कादम्बरी /73
This page has not been fully proofread.
४०
कादम्बरी ।
[ कथामुखे-
वसंस्तरैरँतिकठोरना लिकेर केतकी करीरैब कुलपरिगतप्रान्तैस्ताम्बूलीलतावनद्वपूगखण्डमण्डितै-
र्वनलक्ष्मीवा संभव नैरिव विराजिता लतामण्डपैः, उन्मदमातङ्गकपोलस्थलगलितसलिलसिक्ते-
नेवानवरतमेलालतावनेन मद्गन्धिनान्धकारिता, नखमुखलभेभकुम्भमुक्ताफललुब्धै: शबर-
सेनापतिभिर भिहन्यमान केस रिशता, प्रेताधिपनगरीव सदासंनिहितमृत्युभीषणा महिषाधि
ष्ठिता च, समरोद्यतपताकिनीव बाणासनारोपितशिलीमुखा विमुक्तसिंहनादा च, कात्यायनीव
अचलितखङ्ग भीषणा रक्तचन्दनालंकृता च, कर्णीसुतकथेव संनिहितविपुलाचला शशोपगताच,
।
पान्थलोकै रचितो निर्मितो लवज्ञपलवानां लवङ्गवृक्ष विशेषकिसलयानां संस्तरः प्रस्तरो येषु तैः । अतीति । अति-
कठोरा अत्यन्तकठिना नालिकेरा लागलीवृक्षाः केतक्यः ऋकचच्छदाः करीराः केसरा बकुलाश्च तैः परिगतो व्याप्तः
प्रान्तोऽन्त्यप्रदेशो येषां ते तथा तैः । ताम्बूलीति । ताम्बूली नागवली सा चासौ लता चेति कर्मधारयः ।
तयावनद्धं बर्द्धं यत्पूगखण्डं ऋमुकवनं तेन मण्डितैः शोभितैः । कैरिव । वनेति । वनलक्ष्मीररण्यश्रीस्तस्या वासस्य
वसतेर्भवनानि गृहाणि तैरिव । उन्मदेति । उन्मदा मत्ता ये मातङ्गा गजास्तेषां कपोलस्थलानि करटप्रवेशास्तेभ्यो
गलितं च्युतं यत् सलिलं मदजलं तेन सित्तेनेव सिञ्चिते । अत एव मद्गन्धिना मदस्य गन्ध इव गन्धो यस्मि-
नेतादृशेन । अनवरतं निरन्तरमेलानां चन्द्रवालानां लता वल्लयस्तासां वनं काननं तेनाम्धकारिता श्यामीकृता ।
एलारजःसंबन्धाच्छ्यामतां प्रापितेत्यर्थः । नखेति । नखानां मुखान्यग्राणि तेषु लग्नान्यासक्तानि यामीभकुम्भ
मुक्ताफलानि गजमांसपिण्डरसोद्भवानि तेषु लुब्धैर्लोलुपैः शबराणां भिल्लानां सेनापतिभिः सैम्यनायकैरभिहन्यमानं
व्यापाद्यमानं केसरिणां नखरायुधानां शतं यस्यां सा तथा । प्रेतेति । प्रेताधिपो यमस्तस्य नगरीव संयमिनीव
सदा निरन्तरं सर्वदा संमिहितो निकटवर्ती मृत्युर्यमस्तेन भीषणा भयकारिणी । पक्षे सदा निकटस्थो यो मृत्युरज-
गरस्तेन भीषणा भयावहा । यद्वा । कारणे कार्योपचारान्मृत्युर्व्याघ्रादयस्तै भीषणेत्यर्थः । महिषेति । महिषैर्गव -
लैरधिष्ठिता व्याप्ता च । अथ च यमपुरीपक्षे यमस्य वाहनं महिषस्तेनाधिष्ठिता सहिता । समरेति । समरे
सङ्ग्राम उद्यता या पताकिनी सेना तद्वदिव । उभयोः साम्यमाह - बाणेति । बाणाख्ये वृक्षविशेष समारो
पिताः स्थापिताः शिलीमुखा भ्रमरा यया सा तथा । पक्षे बाणेषु शरेषु सम्यक्प्रकारेणारोपिताः शिलीमुखा
लौहखण्डा यस्यामिति विग्रहः । विमुक्तेति । विमुक्तस्त्यतः । अर्थात्केसरिभिः । सिंहनादः केसरिध्वनि-
र्यस्यां सा तथा । पक्षे सुभटैर्विहितः सिंहनाद इव नादो यस्यामिति विग्रहः । पुनः कीदृशी । कात्यायनी
सिंहयाना तद्वदिव । उभयोः साम्यमाह – प्रचलितेति । सेनाप्रकर्षेण प्रचलितो यः खङ्गो गण्डकस्तेन
भीषणा भयावहा । रक्तचन्दनं रक्ताङ्गं वृक्षविशेषस्तेनालंकृता च भूषिता च । पक्षे प्रचलितो यः खङ्गः
कौक्षेयकस्तेन भीषणा भयजनिका, रक्तमेव चन्दनं तेनालंकृता च । चर्चितेत्यर्थः । कर्णीसुतः कश्चित्क्षत्रि.
यविशेषः तस्य कथा वृत्तान्तस्तद्वदिव । उभयोस्तुल्यतामाह - संनिहितेति । संनिहितौ समीपवर्तिनौ
विपुलाचलौ विपुलाचलसंज्ञको सखायौ यस्यां सा तथा । शशस्तस्य मन्त्रिमुख्य स्तेनोपगता सहिता च ।
टिप्प० - 1 हिंस्रजन्तुद्वारा मरणं तेन भीषणेत्यर्थः । 2 बाणासनारोपितशिलीमुखा इत्येव पाट: ।
बाणासु नीलझिण्टीषु असनेषु पीतशालेषु (वृक्षेषु ) भारोपिताः कुसुमसौरभात् शिलीमुखा भ्रमरा गया,
इति भटवीपक्षेऽर्थः । पक्षे तु बाणासनेषु धनुःषु भारोपिताः शिलीमुखा बाणा यया हत्यर्थः । टीका-
गृहीतपाठे तु हठादाकर्ष एवार्थस्येति विमृशन्तु ।
पाठा० - १ स्रस्तरैः , २ नारिकेल, करिकेसर. ३ केतकीपरिगत ४ केसर ५ भुवनैः ६ विराजितमण्डपैः .
७ स्रवण; प्रस्रवण; सलिलप्रस्रवण ८ मदसलिल ९ निरन्तरमेला. १० सेनेव. ११ समारोपित; वाणासनारोपित.
१२ विविक्त.