2023-10-30 14:44:20 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथांयाम्-
युगलमश्रुजलमुत्सर्ज । [^१]पाण्डुतां च वे[^२]वदनलावण्य- मयासीत् । तद्धनुर्गुणध्वानाकर्णनोद्वे जित-
मिव हृदयवेदनाकूणितात्रेत- त्रिभागं नयनयुगलमभवत् । अन्तर्व्ज्वलिष्यतो मदनदहनस्य धूमोपह-
तमिव वेपमानमधरकिसलयं शोषमगात् । तैत्ताप[^३]तत्ताप- विरसमाननान्निष्पीडितं सरागं हृदयमिव
ताम्बूलमपतत् । आर्द्रस्य [^४]दारुण इव दह्यमानस्याङ्गेभ्यो निरगमत्स्वेदः । मदन
शरकीलितानीव
तावतैव क्षणेनाङ्गानि परवशान्यजायन्त । तथा च कादम्बरी पुरस्कृत्य [^५]कुसुमधन्वनायास्यमानस्य तदवयव-
नस्य तदवयंव
रूपशोभाविनिर्जितानि तापापहरणक्षमाण्यपि तस्या[^६]तस्या- किंचित्कराण्यभवन् । तथा-
हि । कमलकिसलयानि [^७]पाणिपादेन, कुवलयदलस्रजो दृष्ट्या, मणिदर्पणाः कपोलेन, मृणा-
लानि बाहुलतिया, शशाङ्कर श्मयो नखमयूखैः, घनसारधूलि: स्मितप्रभया, मुक्तादामानि
दशन किरणैः, अमृतकरबिम्बं मुखेन, ज्योत्स्ना लावण्येन, [^८]मणिवेदिकाकुट्टिमानि नितम्बेन ।
 
६९८
 

 
[ टि ]--
नेत्रयुग्ममश्रुजलं नेत्रपानीयमुत्ससर्जोत्प्राबल्येन तत्याज । वदनलावण्यं च पाण्डुतामीषच्छुक्तो चायासीद-
गात् । तस्य कामस्य धनुश्चापं तस्य गुणः शिञ्जिनी तस्य ध्वानः शब्दस्तस्या- कर्णनं श्रवणं तेनोद्वेजितमिवोद्वेगं
प्रापितमिव हृदयवेदनया कूणित ईषद्वक्रीकृत स्त्रिभागस्तृतीयांशो यस्य तदेवंभूतं नयनयुगलं नेत्रयुग्मम-
भवद्भूव । अन्तर्मध्ये ज्वलिष्यतः प्रज्वलिष्यतो मदनदहनस्य कामवद्वेह्नेर्धूमोपहतमिव दहन केतनोपहतमिव वेप-

मानं कम्पमानमधर
किसलयं दन्तच्छदपल्लवं शोषमगाजगाम । तस्य कामस्य तापस्तन तेन [^1]विरसैमानं विरसतां
भजमान- मतिनिष्पीडितं सरागं हृदयमिव ताम्बूलमपतदस्रंसत । आर्द्रस्योन्नस्य दारुण इव काष्ठस्येव दह्यमानस्य
ज्वलमानस्याङ्गेभ्यो हस्तपादादिभ्यः खेदो घर्मजलं निरगमन्निरगात् । मदनशरेण कामबाणेन कीलितानीव
यति
यन्त्रितानीव तावतैव क्षणेन स्वरुपल्प- कालेनाङ्गानि परायत्तान्यजायन्त समपद्यन्त । तथा चेति । कादम्बरी पुर-
स्कृत्याग्रे कृत्वा कुसुमधन्वना कामेनायास्यमानस्य पीड्यमानस्य । [^2]तस्यावयवा हस्तपादादयस्तेषां रूपं सौन्दर्यं तस्य
शोभा श्रीस्तया विनिर्जितान्यभिभूतान्यत एव तापस्य तप्तेरपहरणे दूरीकरणे क्षमाण्यपि समर्थान्यपि निर्जितत्वा-

त्
तस्याकिंचित्कराणि निष्प्रयोजनान्यभवन्नासन् । तदेव दर्शयति - तथेति । कमलकिसलयानि पद्मनवपत्राणि ।
पाणी च पादौ च पाणिपादम्। 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' इत्येकवद्भावः । तेन निर्जितानीति सर्वत्र संबन्धः।
कुवलयानामुत्पलानां दलानि पत्राणि तेषां स्रजो मात्रला दृष्ट्या दृशा । मणिदर्पणा रत्नादर्शाः कपोलेन गल्लात्परप्रदे-
शेन । मृणालानि तन्तुलानि बाहुलतिकया भुजवल्ल्या। शशाङ्कर श्मयश्चन्द्रकिरणा नखमयूखैः पुनर्भवरश्मिभिः ।
घनसारधूलिः कर्पूररजः स्मितप्रभया हास्य- कान्त्या । मुक्कातादामानि मुक्ताकलापा दशन किरणैर्दन्तरश्मिभिः । अमृ-
तकरबिम्बं चन्द्रमण्डलं मुखेनास्येन । ज्योत्स्ना चन्द्रिका लावण्येन कान्तिविशेषेण । 'मुक्ताफलस्य छायाया स्तरस्तरलत्व-
लत्व
मिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्य मिहोच्यते ॥' इत्येके । 'सद्गमन सन्निरीक्षणसज्जल्पन मिति वदन्ति लाव-
Gy
 
टिप्प० -

 
[^
1]F. तापेन विरसं शुष्कं निष्पीडितं व्यथितं र्वितं च सरागं सलोहितवर्णं सानुरागं च
हृदयमिव ताम्बूलम् भाननात् अपतात् । इत्यर्थः । टीका तु प्रलापपरा ।
[^
2]F. टीकाकारः स्वयं भ्रान्तो
भ्रामयत्यन्यान् । अयमर्थ :- कुसुमधन्वना आयास्यमानस्य तस्य (शुद्रक रूपधारिणश्चन्द्रा- पीडस्य),
तदवयवशोभाविनिर्जितानि ( तस्याः कादम्बर्याः अवयवानां रूपशोभया विनिर्जितानि ) तापापहरण-
क्षमाणि
( कमल - मृणालादीनि वस्तूनि ) अकिञ्चित्कराणि व्यर्थान्यभवन् । निर्जितो हि पदार्थो निष्प्रयो-
जनो भवति । तथा च निःसारै- रेभिस्तापप्रतिक्रियारहितः सोयं दशमीं दशामगमदित्यर्थः । केन किं
निर्जितमित्याह - पाणिपादेन कमलकिसलयानि । इत्यादि ।
 
पाठा-
-

 
[^
]G. आपांण्डुताम्.
[^
]G,. यौवनलावण्यम्
[^
]G. तत्तापविरसमानमतिनिः पीडितम्; तत्तापविरसमा ननिःपीडितम्; तत्तापविरसमान-
निःपीडितम्.
[^
]G. दारुणो द्रव द्रव.
[^
]G. कुसुमधन्वनः
[^
]G. अस्य
[^
]G. पाणिना पादेन,
[^
]G. मणिकुट्टिमवेदिका.