2023-11-02 16:10:18 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६९२
 
कादम्बरी
 
[ कथायाम्
 
लोकहृदयेभ्योऽपि निर्घृणतरसर्व [^१]संव्यवहारसमस्तपुरुषम्, अविशेषाचारवाबालयुवस्थविरम्,
अव्यवस्थितगम्यागम्याङ्गनोपभोगम्, अपुण्यकर्मै [^२]कापणं पक्कणमपश्यम् ।
 

 
दृष्ट्वा च तं तादृशं नै[^३]नरकवासिनोऽप्युद्वेगकरं समुत्पन्नघृणोऽन्त- रात्मन्यकरवम्-'अपि
नाम सा चाण्डालदारिका दूरत एव मामालोक्योत्पन्नकरुणा मोचयेत् ? न जातिसदृशमा-
चरिष्यति ? भविष्यन्त्येवंविधानि मे पुण्यानि ? न निमेषमध्प्यत्र पदं कुर्याम्' इत्येवं कृताशं-
समेव मां नीत्वा स चण्डालस्तदा [^४]दुर्दर्शना- कारवेषायै [^५]दूरतः स्थितः प्रणम्य 'एष स मया
प्राप्तः' इति तस्यै चण्डालदारिकायै दर्शितवान् । सा तु प्रहृष्टतरवदना 'शोभनं कृतम्' इति
तमभिधाय तत्करात्खकरयुंस्वकर [^६]युगेनादाय माम् 'आः पुत्रक, प्राप्तोऽसि । सांप्रतं क्वापरं गम्यते ।
व्यपनयामि ते सर्वमिदं कामचारित्वम्' इत्यभिधानैव धावसान [^७]चण्डालबालकोप- नीतेऽ [^८]र्धा-
यालोमश दुर्गन्धिगोचर्मवत्ध्रिकावनद्धे हृढबद्धदारु-
मयपानभोजनपात्रे मनागुद्घाटितद्वारे
 

 

 
[ टि ]--
महर्लोकात्परलोके च पामरे' इति विश्वः । अतिशयेन निस्त्रिंशं निस्त्रिंशतरमतिक्रूरं लोकानां हृदयं यस्मिन्स
तथा तम् । 'क्रूरे नृशंसनिस्त्रिंश — ' इति हैमः । लोकहृदयेभ्य इतरजन- चित्तेभ्योऽपि निर्घृणतरो निर्दयतरः
सर्वः संव्यवहारो व्यवहृति- र्येषामेवंविधाः समस्ताः समग्राः पुरुषा यस्मिन्स तम् । अविशेषो विशेषवर्जित आचारो
येषामेवंभूता बालयुवस्थविराः पाकतरुण- ज्यायांसो यस्मिन्स तम् । अव्यवस्थितोऽनिश्चितो गम्यागम्याङ्ग- नायाः
सेव्यासेव्यस्त्रिय उपभोगो यस्मिन्स तम् । अपुण्यकर्मणा- मश्रेयसकृत्याना मेकम द्वितीयमापणं हट्टमहं पक्कणम पश्यमि-
पश्यमि
त्यन्वयस्तु पूर्वमुक्तः ।
 

 
नरकवासिनोऽपि दुर्गतिस्थायिनोऽप्युद्वेगकरमरतिकरं तं तादृशमुक्तस्वरूपं दृष्ट्वा निरीक्ष्य च समुत्पन्नघृणः
संजात- जुगुप्सोऽन्तरात्मनि चित्तेऽकरवमकल्पयम् । किं तदित्याह - अपीति । अपि नाम कोमला मन्त्रणे ।
सा चाण्डालदारिका म्लेच्छबालिका दूरत एव दविष्ठत एव मामालोक्योत्पन्नकरुणा संजातकारुण्या मोचये-
न्मुक्तितिं कुर्यात् ? जातिसदृशं कुलतुल्यं नाचरि [^1]ष्यति न करिष्यति । एवंविधानि मे मम पुण्यानि श्रेयांसि भवि-
ध्
ष्यन्ति । निमेषमप्यक्षिस्पन्दनमात्रमप्यत्र पदं स्थानं न कुर्यायां न विदध्याम् । इत्येवंप्रकारेण कृता विहिताशंसा
स्पृहा वाञ्छा येनैवंभूतमेव मां नीत्वा स चण्डालो [^2]दुर्दर्शन आकारो वेषश्च यस्याः सा तस्यै दूरतः स्थितः
प्रणम्य नमस्कृत्य स एष मया प्राप्त इति तस्यै चण्डालदारिकायै दर्शितवान्दृग्गोचरीकारितवान् । सा तु
चण्डालदारिका प्रहृष्टतरं प्रमुदिततरं वदनं मुखं यस्याः सा, शोभनं शुभं कृतमिति तं भद्रमुखमभिधाय तस्क-
रात्तत्पाणेस्त-
द्धस्तात्स्वकरयुगेनात्महस्तयुगेन स्त्रीवीयपाणिद्वयेनादाय गृहीत्वा माम् । आः पुत्रक सुत, त्वं प्राप्तोऽसि ।
अतोऽस्मात्स्थानादिति गम्यम् । सांप्रतं कापरमक्वापरमग्रे गम्यते गमनं क्रियते । ते तव सर्वं कामचारित्वं स्वेच्छावि-
हारित्वं व्यपनयामि दूरीकरोमि । इत्यभिदधानैवेति ब्रुवाणैव धावमानस्त्वरितगत्या गच्छमानो यश्चण्डालबाल-

कस्तेनोपनीत आनीतेऽर्धमाश्यानं शुष्कं लोमशं लोमयुक्तं दुर्गन्धि विस्रगन्धि यद्गोचर्म तस्य वधिध्रिका नधी
तयॆ
ध्री तयावनद्धे बद्धे । 'पूतिगन्धिस्तु दुर्गन्धो विस्त्रं स्यादामगन्धि यत्' इत्यमरः । दृढं बद्धानि दारुमयानि काष्ठम-
टिप्प० -

 
 
[^
1]F. 'नाचरेत् ?" इत्येव पाठः, पूर्वप्रयुक्तेन लिङा समन्वयात् । सर्वत्र च आरम्भोपात्तेन अपि-
ना सूचितः प्रश्नो वाक्यार्थः ।
[^
2]F. स्थूलबुद्धिष्टीकाकारः । अग्रे सेयं शापभ्रष्टा लक्ष्मीः संपत्स्यते । नास्या
वैरूप्यं कवेरभिप्रेतम्, अत एव 'अनुद्धततरवेषायै ( न उग्रतरः 'सौम्यः' वेषो यस्याः ) ' इति पाठः ।
 
पाठा० -

 
[^
]G.व्यवहार .
[^
समस्त ]G. समस्तपुरुष एककारणम् .
[^
]G. नरकवासिनाम् .
[^
]G. अशुद्धतरवेषायै .
[^
]G. दूरस्थित; दूरत
एवावस्थितः.
[^
]G. युगलेन .
[^
]G. बहुलबालक .
[^
]G. अर्धश्यान.