कादम्बरी /730
This page has been fully proofread once and needs a second look.
जन्मजराव्याधिमरणादिदुःख [^१]बहुले तनू परित्यज्य यथेष्टजन- समागमसुखम्' इत्यभिदधानैव सा [^२]झटिति रणद्भूषणारव- [^३]बधिरितान्तरिक्षमुत्फुल्ललोकलोचनोद्वीक्षिता क्षितेर्गगन- मुदपतत् ।
अथ राज्ञस्तद्वच [^४]नमाकर्ण्य संस्मृतजन्मान्तरस्य 'सखे वैशम्पायनाख्यपुण्डरीक, दिष्ठ्या तुल्यकालक्षयमेवावयोः शापावसानं संजातम्' इत्यभिधत एवाकर्णाकृष्टकार्मुको मकर- केतुरग्रतः परमास्त्रं कादम्बरीं कृत्वा जीवितापहरणाय प्रतिरोधक इव निरुद्धसर्वांशोऽ [^५]न्तरा पदं चकार । तत्पदाक्रान्ति निर्वा- सितमिव कादम्बरीशरणमुपजगा [^६]मान्तःकरणम् । तन्मार्गणाभिहतिमीता इव देहमुत्सृज्य निर्जग्मुरजडाः श्वासमरुतः । तद्बाणपक्षवाताहतमिवाकम्पत तरलं शरीरम् । [^७]तच्छरशस्य- भरा लसोत्कण्टकिनी तनुरजायत । तद्विशिखरजोरूषितमिव नयन-
[ टि ]-- नावपि सममेव समकालमेव जन्मोत्पत्तिर्जरा विलस्रसा व्याधिरामयो मरणं मृत्युरेवंभूतं दुःखं तेन बहुले हे[^1]दृढेऽस्मिं -
ल्लोके तनू शरीरे परित्यज्यानुभवतां यथेष्टजनानां समागमो मेलापकस्तस्मात्तस्य वा सुखं सातम् । इत्यभिदधा-
नेतिब्रुवाणैव सा चाण्डालदारिका झटिति शीघ्रं रणन्ति यानि भूषणान्याभरणानि तेषां रवः शब्दस्तेन बधिरी-
कृतमन्तरिक्षमाकाशं यथा स्यात्तथोत्फुल्ला नि विकसितानि यानि लोकलोचनानि जननयनानि तैरुत्प्राबल्येन वीक्षि-
तावलोकिता निरीक्षिता क्षितेः पृथिव्याः सकाशाद्वगगनमाकाशमुदपतदुत्पतिता बभूव ।
अथेति । तदनन्तरं तद्वचनमाकर्ण्य श्रुत्वा संस्मृतं स्मृतिगोचरीभूतं जन्मान्तरं भवान्तरं यस्य स तथा
तस्य । हे सखे वयस्य हे भ्रातः, वैशम्पायन इत्याख्ययेतिनाम्ना पुण्डरीक, दिष्ट्या भाग्येन पुण्येनावयोः पुण्ड-
रीकचन्द्रमसोः तुल्यकालक्षयमेव समकालमेव युगपदेवैककालमेव शापावसानं संजातं शापमुक्तिः संजाते-
त्यभिधत एवेति कथयत एव राज्ञः शूद्रकस्य मकरकेतुः कामः कन्दर्पोऽन्तरा मध्ये । अर्था हृदयस्येति बोध्यम् ।
पदं निवासं चकार निर्ममे । कीदृशो मकरकेतुः । आकर्ण कर्णणं कर्णं यावदाकृष्टं कर्षितं कार्मुकं धनुर्येन सोऽप्रतः पुरः
परमास्त्रमत्युत्कृष्टशस्त्रं कादम्बरीं कृत्वा विधाय शापावसानत्वाद्यजीवितस्यापहरणं ग्रहणं तस्मै प्रतिरो [^2]धकःक इव
प्रतिबन्धक इव निरुद्धा आवृताः सर्वे अंशा अवयवा येन सः । अथवा संरुद्धा आशा दश दिशो येनेत्यर्थः ।
मकरकेतुरन्तः पदं चकारेत्यन्वयस्तु प्रागेवोक्तः । तस्य कामस्य पदं स्थानं तेनाकान्तिराक्रमणं तेन निर्वासित -
मित्र बहिःकृतमि- वान्तःकरणं मनः कादै [^3]दम्बर्याः शरणं त्राणमुपजगामोपागमत् । 'शरणं गृहरक्षित्रोः' इत्यमरः ।
तस्य कामस्य मार्गणास्तेषाम भिइहति रुपघातस्तस्या भीताः त्रस्ता इव देहं शरीरमुत्सृज्य त्यक्त्वाऽजडाः सचेतनाः
श्वासमरुतः श्वसितवायवो निर्जग्मुर्निर्गतवन्तः । तस्य कंदर्पस्य बाणाः शरास्तेषां पक्षवातास्त तैराहत मिव ताडित-
मित्रव तरलं चञ्चलं शरीरमकम्पतावेपत । तस्य शरस्य बाणस्य शल्यं तस्य भरस्तेना [^4]लसेव मन्थरेवोत्कण्ट किनी
रोमाञ्चिनी तनुरजायताभूत् । तस्य कामस्य विशिखा बाणास्तेषां रजो धूलिस्तेन रुषितमिव रुक्षमिव नयनयुगलं
टिप्प० - [^1]F. हन्त घोरमज्ञानम् । जन्म-जरादिदुःखं बहुलम् ( अधिकम् ) ययो: ईहदृश्यौ नरतनू परित्यज्य, इयौ नरतनू परि-
त्यज्य, इत्यर्थः ।
[^2]F. प्रतिरोधकः मार्गमवरुध्य स्थितो दस्युरिव निरुद्धाः सर्वा आशा: दिशो जीवनप्रत्या-
शाश्च येन ईडदृशो मकरकेतु रित्युभय- पक्षेऽर्थः । टीका तु भ्रमस्य ।
[^3]F. ' कादम्बरीं शरणमुपजगाम करणम्' इत्येव
पाठः । करणं शरीरम् इन्द्रियं वा, कादम्बरीं शरणम् (रक्षकत्वेन) उपजगाम इत्यर्थः । 'करणं साधक.
तमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमरः ।
[^4]F. शल्याssऽऽघाते सति कस्यचिदालस्यं भवति ? अत एव - 'तच्छरश-
ल्यनिकर की लितेवोत्कण्ट
किनी तनुरजायत' इत्येव पाठः । तस्य शराणां शल्यनिकरैः ( फलक निचयैः )
कीलितेव
( संजातकील केव, शङ्कुनिचितेव) उत्कण्टकिनी रोमाञ्चवतीत्यर्थः ।
।
[^१]G.
पाठा० -१ बहुललां तनुम् .
[^२]G. झगिति; झणिति .
[^३]G. रोधत.
[^४]G. आकर्णयतस्तदैवाकृष्ट कार्मुकः .
[^५]G. अन्तः पदम्
.
[^६]G. करणम् .
[^७]G. तच्छल्य .
[^८]G. भरालसेवोत्कण्टकिनी; निकरकीलितेवोत्कण्टकिनी.
८८ का०
अथ राज्ञस्तद्वच [^४]नमाकर्ण्य संस्मृतजन्मान्तरस्य 'सखे वैशम्पायनाख्यपुण्डरीक, दिष्ठ्या तुल्यकालक्षयमेवावयोः शापावसानं संजातम्' इत्यभिधत एवाकर्णाकृष्टकार्मुको मकर- केतुरग्रतः परमास्त्रं कादम्बरीं कृत्वा जीवितापहरणाय प्रतिरोधक इव निरुद्धसर्वांशोऽ [^५]न्तरा पदं चकार । तत्पदाक्रान्ति निर्वा- सितमिव कादम्बरीशरणमुपजगा [^६]मान्तःकरणम् । तन्मार्गणाभिहतिमीता इव देहमुत्सृज्य निर्जग्मुरजडाः श्वासमरुतः । तद्बाणपक्षवाताहतमिवाकम्पत तरलं शरीरम् । [^७]तच्छरशस्य- भरा लसोत्कण्टकिनी तनुरजायत । तद्विशिखरजोरूषितमिव नयन-
[ टि ]-- नावपि सममेव समकालमेव जन्मोत्पत्तिर्जरा वि
अथेति । तदनन्तरं तद्वचनमाकर्ण्य श्रुत्वा संस्मृतं स्मृतिगोचरीभूतं जन्मान्तरं भवान्तरं यस्य स तथा
त्यभिधत एवेति कथयत एव राज्ञः शूद्रकस्य मकरकेतुः कामः कन्दर्पोऽन्तरा मध्ये । अर्था हृदयस्येति बोध्यम् ।
त्यज्य, इ
[^2]F. प्रतिरोधकः मार्गमवरुध्य स्थितो दस्युरिव निरुद्धाः सर्वा आशा: दिशो जीवनप्रत्या
[^3]F. ' कादम्बरीं शरणमुपजगाम करणम्' इत्येव
[^4]F. शल्या
(
[^१]G.
पाठा० -१
[^२]G. झगिति; झणिति
[^३]G. रोधत.
[^४]G. आकर्णयतस्तदैवाकृष्ट
[^५]G. अन्तः पदम्
[^६]G. करणम्
[^७]G. तच्छल्य
[^८]G. भरालसेवोत्कण्टकिनी; निकरकीलितेवोत्कण्टकिनी.