This page has not been fully proofread.

६९४
 
कादम्बरी ।
 
[ कथायाम्-
'सर्वेन्द्रियाण्येव नियमयामि' इति निश्चित्य मौनग्रहणमकरवम् । आलप्यमानोऽध्यातर्ग्यमा-
नोऽव्याहन्यमानोऽपि त्रुट्यमानोऽपि च बलान्न किंचिदप्यवदम् । केवलमुच्चैश्चीत्कारमेवामु
चम् । उपनीतेऽपि च पानाशने तं दिवसमनशनेनैवात्यवाहयम् ।
 
अन्येधुश्चतिक्रामत्यशनकाले मे दूयमाने हृदये च सा स्वपाणिनोपनीय नानाविधानि
पकान्यपकानि च फलानि, सुरभि शीतलं च पानीयमप्रतिपन्नतदुपैभोगं मार्मे रोपितलोचना
स्त्रियन्तीवावोचत्—'क्षुत्पिपासोर्दितानां हि पशुपक्षिणां निर्विचारचित्तवृत्तीनामुपनतेष्वा-
हारेष्वनुपयोगो न संभवत्येव । तद्ययेवंविधस्त्वं कोऽपि भोज्याभोज्यविवेककारी पूर्वजाति-
स्मरोऽस्मदीयमाहारं पॅरिहरसि, तथापि तावद्भक्ष्याभक्ष्य विवेकरहितायां तिर्यग्जातौ वर्तमा-
नस्य ते किं वाऽभक्ष्यं यन्न भक्षयसि ? येन चोत्कृष्टतमां जातिं प्राध्यात्मनैवेदृशं कर्म कृतं
येन तियंग्योनौ पतितः, सं किमपरं विचारयसि ? प्रथममेवात्मा न विवेके स्थापितः ।
अधुना स्वकर्मोपात्तजातिसदृशमाचरतस्ते नास्त्येव दोषः । अँपि च येषामपि भक्ष्याभक्ष्यनि-
यमोऽस्ति, तेषामप्यापत्काले प्राणानां संधारणमभक्ष्योपयोगेनापि तावद्विहितम्, किं पुनस्वा
 
करणानि नियमग्रामि नियन्त्रयामीति निश्चित्येति निर्णयं कृत्वा मौनग्रहणमकरवम् । आलप्यमानोऽपि संभा-
ध्यमाणोऽप्यातर्ज्यमानोऽपि तर्जनां क्रियमाणोऽप्याहन्यमानोऽपि ताब्यमानोऽपि बलाडठानुव्येमानोऽपि छिय-
मानोऽपि च न किंचिदप्यहमवदमब्रुवम् । केवलमुचैस्तारस्वरं चीत्कारं पूत्कृतिविशेषममुञ्चम् । उपनीतेऽपि
चानीतेऽपि च पानाशने जलप्राशने तं दिवसमशेषं समग्रमन शनेनैवाभोजनेनैवात्यवाहयं व्यतिक्रामम् ।
 
अन्येधुश्चेति । अन्यस्मिन्नहन्यशनकाले भोजनकालेऽतिकामति सति, मे मम हृदये चित्ते दूयमाने पीड्य-
माने सति च, सा चण्डालदारिका स्वपाणिना निजहस्तेनोपनीयानीय नानाविधान्यनेकप्रकाराणि पक्कानि परि-
णतान्यपक्कान्यपरिणतानि च फलानि सस्यानि सुरभि सुगन्धं शीतलं शिशिरं च पानीयं जलं चाप्रतिपन्नोऽ-
स्वीकृतस्तेषां फलजलानामुपभोगो ग्रहणं येन स तथैवंभूतं मामारोपितलोचना संस्थापितनयना स्निह्यन्तीव स्नेहं
कुर्वन्तीवावोचदब्रवीत् । किं तदित्याह- क्षुदिति । क्षुत्पिपासाभ्यामर्दितानां पीडितानाम् । हीति निश्चितम् ।
पशुपक्षिणां निर्गतो विचारो वितर्को यस्या एवंविधा वित्तवृत्तिर्येषां ते तथा तेषामुपनतेष्वानीतेष्वाहारेष्वनुपयो-
गोऽनाभोगो न संभवत्येव नास्त्येव । तद्यदि त्वं भवानेवंविध एतादृशः कोऽप्यनिर्वचनीयस्वरूपो भोज्याभोज्य-
योर्भक्ष्याभक्ष्ययोर्विवेकः पृथगात्मता तं करोतीत्येवंशीलः पूर्वजातिस्मरोऽस्मदीयमा स्माकीनमाहारं भोज्यं परि-
हरसि त्यजसि, तथापि तथात्वेऽपि तावद्भक्ष्याभक्ष्यविवेकर हितायां भोज्याभोज्यविवेचनवर्जितायां तिर्यग्जातौ वर्त-
मानस्य स्थितवतस्ते तवाभक्ष्यमभोज्यं किं किमिव, यद्यस्मात्कारणाच भक्षयसि नात्सि ? येन च कारणेनोत्कृष्ट-
तमां प्रकृष्टतरामुत्कृष्टतरां जातिं प्राप्यासायात्मनैवेदृशं कर्म कृतं येन कर्मणा तिर्यग्योनौ पतितः स त्वमपरम-
न्यकि विचारयसि किं विमर्शयसि ? प्रथममेवादावेत्रात्मा न विवेके तत्त्वातत्त्वविचारे स्थापितः । अधुना
सांप्रतं स्वकर्मणोपात्ता प्राप्ता या जातिस्तस्याः सदृशमनुकूलमाचरतः कुर्वतस्ते तव नास्त्येव दोषः । अपि चेति
युक्त्यन्तरे । येषामपि पुरुषाणां भक्ष्याभक्ष्ययोर्भोज्याभोज्ययोर्नियमो विरतिरस्ति, तेषामपि जनानामापत्काले विप-
तसमये प्राणानां संधारणं रक्षणमभोज्योपयोगेनाप्यभक्ष्यग्रहणेनापि तावद्विहितं तदा त्वादृशस्य भवत्सदृशस्य किं
 
"
 
टिप्प० ~~-~-1 त्रुव्यतिरकर्मकः, अत एव 'तुद्यमानः' (पीड्यमानः ) इत्येव पाठः । 2 पानं च अशनं
च पानाशनम् ( समाहारः ) तस्मिन् । 3 'भालोहितलोचना' इति पाठः ।
 
पाठा० -१ अपरेषश्च २ दूयमान हृदयेव. ३ उपयोगम् ४ आरोषित; आरोधित ५ अचितानाम् ६ निर्वि-
कार, ७ परिहासी, ८ त्वम् ९ विवेकेन १० येषां च.