2023-10-31 16:56:05 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

निर्वेदात् शुकस्य भोजनादित्यागः ] उत्तरभागः ।
 
६९५
 
दृशस्य । न चेदृशं किंचिदध्या [^१]हाराय मयोपनीतं यादृशेन [^२]चाण्डालाशनशङ्का समुत्पद्यते । फ
लानि तु ततोऽपि प्रतिगृह्णन्त एव । पानीयमपि चाण्डालभाण्डादपि भुवि पतितं पवित्रमेवे-
त्येवं जनः कथयति, तत्किमर्थमात्मानं क्षुधा पिपासया वा पात [^३]यसि ? यन्न भक्षयस्यमूनि
मुनिजनोचितामिनि वनफलानि, न पिबसि वा पानीयम्' इति । अहं तु तेन तस्याश्चाण्डालजा
त्यनुचितेन वचसा विवेकेन च विस्मितान्तरात्मा तथेति प्रतिपद्य, शापनिघ्नो घृणां परित्यज्य
जीविततृष्णया क्षुत्पिपासोपशमायाऽशनक्रिया- मङ्गीकृतवानस्मि, मौनं तु पुनर्नात्याक्षम् ।
 
,
 

 
एवमतिकाक्रामति च काले क्रमेण तरुणतामापन्ने मध्य्येकदा प्रभातायां च यामिन्यामुन्मी-
लितलोचनोऽद्राक्ष मस्मिन्कनकपञ्जरे [^४]स्थितमात्मानम्, [^५]चाण्डालदारिकामीदृशीं यादृशी देवे-

नापि दृष्टैव । सकलमेव तत्पक्कणममरपुरसदृशमालोक्य चापगतचाण्डालवसतिसंवेगो
विस्मितान्तरात्मा किमेतदिति [^६]कुतूहलात्प्रष्टुकामो यावत्रन्न परित्यजाम्येव मौनम्, ताषदेषा

मामादाय देवपादमूलमायाता । तत्केयम् ? किमर्थमनया चाण्डालताऽऽत्मनः ख्यापिता ?
किमर्थं वाऽहं बद्धः ? बद्धा वा किमर्थसिद्दाहानीत इत्यत्र वस्तुन्यहमपि देव इवानपगतकुतु-
तूहल एव' इति ।
 

 
[ टि ]--
पुनर्भण्यते । ईदृशं किंचिदपि ते तवाहाराय भक्षणाय मया नोपनीतं नानीतम्, यादृशेन चाण्डालस्यशियाशनशङ्का
श्वपचभक्ष्यारेका समुत्पद्यते संजायते । फलानि तु ततो गृह्यन्त एवादीयन्त एव । पानीयमपि जलमपि चाण्डालं
भाण्डादपि श्वपचपात्रादपि भुवि पतितं भूक्षिप्तं पवित्रं पावनमेवेत्येवं जनः कथयति वक्ति । तदिति हेत्वर्थे ।
किमर्थं किप्रयोजनं क्षुधा बुभुक्षया पिपासयोदन्यया वात्मानं स्वं पातयस्यात्म [^1]पातं करोषि । अमूनि मुनिज
नोचितानि तापरायोग्यानि वनफलानि न भक्षयसि नात्सि । पानीयं जलं वा न पिबसि नाखादयसि । अहं
तु वैशम्पायन- स्तस्याश्
चाण्डालजाते रनुचितेनायोग्येन तेन पूर्वोक्तेन वचसा वाक्येन विवेकेन च विस्मितान्त
रात्मा कौतुकापन्नचेतस्कः । तथेति यद्भवत्या उक्तं तत्तथेति प्रतिपद्याङ्गीकृत्याङ्गीकारं कृत्वा शापनिघ्नः शापा-
यत्तो घृणां जुगुप्सां परित्यज्य विहाय त्यक्त्वा जीविततृष्णया प्रांराणितवाञ्छया क्षुत्पिपासोपशमाय क्षुत्तृषोपशमा-
र्थमशनक्रियां भक्षणक्रियामङ्गीकृतवानस्मि । मौनं तूष्णीं पुनर्नात्याक्षं नामुचम् ।
 

 
एवमतिकाक्रामति च गच्छति च काले क्रमेण परिपाट्या तरुणतां [^2]यूनतामापन्ने प्राप्ते मध्य्येकदा प्रभातायां वि
भातायां यामिन्यां रजन्यामुन्मीलितलोचनो विकसितनयनोऽहमस्मिन्कनकपञ्जरे स्थितमात्मानमद्राक्षं व्यलो
कयम् । चाण्डालदारिकामीदृशीं यादृशी देवेनापि भवता दृष्टैवावलोकितैव निरीक्षितैव । सकलमेव समग्रमेव

तत्पक्कणममरपुरसदृशं देवनगरतुल्यमालोक्य निरीक्ष्य चापगतो दूरीभूतश्चाण्डालेषु वसतिर्निवासस्तस्याः संवेगः
संभ्रमो यस्य स विस्मितो विस्मयं प्राप्तोऽन्तरात्मा मनो यस्य सः । किमेतदृश्यमान- मिति कुतूहलात्प्रष्टुकामः प्रश्
नं कर्तुमना यावत्रन्न परित्यजाम्येव न दूरीकरोम्येव मौनम्, तावदेषा मामादाय गृहीत्वा देवस्य पादमूलमायाता ।
तत्तस्मात्कारणात्केयम् । किमर्थं किंप्रयोजनम- नयात्मनः स्वस्य चाण्डालता ख्यापिता कथितोक्ता । किमर्थ वाई
थं वाहं
बद्धः संदानितः । बडाद्ध्वा वा बन्धनं कृत्वा वा किमर्थंमिहानीत इत्यत्र वस्तुन्यहमपि देव इवानपगतं कुतूहलं
यस्मात्स एवेति ।
 
टिप्प० -

 
 
[^
1]F. 'आयासयसि ( क्लेशयसि ) ' इति पाठः सम्यक् ।
[^
2]F. युवतामापत्रे, इत्युचितम् ।
 
-
 
पाठा० -

 
[^
]G. अपरिहाराय.
[^
]G. चण्डालाशनेन शङ्का; चण्डालाशनाशङ्का.
[^
]G. आयासयसि.
[^
]G. स्थितिमापन्नमात्मा
नम्.
[^
]G. सापि चाण्डालदारिका यादृशी तादृशी देवेनापि दृष्टैव; चाण्डाल्दारिकामीवृवदृशी सापि चाण्डालकन्यका
यादृशी देवेन दृष्दैन, टैव.
[^
]G. कौतुक.