This page has not been fully proofread.

राज्ञो जन्मान्तरमरणम् 1
 
उत्तरभांगेः ।
 
६९७
 
जन्मजराव्याधिमरणादि दुःखबहुले तनू परित्यज्य यथेष्टजनसमागमसुखम्' इत्यभिदधानैव
सा झटिति रणद्भूषणारववैधिरितान्तरिक्षमुत्फुल्ललोकलोचनोद्वीक्षिता क्षितेर्गगनमुदपतत् ।
 
अथ राज्ञस्तद्वचर्नेमाकर्ण्य संस्मृतजन्मान्तरस्य 'सखे वैशम्पायनाख्यपुण्डरीक, दिध्या
तुल्यकालक्षयमेवावयोः शापावसानं संजातम्' इत्यभिधत एवाकर्णाकृष्टकार्मुको मकरकेतुर-
ग्रतः परमा] कादम्बरी कृत्वा जीवितापहरणाय प्रतिरोधक इव निरुद्धसर्वाशोऽन्तेरा पदं
चकार । तत्पदाक्रान्ति निर्वासितमिव कादम्बरीशरणमुपजगामान्तःकरणम् । तन्मार्गणाभि-
हतिमीता इव देहमुत्सृज्य निर्जग्मुरजडाः श्वासमरुतः । तद्बाणपक्षवाताहतमिवाकम्पत तरलं
शरीरम् । तँच्छरशस्यभरालसोत्कण्टकिनी तनुरजायत । तद्विशिखरजोरू पितमिव नयन-
नावपि सममेव समकालमेव जन्मोत्पत्तिर्जरा विलसा व्याधिरामयो मरणं मृत्युरेवंभूतं दुःखं तेन बहुले हेढेऽस्मिं -
ल्लोके तनू शरीरे परित्यज्यानुभवतां यथेष्टजनानां समागमो मेलापकस्तस्मात्तस्य वा सुखं सातम् । इत्यभिदधा-
नेतिब्रुवाणैव सा चाण्डालदारिका झटिति शीघ्रं रणन्ति यानि भूषणान्याभरणानि तेषां रवः शब्दस्तेन बधिरी-
कृतमन्तरिक्षमाकाशं यथा स्यात्तथोत्फुल्ला नि विकसितानि यानि लोकलोचनानि जननयनानि तैरुत्प्राबल्येन वीक्षि-
तावलोकिता निरीक्षिता क्षितेः पृथिव्याः सकाशाद्वगनमाकाशमुदपतदुत्पतिता बभूव ।
 
अथेति । तदनन्तरं तद्वचनमाकर्ण्य श्रुत्वा संस्मृतं स्मृतिगोचरीभूतं जन्मान्तरं भवान्तरं यस्य स तथा
तस्य । हे सखे वयस्य हे भ्रातः, वैशम्पायन इत्याख्ययेतिनाम्ना पुण्डरीक, दिष्ट्या भाग्येन पुण्येनावयोः पुण्ड-
रीकचन्द्रमसोः तुल्यकालक्षयमेव समकालमेव युगपदेवैककालमेव शापावसानं संजातं शापमुक्तिः संजाते-
त्यभिधत एवेति कथयत एव राज्ञः शूद्रकस्य मकरकेतुः कामः कन्दर्पोऽन्तरा मध्ये । अर्था हृदयस्येति बोध्यम् ।
पदं निवासं चकार निर्ममे। कीदृशो मकरकेतुः । आकर्ण कर्ण यावदाकृष्टं कर्षितं कार्मुकं धनुर्येन सोऽप्रतः पुरः
परमास्त्रमत्युत्कृष्टशस्त्रं कादम्बरीं कृत्वा विधाय शापावसानत्वाद्यजीवितस्यापहरणं ग्रहणं तस्मै प्रतिरोधकः इव
प्रतिबन्धक इव निरुद्धा आवृताः सर्वे अंशा अवयवा येन सः । अथवा संरुद्धा आशा दश दिशो येनेत्यर्थः ।
मकरकेतुरन्तः पदं चकारेत्यन्वयस्तु प्रागेवोक्तः । तस्य कामस्य पदं स्थानं तेनाकान्तिराक्रमणं तेन निर्वासित -
मित्र बहिःकृतमिवान्तःकरणं मनः कादैम्बर्याः शरणं त्राणमुपजगामोपागमत् । 'शरणं गृहरक्षित्रोः' इत्यमरः ।
तस्य कामस्य मार्गणास्तेषाम भिइति रुपघातस्तस्या भीताः त्रस्ता इव देहं शरीरमुत्सृज्य त्यक्त्वाऽजडाः सचेतनाः
श्वासमरुतः श्वसितवायवो निर्जग्मुर्निर्गतवन्तः । तस्य कंदर्पस्य बाणाः शरास्तेषां पक्षवातास्त राहत मिव ताडित-
मित्र तरलं चञ्चलं शरीरमकम्पतावेपत । तस्य शरस्य बाणस्य शल्यं तस्य भरस्तेनालसेव मन्थरेवोत्कण्ट किनी
रोमाञ्चिनी तनुरजायताभूत् । तस्य कामस्य विशिखा बाणास्तेषां रजो धूलिस्तेन रुषितमिव रुक्षमिव नयनयुगलं
 
टिप्प० - 1 हन्त घोरमज्ञानम् । जन्म-जरादिदुःखं बहुलम् ( अधिकम् ) ययो: ईहइयौ नरतनू परि-
त्यज्य, इत्यर्थः । 2 प्रतिरोधकः मार्गमवरुध्य स्थितो दस्युरिव निरुद्धाः सर्वा आशा: दिशो जीवनप्रत्या-
शाश्च येन ईडशो मकरकेतु रित्युभयपक्षेऽर्थः । टीका तु भ्रमस्य । 3 ' कादम्बरीं शरणमुपजगाम करणम्' इत्येव
पाठः । करणं शरीरम् इन्द्रियं वा, कादम्बरीं शरणम् (रक्षकत्वेन) उपजगाम इत्यर्थः । 'करणं साधक.
तमं क्षेत्रगात्रेन्द्रियेष्वपि इत्यमरः । 4 शल्याssघाते सति कस्यचिदालस्यं भवति ? अत एव - 'तच्छरश-
ल्यनिकर की लितेवोत्कण्ट
किनी तनुरजायत' इत्येव पाठः । तस्य शराणां शल्यनिकरैः ( फलक निचयैः )
कीलितेव ( संजातकील केव, शङ्कुनिचितेव) उत्कण्टकिनी रोमाञ्चवतीत्यर्थः ।
 
.
 
पाठा० -१ बहुल तनुम् २ झगिति; झणिति ३ रोधत. ४ आकर्णयतस्तदैवाकृष्ट कार्मुकः ५ अन्तः पदम्
६ करणम् ७ तच्छल्य ८ भरालसेवोत्कण्टकिनी; निकरकीलितेवोत्कण्टकिनी.
 
८८ का०