कादम्बरी /725
This page has not been fully proofread.
६९२
कादम्बरी
[ कथायाम्
लोकहृदयेभ्योऽपि निर्घृणतरसर्वसंव्यवहारसमस्तपुरुषम् अविशेषाचारवालयुवस्थविरम्,
अव्यवस्थितगम्यागम्याङ्गनोपभोगम्, अपुण्यकर्मैकापणं पक्कणमपश्यम् ।
दृष्ट्वा च तं तादृशं नैरकवासिनोऽप्युद्वेगकरं समुत्पन्नघृणोऽन्तरात्मन्यकरवम्-'अपि
नाम सा चाण्डालदारिका दूरत एव मामालोक्योत्पन्नकरुणा मोचयेत् ? न जातिसदृशमा-
चरिष्यति ? भविष्यन्त्येवंविधानि मे पुण्यानि ? न निमेषमध्यत्र पदं कुर्याम्' इत्येवं कृताशं-
समेव मां नीत्वा स चण्डालस्तदा दुर्दर्शनाकारवेषायै दूरतः स्थितः प्रणम्य 'एष स मया
प्राप्तः' इति तस्यै चण्डालदारिकायै दर्शितवान् । सा तु प्रहृष्टतरवदना 'शोभनं कृतम्' इति
तमभिधाय तत्करात्खकरयुंगेनादाय माम् 'आः पुत्रक, प्राप्तोऽसि । सांगतं क्वापरं गम्यते ।
व्यपनयामि ते सर्वमिदं कामचारित्वम्' इत्यभिधानैव धावसानचण्डालबालकोपनीतेऽर्धा-
यालोमश दुर्गन्धिगोचर्मवत्रिकावनद्धे हृढबद्धदारुमयपानभोजनपात्रे मनागुद्घाटितद्वारे
।
महर्लोकात्परलोके च पामरे' इति विश्वः । अतिशयेन निस्त्रिंशं निस्त्रिंशतरमतिक्रूरं लोकानां हृदयं यस्मिन्स
तथा तम् । 'क्रूरे नृशंसनिस्त्रिंश — ' इति हैमः । लोकहृदयेभ्य इतरजन चित्तेभ्योऽपि निर्घृणतरो निर्दयतरः
सर्वः संव्यवहारो व्यवहृतिर्येषामेवंविधाः समस्ताः समग्राः पुरुषा यस्मिन्स तम् । अविशेषो विशेषवर्जित आचारो
येषामेवंभूता बालयुवस्थविराः पाकतरुणज्यायांसो यस्मिन्स तम् । अव्यवस्थितोऽनिश्चितो गम्यागम्याङ्गनायाः
सेव्यासेव्यस्त्रिय उपभोगो यस्मिन्स तम् । अपुण्यकर्मणामश्रेयसकृत्याना मेकम द्वितीयमापणं हमहं पक्कणम -
पश्यमित्यन्वयस्तु पूर्वमुक्तः ।
नरकवासिनोऽपि दुर्गतिस्थायिनोऽप्युद्वेगकरमरतिकरं तं तादृशमुक्तस्वरूपं दृष्ट्वा निरीक्ष्य च समुत्पन्नघृणः
संजातजुगुप्सोऽन्तरात्मनि चित्तेऽकरवमकल्पयम् । किं तदित्याह - अपीति । अपि नाम कोमला मन्त्रणे ।
सा चाण्डालदारिका म्लेच्छबालिका दूरत एव दविष्ठत एव मामालोक्योत्पन्नकरुणा संजातकारुण्या मोचये-
न्मुक्ति कुर्यात् ? जातिसदृशं कुलतुल्यं नाचरिष्यति न करिष्यति । एवंविधानि मे मम पुण्यानि श्रेयांसि भवि-
ध्यन्ति । निमेषमप्यक्षिस्पन्दनमात्रमप्यत्र पदं स्थानं न कुर्या न विदध्याम् । इत्येवंप्रकारेण कृता विहिताशंसा
स्पृहा वाञ्छा येनैवंभूतमेव मां नीत्वा स चण्डालो दुर्दर्शन आकारो वेषश्च यस्याः सा तस्यै दूरतः स्थितः
प्रणम्य नमस्कृत्य स एष मया प्राप्त इति तस्यै चण्डालदारिकायै दर्शितवान्दृग्गोचरीकारितवान् । सा तु
चण्डालदारिका प्रहृष्टतरं प्रमुदिततरं वदनं मुखं यस्याः सा, शोभनं शुभं कृतमिति तं भद्रमुखमभिधाय तस्क-
रात्तत्पाणेस्तद्धस्तात्स्वकरयुगेनात्महस्तयुगेन स्त्रीयपाणिद्वयेनादाय गृहीत्वा माम् । आः पुत्रक सुत, त्वं प्राप्तोऽसि ।
अतोऽस्मात्स्थानादिति गम्यम् । सांप्रतं कापरम गम्यते गमनं क्रियते । ते तव सर्व कामचारित्वं स्वेच्छावि-
हारित्वं व्यपनयामि दूरीकरोमि । इत्यभिदधानैवेति ब्रुवाणैव धावमानस्त्वरितगत्या गच्छमानो यश्चण्डालबाल-
कस्तेनोपनीत आनीतेऽर्धमाश्यानं शुष्कं लोमशं लोमयुक्तं दुर्गन्धि विस्रगन्धि यगोचर्म तस्य वधिका नधी
तयॆवनद्धे बद्धे । 'पूतिगन्धिस्तु दुर्गन्धो विस्त्रं स्यादामगन्धि यत्' इत्यमरः । दृढं बद्धानि दारुमयानि काष्ठम-
टिप्प० - 1 'नाचरेत् ?" इत्येव पाठः, पूर्वप्रयुक्तेन लिङा समन्वयात् । सर्वत्र च आरम्भोपात्तेन अपि-
ना सूचितः प्रश्नो वाक्यार्थः । 2 स्थूलबुद्धिष्टीकाकारः । अग्रे सेयं शापभ्रष्टा लक्ष्मीः संपत्स्यते । नास्या
वैरूप्यं कवेरभिप्रेतम्, अत एव 'अनुद्धततरवेषायै ( न उग्रतरः 'सौम्यः' वेषो यस्याः ) ' इति पाठः ।
पाठा० - १ व्यवहार २ समस्त पुरुष एककारणम् ३ नरकवासिनाम् ४ अशुद्धतरवेषायै ५ दूरस्थित; दूरत
एवावस्थितः• ६ युगलेन ७ बहुलबालक ८ अर्धश्यान.