2023-11-01 13:40:17 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६९४
 
कादम्बरी ।
 
[ कथायाम्-
'सर्वेन्द्रियाण्येव नियमयामि' इति निश्चित्य मौनग्रहणमकरवम् । आलप्यमानोऽध्यातर्ग्यमा-
ज्यमानोऽव्याहन्यमानोऽपि त्रुट्यमानोऽपि च बलान्न किंचिदप्यवदम् । केवलमुच्चैश्चीत्कारमेवामु
ञ्चम् । उपनीतेऽपि च पानाशने तं दिवसमनशनेनैवात्यवाहयम् ।
 

 
[^१]
अन्येधुद्युश्चतिक्रामत्यशनकाले मे [^२]दूयमाने हृदये च सा स्वपाणिनोपनीय नानाविधानि
पकान्यपका
पक्वान्यपक्वानि च फलानि, सुरभि- शीतलं च पानीयमप्रतिपन्नतदुपै [^३]पभोगं मार्मे [^४]मारोपित- लोचना
स्त्रि
स्निह्यन्तीवावोचत्—'क्षुत्पिपासो [^५]सार्दितानां हि पशुपक्षिणां निर्वि [^६]चारचित्तवृत्तीनामुपनतेष्वा-
हारेष्वनुपयोगो न संभवत्येव तद्यद्येवंविधस्त्वं कोऽपि भोज्याभोज्यविवेककारी पूर्वजाति-

स्मरोऽस्मदीयमाहारं पॅ[^७]परिहरसि, तथापि तावद्भक्ष्याभक्ष्य विवेकरहितायां तिर्यग्जातौ वर्तमा-
नस्य ते किं वाऽभक्ष्यं यन्न भक्षयसि ? येन चोत्कृष्टतमां जातिं प्राध्प्यात्मनैवेदृशं कर्म कृतं
येन तियं

येन तिर्य
ग्योनौ पतितः, सं[^८]स किमपरं विचारयसि ? प्रथममेवात्मा न [^९]विवेके स्थापितः
अधुना स्वकर्मोपात्तजातिसदृशमाचरतस्ते नास्त्येव दोषः । अँ[^१०]अपि च येषामपि भक्ष्याभक्ष्यनि-
यमोऽस्ति, तेषामप्यापत्काले प्राणानां संधारणमभक्ष्योपयोगेनापि तावद्विहितम्, किं पुनस्वा
 

 
[ टि ]--
करणानि नियमग्रामि नियन्त्रयामीति निश्चित्येति निर्णयं कृत्वा मौन- ग्रहणमकरवम् । आलप्यमानोऽपि संभाष्यमाणोऽप्यातर्ज्य-
ध्यमाणोऽप्यातर्ज्य
मानोऽपि तर्जनां क्रियमाणोऽप्याहन्यमानोऽपि ताब्ड्यमानोऽपि बलाद्धठानुव्ये [^1]त्त्र्युट्यमानोऽपि छिय-
द्यमानोऽपि च न किंचिदप्यहम- वदमब्रुवम् । केवलमुच्चैस्तारस्वरं चीत्कारं पूत्कृतिविशेषममुञ्चम् । उपनीतेऽपि
चानीतेऽपि च [^2]पानाशने जलप्राशने तं दिवसमशेषं समग्रमन शनेनैवाभोजनेनैवात्यवाहयं व्यतिक्रामम् ।
 

 
अन्येधुद्युश्चेति । अन्यस्मिन्नहन्यशनकाले भोजनकालेऽतिकाक्रामति सति, मे मम हृदये चित्ते दूयमाने पीड्य-
माने सति च, सा चण्डालदारिका स्वपाणिना निजहस्तेनोपनीयानीय नाना- विधान्यनेकप्रकाराणि पक्कावानि परि-
णतान्यपक्कावान्यपरिणतानि च फलानि सस्यानि सुरभि सुगन्धं शीतलं शिशिरं च पानीयं जलं चाप्रतिपन्नोऽ-
स्वीकृतस्तेषां फलजलानामुपभोगो ग्रहणं येन स तथैवंभूतं मामारोपि [^3]तलोचना संस्थापितनयना स्निह्यन्तीव स्नेहं

कुर्वन्तीवावोचदब्रवीत् । किं तदित्याह- क्षुदिति । क्षुत्पिपासाभ्या- मर्दितानां पीडितानाम् । हीति निश्चितम् ।
पशुपक्षिणां निर्गतो विचारो वितर्को यस्या एवंविधा विचित्तवृत्तिर्येषां ते तथा तेषा- मुपनतेष्वानीतेष्वाहारेष्वनुपयो-
गोऽनाभोगो न संभवत्येव नास्त्येव । तद्यदि त्वं भवानेवंविध एतादृशः कोऽप्यनिर्वचनीयस्वरूपो भोज्याभोज्य-
योर्भक्ष्याभक्ष्ययोर्विवेकः पृथगात्मता तं करोती- त्येवंशीलः पूर्वजातिस्मरोऽस्मदीयमा स्माकीनमाहारं भोज्यं परि-

हरसि त्यजसि, तथापि तथात्वेऽपि तावद्भक्ष्याभक्ष्यविवेकर हितायां भोज्याभोज्यविवेचनवर्जितायां तिर्यग्जातौ वर्त-
मानस्य स्थितवतस्ते तवाभक्ष्यमभोज्यं किं किमिव, यद्यस्मात्कारणान्न भक्षयसि नात्सि ? येन च कारणेनोत्कृष्ट-
तमां प्रकृष्टतरामुत्कृष्टतरां जातिं प्राप्या- साद्यात्मनैवेदृशं कर्म कृतं येन कर्मणा तिर्यग्योनौ पतितः स त्वमपरम-
न्यकि
न्यकिं विचारयसि किं विमर्शयसि ? प्रथममेवादावेत्रावात्मा न विवेके तत्त्वातत्त्वविचारे स्थापितः । अधुना
सांप्रतं स्वकर्मणोपात्ता प्राप्ता या जातिस्तस्याः सदृशमनुकूलमाचरतः कुर्वतस्ते तव नास्त्येव दोषः । अपि चेति
युक्त्यन्तरे । येषामपि पुरुषाणां भक्ष्याभक्ष्ययोर्भोज्याभोज्ययोर्नियमो विरतिरस्ति, तेषामपि जनानामापत्काले विप-
त्समये प्राणानां संधारणं रक्षणम- भोज्योपयोगेनाप्यभक्ष्यग्रहणेनापि तावद्विहितं तदा त्वादृशस्य भवत्सदृशस्य किं
 
"
 
टिप्प० ~~-~-

 
 
[^
1]F. त्रुव्ट्यतिरकर्मकः, अत एव 'तुद्यमानः' (पीड्यमानः ) इत्येव पाठः
[^
2]F. पानं च अशनं
च पानाशनम् ( समाहारः ) तस्मिन् ।
[^
3]F. 'भालोहितलोचना' इति पाठः ।
 
पाठा० -

 
[^
]G. अपरेद्युश्च .
[^
]G. दूयमान हृदयेव.
[^
]G. उपयोगम् .
[^
]G. आरोषिपित; आरोधित .
[^
]G.र्चितानाम् .
[^
]G. निर्वि-
कार, .
[^
]G. परिहासी, .
[^
]G. त्वम् .
[^
]G. विवेकेन .
[^
१०]G. येषां च.