कादम्बरी /731
This page has not been fully proofread.
कादम्बरी ।
[ कथांयाम्-
युगलमश्रुजलमुत्सलर्ज । पाण्डुतां च वेदनलावण्यमयासीत् । तद्धनुर्गुणध्वानाकर्णनोद्वे जित-
मिव हृदयवेदनाकूणितात्रेभागं नयनयुगलमभवत् । अन्तर्व्वलिष्यतो मदनदहनस्य धूमोपह-
तमिव वेपमानमधरकिसलयं शोषमगात् । तैत्तापविरसमाननान्निष्पीडितं सरागं हृदयमिव
ताम्बूलमपतत् । आर्द्रस्य दारुण इव दह्यमानस्याङ्गेभ्यो निरगमत्स्वेदः । मदनशरकीलितानीव
तावतैव क्षणेनाङ्गानि परवशान्यजायत । तथा च कादम्बरी पुरस्कृत्य कुसुमधन्वनायास्यमा-
नस्य तदवयंवरूपशोभाविनिर्जितानि तापापहरणक्षमाण्यपि तस्याकिंचित्कराण्यभवन् । तथा-
हि । कमलकिसलयानि पाणिपादेन, कुवलयदलस्रजो दृष्ट्या, मणिदर्पणाः कपोलेन, मृणा-
लानि बाहुलतिया, शशाङ्कर श्मयो नखमयूखैः, घनसारधूलि: स्मितप्रभया, मुक्तादामानि
दशन किरणैः, अमृतकरबिम्बं मुखेन, ज्योत्स्ना लावण्येन, मणिवेदिकाकुट्टिमानि नितम्बेन ।
६९८
नेत्रयुग्ममश्रुजलं नेत्रपानीयमुत्ससर्जोत्प्राबल्येन तत्याज । वदनलावण्यं च पाण्डुतामीषच्छुक्कतो चायासीद-
गात् । तस्य कामस्य धनुश्चापं तस्य गुणः शिञ्जिनी तस्य ध्वानः शब्दस्तस्याकर्णनं श्रवणं तेनोद्वेजितमिवोद्वेगं
प्रापितमिव हृदयवेदनया कूणित ईषद्वक्रीकृत स्त्रिभागस्तृतीयांशो यस्य तदेवंभूतं नयनयुगलं नेत्रयुग्मम-
भवद्वभूव । अन्तर्मध्ये ज्वलिष्यतः प्रज्वलिष्यतो मदनदहनस्य कामवद्वेधूमोपहतमिव दहन केतनोपहतमिव वेप-
मानं कम्पमानमधर
किसलयं दन्तच्छदपल्लवं शोषमगाजगाम । तस्य कामस्य तापस्तन विरसैमानं विरसतां
भजमानमतिनिष्पीडितं सरागं हृदयमिव ताम्बूलमपतदस्रंसत । आर्द्रस्योन्नस्य दारुण इव काष्ठस्येव दह्यमानस्य
ज्वलमानस्याङ्गेभ्यो हस्तपादादिभ्यः खेदो घर्मजलं निरगमन्निरगात् । मदनशरेण कामबाणेन कीलितानीव
यति तावतैव क्षणेन स्वरुपकालेनाङ्गानि परायत्तान्यजायन्त समपद्यन्त । तथा चेति । कादम्बरी पुर-
स्कृत्या कृत्वा कुसुमधन्वना कामेनायास्यमानस्य पीड्यमानस्य । तस्यावयवा हस्तपादादयस्तेषां रूपं सौन्दर्यं तस्य
शोभा श्रीस्तया विनिर्जितान्यभिभूतान्यत एव तापस्य तप्तेरपहरणे दूरीकरणे क्षमाण्यपि समर्थान्यपि निर्जितत्वा-
तस्याकिंचित्कराणि निष्प्रयोजनान्यभवन्नासन् । तदेव दर्शयति - तथेति । कमलकिसलयानि पद्मनवपत्राणि ।
पाणी च पादौ च पाणिपादम्। 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' इत्येकवद्भावः । तेन निर्जितानीति सर्वत्र संबन्धः।
कुवलयानामुत्पलानां दलानि पत्राणि तेषां सजो मात्र दृष्टया दृशा । मणिदर्पणा रत्नादर्शाः कपोलेन गल्लात्परप्रदे-
शेन । मृणालानि तन्तुलानि बाहुलतिकया भुजवलया। शशाङ्कर श्मयश्चन्द्रकिरणा नखमयूखैः पुनर्भवरश्मिभिः ।
घनसारधूलिः कर्पूररजः स्मितप्रभया हास्यकान्त्या । मुक्कादामानि मुक्ताकलापा दशन किरणैर्दन्तरश्मिभिः । अमृ-
तकरबिम्बं चन्द्रमण्डलं मुखेनास्येन । ज्योत्स्ना चन्द्रिका लावण्येन कान्तिविशेषेण । 'मुक्ताफलस्य छायाया स्तर-
लत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्य मिहोच्यते ॥' इत्येके । 'सद्गमन सन्निरीक्षणसज्जल्पन मिति वदन्ति लाव-
Gy
टिप्प० - 1 तापेन विरसं शुष्कं निष्पीडितं व्यथितं वर्वितं च सरागं सलोहितवर्ण सानुरागं च
हृदयमिव ताम्बूलम् भाननात् अपतात् । इत्यर्थः । टीका तु प्रलापपरा । 2 टीकाकारः स्वयं भ्रान्तो
भ्रामयत्यन्यान् । अयमर्थ :- कुसुमधन्वना आयास्यमानस्य तस्य (शुद्रक रूपधारिणश्चन्द्रापीडस्य),
तदवयवशोभाविनिर्जितानि ( तस्याः कादम्बर्याः अवयवानां रूपशोभया विनिर्जितानि ) तापापहरण-
क्षमाणि ( कमल - मृणालादीनि वस्तूनि ) अकिञ्चित्कराणि व्यर्थान्यभवन् । निर्जितो हि पदार्थो निष्प्रयो-
जनो भवति । तथा च निःसारैरेभिस्तापप्रतिक्रियारहितः सोयं दशम दशामगमदित्यर्थः । केन किं
निर्जितमित्याह - पाणिपादेन कमलकिसलयानि । इत्यादि ।
पाठा-
-१ आपांण्डताम्. २ यौवनलावण्यम् ३ तत्तापविरसमानमतिनिः पीडितम्; तत्तापविरसमा ननिःपीडि-
तम्. ४ दारुणो द्रव द्रव. ५ कुसुमधन्वनः ६ अस्य ७ पाणिना पादेन, ८ मणिकुट्टिमवेदिका.