्तामनुनयतस्तस्याः पादयोः पततस्तया सह केलिं कुर्वतस्तां रममाणस्य मु
क्तसर्वान्यक्रियस्य दिवाप्यनुन्मीलितलोचनस्य रात्रावप्यनुपजात निद्रस्य सुहृज्जनमप्यैसंभाष-
यतः कार्योपगतानध्यजानतो गुरुंजनमध्यनमस्यतो धर्मक्रियामध्यकुर्वाणस्य सुखादध्यन-
र्थिनो दुःखादध्यनुद्विजमानस्य मरणादध्यबिभ्यतो गुरुभ्योऽप्यपेतलजस्यात्मन्यपि विगलित-
स्नेहस्य किं बहुना कादम्बरी समागमेऽप्यनुद्यमस्य केवलमस्य मुहुर्मुहुर्मूच्छपेगमच्छलेन जी-
।वितोत्सर्गयोग्यामिष कुर्वतो विहस्तेनापि प्रतिपन्नविविधोपकरणेन, गलितनयैनपयसाप्युच्छु-
।
ण्यम्' इत्यन्ये । मणिवेदिकायाः कुट्टिमानि बद्धभूमयो नितम्बेनारोहेण । एवं चेति । एवममुना प्रकारेण विहता
। निराकृता सर्वबाह्या बहिर्भूता प्रतिक्रिया प्रतीकारो यस्य स तस्य । पुनः कीदृशस्य । राज्ञो हृदयेऽपि चित्तेऽप्य-
सुखायमानो दुःखवदाचरमाणः सकल: समग्रोऽम्यविनोदोऽन्यक्रीडा यस्य स तस्य । तां कादम्बरीमेवाभिध्या-
यतश्चिन्तयतः । तामेवोत्प्रेक्षमाणस्योत्प्रेक्षा विषयी क्रियमाणस्योत्प्राबल्येन विलोकमानस्य । तामेवाभिलषतोऽभि-
वाञ्छतः स्पृहयतः । तामेव पश्यतो विलोकयतः । तामेबालपतः संभाषणं कुर्वतस्ता मेवालापं कुर्वतः । तामेवा -
। लिङ्गतः परिष्वजत आलिङ्गनं कुर्वतः । तया गन्धर्वराजपुत्र्या सह तिष्ठतः स्थितिं कुर्वतः । तो प्रकोपयतो
रोषयतः । तामनुनयतः प्रसन्नीकुर्वतः । तस्या गन्धर्वपुत्र्याः पादयोः क्रमयोब्बरणयोः पततः पतनं विदधतः ।
तया सह केलिं रतिक्रीडां कामकेलिं प्रेमक्रीडां कुर्वतो विदधतः । तां रममाणस्य क्रीडां कुर्वतः । मुक्तास्त्यता-
स्त्याजिताः सर्वाः समग्रा अन्यक्रिया इतरव्यापारा मेन स तस्य मुक्तसर्वान्यक्रियस्य । दिवाणि वासरेऽपि दिव-
सेऽप्यनुन्मीलिते मुद्रिते लोचने यस्य स तथा तस्त्र । रात्रावपि मिशायामपि यामिन्यामध्यनुपजाताऽप्राप्ता नागता
निद्रा प्रमीला यस्य स तथा तस्य । सुहृज्जनमपि मित्रजनमपि वल्लभजनमप्यसंभाषयतोऽनालापयतः । कार्यार्थ -
मुपगतं प्राप्तमप्यजानतोऽज्ञातवतः । गुरुजनमपि पूज्यजनमपि वृद्धजनमध्यनमस्यतो नमस्कारमकुर्वतः । धर्म-
क्रियामपि सुकृतकृत्यान्यपि पुण्यकृत्यान्यप्यकुर्वाणस्माविदधानस्य । सुखादपि सौख्यादप्यन र्थिनोऽनभिलाषुकस्य ।
दुःखादपि कृच्छ्रादपि कष्टादप्यनुद्विजमानस्यानुद्वेगं प्राप्यमाणस्य । मरणादपि मृत्योरप्यबिभ्यतो भयमकुर्वतः ।
गुरुभ्योऽपि धर्मोपदेशकेभ्योऽप्यपेतलज्जस्य विगतन्त्रपस्य व्यक्तलज्जस्य । आत्मन्यपि स्वस्मिन्नपि विगलितो गतः
नेहो हार्द यस्य स तथा तस्य । किं बहुना कथनेन । कादम्बरीसमागमेऽप्यनुद्यमस्यानुद्यतस्य गतोद्यमस्य केव-
लस्य राज्ञो मुहुर्मुहुर्वारंवार मूर्च्छाया मोहस्योपगमच्छलेनागमन मिषेण जीवितस्योत्सर्गस्यास्तस्य योग्या-
मिव कुंर्वतो विहस्तेनापि व्याकुलेनापि प्रतिपन्नमङ्गीकृतं विविधमुपकरणं तन्त्रं येन स तेन । अत्रापिशब्दो
विरोधालंकृतिद्योतनार्थः । यो विहस्तो भवति स प्रतिपन्नोपकरणो न स्यादिति विरोधः । तत्परिहारस्तु
विहस्तो व्याकुल इत्यर्थात् । 'विहस्तव्याकुलो व्यग्रे' इति हैमः । गलितं त्रस्तं नयनपयो नेत्रजलं यस्यैवंभूतेना-
टिप्प० - 1 व्यब्लोपे पञ्चमी । सुखजनकं प्राध्यापि अनर्थिनः अर्थमभिलाषं न वहतः, इत्यर्थः ।
2 जीवितोत्सर्गयोग्यां कां कुर्वतः १ किमिदमसंबद्धमालपसि रे ? अस्तु. 'मुहुर्मूछेपगमनच्छलेन जीव-
तोत्सर्गयोग्यामिव तनुं कुर्वतः' इति पाठः । अस्य बाह्यस्तापप्रतीकारो विहतोभवत्, तथा आन्तरिक
श्चापि लज्जा- नमनादिको व्यापारी निवृत्तः । किं बहुना, कादम्बरीप्रात्युद्यमोपि विगतः । ततश्च शून्यात्म-
कस्यास्य तनुः त्यागयोग्या जातेत्यर्थः । अत एव विहस्तेत्यादिविशेषितेन आप्तपरिजनेन उपचर्यमाण-
स्यापि देहः काष्ठमयो जातः, यस्य हि कामानलो दाहहेतुर्बभूव, कथाशेषतां जगामेति सर्वस्याशयः ।
पाठा० -१ उत्प्रेक्ष्यमाणस्य २ लिखत: ३ तामेव लपत: ; तामालपत: ४ असंभाषितः ५ कार्यापगतमपि,
६ गुरून्. ७ अस्नेहस्य. ८ एव० ९ उपगमन १० इव तनुम् ११ सलिलेन.