कादम्बरी /729
This page has been fully proofread once and needs a second look.
राजा तु तच्छ्रुत्वा समुपजाताभ्यधिककुतूहलस्तदाह्वानाय पुरःस्थितां प्रतीहारी [^१]मादिदेश । [^२]नचिरादेव तयोपदिश्यमानमार्गा प्रविश्य सा, पुरस्तादूर्ध्वस्थितैव राजान [^३]मभिभवन्ती [^४]धाम्ना, [^५]प्रागल्भ्येन बभाषे- 'भुवनभूषण, रोहिणीपते, तारारमण, कादम्बरीलोचनानन्द, चन्द्र, सर्वस्त्वयाऽस्य दुर्मतेरात्मनश्च पूर्वजन्मवृत्तान्तः श्रुत एव । अत्रापि जन्मनि यथायं निषिद्धोऽपि पित्रा, कामरागान्धः पितुराज्ञामुल्लङ्घ्य वधूसमीपं प्रस्थितव [^६]स्तथाप्यनेन स्वयमेव कथितम् । तदहमस्य दुरात्मनो जननी श्रीस्तथा प्रस्थितमेनं दिव्येन चक्षुषा दृष्ट्वाऽस्य पित्राहं समादिष्टास्मि – 'सर्व एव [^६]ह्यविनयप्रवृत्तोऽनुतापाद्विना न निवर्तते । तदयं ते तनयः कदाचिदस्या अपि तिर्यग्जातेरध- स्तान्निपतति । तद्यावदिदं कर्म न [^८]परिसमाप्यते तावदेनं मर्त्यलोक एव बद्धा धारय । यथा चानुतापोऽस्य भवति तथा प्रतिविधेयमस्य' इति । तदस्य विनयायेदं विनि [^९]र्मितं
[^१०] मया । सर्वमधुना तत्कर्म परिसमाप्तम् । शापावसानसमयो वर्तते । शापावसानेन च युवयोः सममेव सुखेन भवितव्यमिति त्वत्समीपमानीतो मयायम् । अत्रापि यच्चाण्डालजाति: ख्यापिता तल्लोकसंपर्कपरिहाराय । तदनुभवतां संप्रति द्वावपि सममेव
[ टि ]-- राजा तु नृपोऽपि तच्छ्रुत्वा समुपजातमभ्यधिकं कुतूहल- माश्चर्यं यस्य स तस्याश्चाण्डालदारिकाया आह्वानायामन्त्रणं कृत्वाहूतिकृते पुरःस्थितामग्रस्थितां प्रतीहारीं द्वारपालिका- मादिदेशाज्ञां दत्तवान् । नचिरादेव स्तोककालेनैव तयोपदिश्य- मानमार्गा कथ्यमानपथा सा प्रविश्य प्रवेशं कृत्वा पुरस्तादूर्ध्व- स्थितैव धाम्ना तेजसा राजानमभिभवन्ती तिरस्कुर्वन्ती प्रागल्भ्येन धायैन बभाषेऽवोचत् । किं तदित्याह - भुवनेति । हे भुवनभूषण
हे जगद्विभूषण हे विष्टपशृङ्गार, हे रोहिणीपते हे रोहिणीनाथ हे चन्द्र, हे तारारमण हे तारकाविनोदक, हे कादम्बरीलोचनानन्द
हे गन्धर्वकन्यकानयनप्रमोदक, हे रजनिकर हे चन्द्र कुमुदबान्धव,
सर्वः समग्रस्त्वयास्य दुर्मतेः पुण्डरीकस्यात्मनः स्वस्य च पूर्वजन्म- वृत्तान्तः पूर्वभवोदन्तः श्रुत एवाकर्णित एव । अत्रापि जन्मनि यथायं पित्रा जनकेन निषिद्धोऽपि प्रतिषिद्धोऽपि कामरागान्धः कन्दर्प- रागान्धः पितुराज्ञां जनकादेशमुल्लङ्घ्यतिक्रम्य वधूसमीपं पत्नीपार्श्वं युवतीनिकटं प्रस्थितश्चलितः, तथाप्यनेन स्वयमेव
कथितमात्मनैव निवेदितम् । तत्तस्मात्कारणादस्य दुरात्मनः पुण्डरीकस्य जननी माता दिव्येन चक्षुषा ज्ञानदृशा तथा प्रस्थितं तथा चलितमेनं वैशम्पायनं दृष्ट्वा विलोक्यास्य पुण्डरीकस्य पित्रा श्वेतकेतुना समादिष्टा दत्ताज्ञाहं श्रीरस्मि । सर्व एव हि जनोऽविनयेन प्रवृत्तोऽनुतापात्पश्चात्तापाद्विना न निवर्तते न निवृत्तो भवति । तत्तस्माद्धेतोरयं ते तव तनयोऽसौ भवदीयसुतः कदाचिदस्या अपि तिर्यग्जातेर्विहंगमजातेरधस्तान्निपतत्यधः प्रयाति । तद्यावदिदं कर्म न परिसमाप्यते न परिपूर्णीभवति, न संपूर्णीभवति, तावदेनं वैशम्पायनं मर्त्यलोक एव बद्धा बन्धनं कृत्वा धारयावस्थापय । यथा चानुतापः पश्चात्तापोऽस्य भवति, तथा प्रतिविधेयं तथा करणीयमिति । तदस्य वैशम्पायनस्य विनयाय मर्यादायै [^2]इदं मया सर्वं विनिर्मितं विहितम् । अधुना सर्वं तत्कर्म तत्कृत्यं परि-
समाप्तं परिपूर्णीकृतम् । शापस्यावसानसमयः प्रान्तकालो वर्तते । शापावसाने [^3]न च युवयोर्भवतोः सममेव सुखेन सातेन भवितव्यमित्यतस्त्वत्समीपं त्वदभ्यर्णं मयायमानीतः प्रापितः । अत्रापि यच्चाण्डालजातिः ख्यापिता कथितोक्ता तल्लोकानां जनानां संपर्क: संबन्धस्तस्य परिहाराय दूरीकरणाय । तत्संप्रतीदानीं द्वावपि शुद्रकवैशम्पाय-
टिप्प० – [^1]F. 'तदप्यनेन' इत्येव पाठः ।
[^2]F. पञ्जरबन्धनादिकम् ।
[^3]F. अविचारष्टीकाकृतः । 'शापाव-
साने' इत्येव पाठः ।
-
[^१]G.
पाठा० -१ अदिशत् .
[^२]G. अचिरात् .
[^३]G. अभिभवन्तीव .
[^४]G. स्वधाम्ना .
[^५]G. प्रागल्भ्येन च .
[^६]G. तदपि.
[^७]G. स्वावि
यन.
[^८]G. समाप्यते .
[^९]G. च निर्मितम्.
[^१० मया सर्व]G. मया सर्वं कृतम् ; अधुना तु तत्कर्म समाप्तम्.
[^१०] मया । सर्वमधुना तत्कर्म परिसमाप्तम् । शापावसानसमयो वर्तते । शापावसानेन च युवयोः सममेव सुखेन भवितव्यमिति त्वत्समीपमानीतो मयायम् । अत्रापि यच्चाण्डालजाति: ख्यापिता तल्लोकसंपर्कपरिहाराय । तदनुभवतां संप्रति द्वावपि सममेव
[ टि ]-- राजा तु नृपोऽपि तच्छ्रुत्वा समुपजातमभ्यधिकं कुतूहल- माश्चर्यं यस्य स तस्याश्चाण्डालदारिकाया आह्वानायामन्त्रणं कृत्वाहूतिकृते पुरःस्थितामग्रस्थितां प्रतीहारीं द्वारपालिका- मादिदेशाज्ञां दत्तवान् । नचिरादेव स्तोककालेनैव तयोपदिश्य- मानमार्गा कथ्यमानपथा सा प्रविश्य प्रवेशं कृत्वा पुरस्तादूर्ध्व- स्थितैव धाम्ना तेजसा राजानमभिभवन्ती तिरस्कुर्वन्ती प्रागल्भ्येन धायैन बभाषेऽवोचत् । किं तदित्याह - भुवनेति । हे भुवनभूषण
हे जगद्विभूषण हे विष्टपशृङ्गार, हे रोहिणीपते हे रोहिणीनाथ हे चन्द्र, हे तारारमण हे तारकाविनोदक, हे कादम्बरीलोचनानन्द
हे गन्धर्वकन्यकानयनप्रमोदक, हे रजनिकर हे चन्द्र कुमुदबान्धव,
सर्वः समग्रस्त्वयास्य दुर्मतेः पुण्डरीकस्यात्मनः स्वस्य च पूर्वजन्म- वृत्तान्तः पूर्वभवोदन्तः श्रुत एवाकर्णित एव । अत्रापि जन्मनि यथायं पित्रा जनकेन निषिद्धोऽपि प्रतिषिद्धोऽपि कामरागान्धः कन्दर्प- रागान्धः पितुराज्ञां जनकादेशमुल्लङ्घ्यतिक्रम्य वधूसमीपं पत्नीपार्श्वं युवतीनिकटं प्रस्थितश्चलितः, तथाप्यनेन स्वयमेव
कथितमात्मनैव निवेदितम् । तत्तस्मात्कारणादस्य दुरात्मनः पुण्डरीकस्य जननी माता दिव्येन चक्षुषा ज्ञानदृशा तथा प्रस्थितं तथा चलितमेनं वैशम्पायनं दृष्ट्वा विलोक्यास्य पुण्डरीकस्य पित्रा श्वेतकेतुना समादिष्टा दत्ताज्ञाहं श्रीरस्मि । सर्व एव हि जनोऽविनयेन प्रवृत्तोऽनुतापात्पश्चात्तापाद्विना न निवर्तते न निवृत्तो भवति । तत्तस्माद्धेतोरयं ते तव तनयोऽसौ भवदीयसुतः कदाचिदस्या अपि तिर्यग्जातेर्विहंगमजातेरधस्तान्निपतत्यधः प्रयाति । तद्यावदिदं कर्म न परिसमाप्यते न परिपूर्णीभवति, न संपूर्णीभवति, तावदेनं वैशम्पायनं मर्त्यलोक एव बद्धा बन्धनं कृत्वा धारयावस्थापय । यथा चानुतापः पश्चात्तापोऽस्य भवति, तथा प्रतिविधेयं तथा करणीयमिति । तदस्य वैशम्पायनस्य विनयाय मर्यादायै [^2]इदं मया सर्वं विनिर्मितं विहितम् । अधुना सर्वं तत्कर्म तत्कृत्यं परि-
समाप्तं परिपूर्णीकृतम् । शापस्यावसानसमयः प्रान्तकालो वर्तते । शापावसाने [^3]न च युवयोर्भवतोः सममेव सुखेन सातेन भवितव्यमित्यतस्त्वत्समीपं त्वदभ्यर्णं मयायमानीतः प्रापितः । अत्रापि यच्चाण्डालजातिः ख्यापिता कथितोक्ता तल्लोकानां जनानां संपर्क: संबन्धस्तस्य परिहाराय दूरीकरणाय । तत्संप्रतीदानीं द्वावपि शुद्रकवैशम्पाय-
[^2]F. पञ्जरबन्धनादिकम् ।
[^3]F. अविचारष्टीकाकृतः । 'शापाव
पाठा० -१
[^२]G. अचिरात्
[^३]G. अभिभवन्तीव
[^४]G. स्वधाम्ना
[^५]G. प्रागल्भ्येन च
[^६]G. तदपि.
[^७]G. स्वावि
[^८]G. समाप्यते .
[^९]G. च निर्मितम्.
[^१०