This page has not been fully proofread.

६९६
 
कादम्बरी ।
 
B
 
राजा तु तच्छ्रुत्वा समुपजाताभ्यधिक कुतूहलस्तदाहानाय पुरःस्थितां प्रतीहारीमादिदेश ।
नैचिरादेव तयोपदिश्यमानमार्गा प्रविश्य सा, पुरस्तादूर्ध्वस्थितैव राजानमैभिभवन्ती धान्ना,
प्रागल्भ्येन बभाषे- 'भुवनभूषण, रोहिणीपते, तारारमण, कादम्बरीलोचनानन्द, चन्द्र,
सर्वस्त्वयाऽस्य दुर्मतेरात्मनश्च पूर्वजन्मवृत्तान्तः श्रुत एव । अत्रापि जन्मनि यथायं निषि-
द्धोऽपि पित्रा, कामरागान्धः पितुराज्ञामुल्लङ्घय वधूसमीपं प्रस्थितस्तथाप्यनेन स्वयमेव कथि-
तम् । तदहमस्य दुरात्मनो जननी श्रीस्तथा प्रस्थितमेनं दिव्येन चक्षुषा दृष्ट्वाऽस्य पित्राहं
समादिष्टास्मि
– 'सर्व एव विनयप्रवृत्तोऽनुतापाद्विना न निवर्तते । तदयं ते तनयः कदा-
चिदस्या अपि तिर्यग्जातेरधस्तान्त्रिपतति । तद्यावदिदं कर्म न पॅरिसमाप्यते तांबदेनं मर्त्यलोक
एव बद्धा धारय । यथा चानुतापोऽस्य भवति तथा प्रतिविधेयमस्य' इति । तदस्य विनया-
येदं विनिर्मित मैंया । सर्वमधुना तत्कर्म परिसमाप्तम् । शापावसानसमयो वर्तते । शापाव-
सानेन च युवयोः सममेव सुखेन भवितव्यमिति त्वत्समीपमानीतो मयायम् । अत्रापि
यचाण्डालजाति: ख्यापिता तल्लोकसंपर्कपरिहाराय । तदनुभवतां संप्रति द्वावपि सममेव
 
[ कथायाम्-
राजा तु नृपोऽपि तच्छ्रुत्वा समुपजातमभ्यधिकं कुतूहलमाश्चर्य यस्य स तस्याश्चाण्डालदारिकाया आह्वा
मायामन्त्रणं कृत्वाहूतिकृते पुरःस्थितामग्रस्थितां प्रतीहारीं द्वारपालिकामादिदेशाज्ञां दत्तवान् । नचिरादेव स्तोक-
कालेनैव तयोपदिश्यमानमार्गा कथ्यमानपथा सा प्रविश्य प्रवेशं कृत्वा पुरस्तादूर्ध्वस्थितैव धाम्ना तेजसा राजा-
नमभिभवन्ती तिरस्कुर्वन्ती प्रागल्भ्येन धायैन बभाषेऽवोचत् । किं तदित्याह - भुवनेति । हे भुवनभूषण
हे जगद्विभूषण हे विष्टपशृङ्गार, हे रोहिणीपते हे रोहिणीनाथ हे चन्द्र, हे तारारमण हे तारकावि-
नोदक, हे कादम्बरीलोचनानन्द हे गन्धर्वकन्यकानयनप्रमोदक, हे रजनिकर हे चन्द्र कुमुदबान्धव,
सर्वः समप्रस्त्वयास्य दुर्मतेः पुण्डरीकस्यात्मनः स्वस्य च पूर्वजन्मवृत्तान्तः पूर्वभवोदन्तः श्रुत एवाक-
र्णित एव । अत्रापि जन्मनि यथायं पित्रा जनकेन निषिद्धोऽपि प्रतिषिद्धोऽपि कामरागान्धः कन्दर्परागान्धः
पितुराज्ञां जनकादेशमुलयातिक्रम्य वधूसमीपं पत्नीपार्श्वं युवतीनिकटं प्रस्थितश्चलितः, तथाप्यनेन स्वयमेव
कथितमात्मनैव निवेदितम् । तत्तस्मात्कारणादस्य दुरात्मनः पुण्डरीकस्य जननी माता दिव्येन चक्षुषा ज्ञानदृशा
तथा प्रस्थितं तथा चलितमेनं वैशम्पायनं दृष्ट्वा विलोक्यास्य पुण्डरीकस्य पित्रा श्वेतकेतुना समादिष्टा दत्ताज्ञाहं
श्रीरस्मि । सर्व एव हि जनोऽविनयेन प्रवृत्तोऽनुतापात्पश्चात्तापाद्विना न निवर्तते न निवृत्तो भवति । तत्तस्माद्धे-
तोरयं ते तव तनयोऽसौ भवदीयसुतः कदाचिदस्या अपि तिर्यग्जातेर्विहंगमजातेरधस्तान्निपतत्यधः प्रयाति ।
तद्यावदिदं कर्म न परिसमाप्यते न परिपूर्णीभवति, न संपूर्णभवति, तावदेनं वैशम्पायनं मर्त्यलोक एव बवा
बन्धनं कृत्वा धारयावस्थापय । यथा चानुतापः पश्चात्तापोऽस्य भवति, तथा प्रतिविधेयं तथा करणीयमिति ।
तदस्य वैशम्पायनस्य विनयाय मर्यादायै ईंदं मया सर्वं विनिर्मितं विहितम् । अधुना सर्वं तत्कर्म तत्कृत्यं परि-
समाप्तं परिपूर्णांकृतम् । शापस्यावसानसमयः प्रान्तकालो वर्तते । शापावसानेनं च युवयोर्भवतोः सममेव सुखेन
सातेन भवितव्यमित्यतस्त्वत्समीपं त्वदभ्यर्ण मयायमानीतः प्रापितः । अत्रापि यच्चाण्डालजातिः ख्यापिता कथि-
तोक्ता तल्लोकानां जनानां संपर्क: संबन्धस्तस्य परिहाराय दूरीकरणाय । तत्संप्रतीदानीं द्वावपि शुद्रकवैशम्पाय-
टिप्प० – 1 'तदप्यनेन' इत्येव पाठः । 2 पञ्जरबन्धनादिकम् । 3 अविचारष्टीकाकृतः । 'शापाव-
साने' इत्येव पाठः ।
 
-
 
.
 
पाठा० -१ अदिशत् २ अचिरात् ३ अभिभवन्तीव ४ स्वधाम्ना ५ प्रागल्भ्येन च ६ तदपि. ७ स्वावि
यन. ८ समाप्यते . ९ च निर्मितम्. १० मया सर्व कृतम् ; अधुना तु तत्कर्म समाप्तम्.