कादम्बरी /728
This page has not been fully proofread.
निर्वेदात् शुकस्य भोजनादित्यागः ] उत्तरभागः ।
६९५
दृशस्य । न चेदृशं किंचिदध्याहाराय मयोपनीतं यादृशेन चाण्डालाशनशङ्का समुत्पद्यते । फ
लानि तु ततोऽपि प्रतिगृह्णन्त एव । पानीयमपि चाण्डालभाण्डादपि भुवि पतितं पवित्रमेवे-
त्येवं जनः कथयति, तत्किमर्थमात्मानं क्षुधा पिपासया वा पातयसि ? यन्न भक्षयस्यमूनि
मुनिजनोचितामि वनफलानि, न पिबसि वा पानीयम्' इति । अहं तु तेन तस्याश्चाण्डालजा•
त्यनुचितेन वचसा विवेकेन च विस्मितान्तरात्मा तथेति प्रतिपद्य, शापनिघ्नो घृणां परित्यज्य
जीविततृष्णया क्षुत्पिपासोपशमायाऽशनक्रियामङ्गीकृतवानस्मि, मौनं तु पुनर्नात्याक्षम् ।
,
एवमतिकामति च काले क्रमेण तरुणतामापन्ने मध्येकदा प्रभातायां च यामिन्यामुन्मी-
लितलोचनोऽद्राक्ष मस्मिन्कनकपञ्जरे स्थितमात्मानम्, चाण्डालदारिकामीदृशीं यादृशी देवे-
नापि दृष्टैव । सकलमेव तत्पक्कणममरपुरसदृशमालोक्य चापगतचाण्डालवसतिसंवेगो
विस्मितान्तरात्मा किमेतदिति कुतूहलात्प्रष्टुकामो यावत्र परित्यजाम्येव मौनम्, ताषदेषा
मामादाय देवपादमूलमायाता । तत्केयम् ? किमर्थमनया चाण्डालताऽऽत्मनः ख्यापिता ?
किमर्थ वाऽहं बद्धः ? बद्धा वा किमर्थसिद्दानीत इत्यत्र वस्तुन्यहमपि देव इवानपगतकुतु-
हल एव' इति ।
पुनर्भण्यते । ईदृशं किंचिदपि ते तवाहाराय भक्षणाय मया नोपनीतं नानीतम्, यादृशेन चाण्डालस्यशिनशङ्का
श्वपचभक्ष्यारेका समुत्पद्यते संजायते । फलानि तु ततो गृह्यन्त एवादीयन्त एव । पानीयमपि जलमपि चाण्डालं
भाण्डादपि श्वपचपात्रादपि भुवि पतितं भूक्षिप्तं पवित्रं पावनमेवेत्येवं जनः कथयति वक्ति । तदिति हेत्वर्थे ।
किमर्थं किप्रयोजनं क्षुधा बुभुक्षया पिपासयोदन्यया वात्मानं स्वं पातयस्यात्मपातं करोषि । अमूनि मुनिज
नोचितानि तापरायोग्यानि वनफलानि न भक्षयसि नात्सि । पानीयं जलं वा न पिबसि नाखादयसि । अहं
तु वैशम्पायनस्तस्याश्
चाण्डालजातेरनुचितेनायोग्येन तेन पूर्वोक्तेन वचसा वाक्येन विवेकेन च विस्मितान्त
रात्मा कौतुकापन्नचेतस्कः । तथेति यद्भवत्या उक्तं तत्तथेति प्रतिपयाङ्गीकृत्याङ्गीकारं कृत्वा शापनिघ्नः शापा-
यत्तो घृणां जुगुप्सां परित्यज्य विहाय त्यक्त्वा जीविततृष्णया प्रांणितवाञ्छया क्षुत्पिपासोपशमाय क्षुत्तृषोपशमा-
र्थमशनक्रियां भक्षणक्रियामङ्गीकृतवानस्मि । मौनं तूष्णीं पुनर्नात्याक्षं नामुचम् ।
एवमतिकामति च गच्छति च काले क्रमेण परिपाट्या तरुणतां यूनतामापन्ने प्राप्ते मध्येकदा प्रभातायां वि
भातायां यामिन्यां रजन्यामुन्मीलितलोचनो विकसितनयनोऽहमस्मिन्कनकपञ्जरे स्थितमात्मानमद्राक्षं व्यलो
कयम् । चाण्डालदारिकामीदृशीं यादृशी देवेनापि भवता दृष्टैवावलोकितैव निरीक्षितैव । सकलमेव समग्रमेव
तत्पक्कणममरपुरसदृशं देवनगरतुल्यमालोक्य निरीक्ष्य चापगतो दूरीभूतश्चाण्डालेषु वसतिर्निवासस्तस्याः संवेगः
संभ्रमो यस्य स विस्मितो विस्मयं प्राप्तोऽन्तरात्मा मनो यस्य सः । किमेतदृश्यमानमिति कुतूहलात्प्रष्टुकामः प्रश्न
कर्तुमना यावत्र परित्यजाम्येव न दूरीकरोम्येव मौनम्, तावदेषा मामादाय गृहीत्वा देवस्य पादमूलमायाता ।
तत्तस्मात्कारणात्केयम् । किमर्थं किंप्रयोजनमनयात्मनः स्वस्य चाण्डालता ख्यापिता कथितोक्ता । किमर्थ वाई
बद्धः संदानितः । बडा वा बन्धनं कृत्वा वा किमर्थंमिहानीत इत्यत्र वस्तुन्यहमपि देव इवानपगतं कुतूहलं
यस्मात्स एवेति ।
टिप्प० - 1 'आयासयसि ( क्लेशयसि ) ' इति पाठः सम्यक् । 2 युवतामापत्रे, इत्युचितम् ।
-
पाठा० -१ अपरिहाराय. २ चण्डालाशनेन शङ्का; चण्डालाशनाशङ्का. ३ आयासयसि० ४ स्थितिमापन्नमात्मा
नम्. ५ सापि चाण्डालदारिका यादृशी तादृशी देवेनापि दृष्टैव; चाण्डाल्दारिकामीवृशी सापि चाण्डालकन्यका
यादृशी देवेन दृष्दैन, ६ कौतुक.