This page has not been fully proofread.

चण्डालकन्यकया पञ्जरबन्धः ]
 
उत्तरभागः ।
 
६९३
 
दारुपञ्जरे समं महाश्वेतावलोकन मनोरथैराक्षिप्यार्गलितद्वारा सो मामवदत् - 'यथात्र नि-
वृतैः संप्रति तिष्ठ' इत्यभिधाय तूष्णीमस्थात् ।
 
अहं तु तथा सरुद्धश्चेतस्य करवम्- 'मेहासंकटे पतितोऽस्मि । यदि तावदावेदितात्मा-
वस्थः शिरसा प्रणिपत्य मुक्तये विज्ञापयाम्येनां तदा य एव मे गुणो दोषतामापद्य बन्धा-
योपजातः स एवं संवर्धितो भवति । साधु जल्पतीत्येवाहमनया माहितः । काँस्या मदी-
यया बन्धपीडया पीडा । नाहमस्यास्तनयो न भ्राता न बन्धुः । अथ मौनमालम्ब्य ति-
ष्ठामि, तंत्रापि शाठ्यप्रकुपिता कदाचिदंतोऽध्यधिकामवस्थां प्रापयति माम् । नृशंसतमा हि
जातिरियम् । अथवा वरमितोऽप्यधिकमुपजातं न पुनश्चाण्डालैः सह वागपि विमिश्रितो ।
अपि च गृहीतमौनं निर्वेदात्कदा चिन्मुञ्चत्येव । वस्तु पुनर्न मोक्तव्य एवाहमनया । अपि च
यद्दिव्यलोकभ्रंशः, यन्मर्त्यलोके जन्म, यत्तिर्यग्जातौ पतनम्, यचाण्डालहस्तागमनम्, यश्चे-
दमेवंविधं पञ्जरबन्धदुःखम्, सर्व एवायमनियतेन्द्रियत्वस्यैव दोषः । तत्किमेकयों वाचा,
 
यानि पानभोजनपात्राणि यस्मिन्मनागीषदुद्घाटितमुन्मुद्रितं द्वारं यस्मिन्नेतादृशे दारुपञ्जरे काष्ठनिर्मित विहंगर-
क्षणे महाश्वेतावलोकनमनोरथैः महाश्वेतानिरीक्षणमनोरथैः सममाक्षिप्य निवेश्य स्थापयित्वार्गलितं द्वारं यया
सा मामवददवोचत् । यथा अत्र स्थलेऽत्र स्थाने संप्रतीदानीमधुना निर्वृतः सुखी तिष्ट । इत्यभिधायेत्युक्त्वा
तूष्णीं जोषं मौनमस्थात्तस्थौ ।
 
Pop
 
अहं तु तथाप्रकारेण संरुद्धो निरुद्धश्चेतसि मनस्यन्तःकरणेऽकरवं व्यधाम् । महासंकटे महाकष्टे पतितोऽस्मि
निक्षिप्तोऽस्मि । यदि तावदादावावेदिता निवेदिता कथिता आत्मनोऽवस्था दशा येनैवंभूतोऽहं शिरसा प्रणिप
मस्तकेन नमस्कृत्यैनां चण्डालदारिकां विज्ञापयामि विज्ञप्तिं करोमि तदा य एव मे मम गुणो वक्तृत्वलक्षणो
दोषतां दूषणतामापद्य प्राप्य बन्धाय बन्धनहेतुरुपजात उत्पन्नः प्राप्तः स एव दोषतां दूषणत्वं प्राप्तो गुणः
संवर्धितो वृद्धिं नीतो भवति । तदेव दर्शयति - साध्विति । साधु जल्पति शुभं वदतीत्येवं हेतोरनयाहं
ग्राहिती ग्रहणं कारितः । अस्याश्चण्डालदारिकाया मदीयया बन्धपीडनया का पीडा । एतदेव विशेषतो दर्श-
यन्नाह - नेति । अहमस्यास्तनयः सुतो न, न भ्राता सहोदरः, न च बन्धुः स्वजनः । अथेति प्रकारान्तरे ।
यदि मौनमालम्ब्य तूष्णीं भूत्वा तिष्ठामि तत्रापि तत्कृतेऽपि शाठ्येन प्रकुपिता रोषिता सती अतोऽप्यधिकां
विशेषाधिकामवस्थां दशां कदाचिन्मां प्रापयति नयति । हि यस्मात्कारणादियं नृशंसतमा क्रूरतमा जातिः ।
अथवेति पक्षान्तरे । इतोऽप्यस्मादप्यधिकमुपजातं वरं शुभम् । तत्रार्थे हेतुमाह - न पुनरिति । चाण्डालैः
सह वागपि विमिश्रिता प्रत्युत्तरप्रदानेन संसक्तीकृता । मौनावस्थायां गुणं प्रदर्शयन्नाह - अपि चेति । कदा-
चिदिति संभावनायाम् । निर्वेदात्वावमानाद्गृहीतमौनं स्वीकृतावचनव्यापारं मां मुञ्चत्येव मोचनं विदधात्येव ।
वस्तु जल्पंस्त्वहमनया चण्डालदारिकया न मोक्तव्य एव न त्यजनीय एव । अपि चेति युत्यन्तरे । यद्दिव्य-
लोकाभ्रंशः पातः, यन्मर्त्यलोके मनुष्यलोके जन्मोत्पत्तिः, यत्तिर्यग्जातौ पक्षिजातौ पतनं पातः, यच्चाण्डालस्य
श्वपचस्य हस्ते गमनं यानम्, यदेवंविधमेतादृशं पञ्जरबन्धदुःखम् । यत्तदोर्नित्याभिसंबन्धादाह — सर्वेति । स
सर्वोऽयमनियतेन्द्रियत्वस्यैवानियन्त्रितेन्द्रियस्यैव दोषो दूषणम् । तत्किमेकया वाचा स्यात् । सर्वाण्येवेन्द्रियाणि
 
पाठा० -१ द्वारपिधाना• २ समवदत्; समावेदयत् ३ संनिवृत्ता. ४ पञ्जरे संरुद्ध: ५ अहो संकटे ६ संज-
ल्पति. ७ कस्याः. ८ तत्रापि; तथापि ० ९ प्रकोपिता. १० अतोऽभ्यधिककष्टतरम्. ११ उपनतम् १२ मिश्रिता.
१३ दिव्यलोकतो अंश: १४ तिर्यग्योनौ. १५ तर्दिक मम,