2023-11-02 17:16:00 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

नकुशलैः कौलेयकमुक्ति [^१]संचारणचतुरैश्चण्डालशिशुभि- र्वृन्दशो दिशि दिशि [^२]मृगयां क्रीडद्भिर्दूरत [^३]एवावेष्ट्य- मानम्, इतस्ततो विस्रगन्धिधूमोगमानुमीयमानसान्द्र [^४]वंश-
वनान्तरित वेश्मसंनिवेशम्, सर्वतः करङ्कप्रायवृत्ति [^५]वाटम् अस्थिप्रायरथ्यावकरकूटम्, उत्कृत्तमांसभेदो [^६]वसासृक्कर्दम- प्रायकुटीराजिरम्, आखेटप्रायाजीवम् पिशितप्रायाशनम्, वसाप्राय- स्नेहम्, कौशेयप्रायपरिधानम्, चर्मप्रायास्तरणम् सारमेयप्राय- परिवारम्, धवलीप्रायवाहनम्, स्त्रीमद्यप्रायपुरुषार्थम्, असृक्प्राय- देवताबलिपूजम्, पशूपहारप्रायधर्मक्रियम्, आकारमिव सर्वनर- काणाम्, कारणमिव सर्वाकुशलानाम्, संनिवेशमिव सर्वश्मशाना- नाम्, पत्तनमिव सर्वपापानाम्, आयतनमिव सर्वयातनानाम्, स्मर्यमाणमपि भयंकरम् श्रूयमाणमप्युद्वेगकरम्, दृश्यमानमपि पापजननम्, जन्मकर्मतो मलिनतरजनम्, जनतो [^७]निस्त्रिंश-
तरलोकहृदयम्,
 
[ टि ]-- नमभिवादनं तत्र कुशलैश्चतुरैः । कौलेयकानां शुनां मुक्तौ जीवोपरि मोचने संचारण इतस्ततः परिभ्रमणे चतुरैरभिज्ञैः । 'कौलेयकः सारमेयः कुक्कुरो मृगदंशकः' इत्यमरः । एतादृशै- श्चण्डालशिशुभिः श्वपचदारकैः । वृन्दैश्च वृन्दैश्च वृन्दशः । दिशि दिशि मृगया [^1]माखेटकं क्रीडद्भिः क्रीडां कुर्वद्भिः आवेष्ट्य-
मानमित्यनेन संबन्धः । पुनः प्रकारान्तरेण विशेषयन्नाह - इतस्तत इति । इतस्ततो यत्र तत्र विस्रगन्धिरामगन्धो यो धूमोद्गमो दह- नकेतनस्तस्योद्गमेनोर्ध्वगमनेनानुमीय [^2]मानं सान्द्रं निबिडं वंशवनं वेणुकाननं तेनान्तरितो व्यवहितो वेश्मसंनिवेशो यस्य स तम् । करङ्कप्राया शरीरास्थिबहुला या वृतिरावेष्टकस्तस्यां वाटो निःसरणमार्गो यस्मिन्स तथा । 'वाटो वृतौ च मार्गे च वाटी च गृहनिष्कुटे' इति विश्वः । अस्थीनि प्रायो बाहुल्येन यस्यामेवंविधा रथ्या मार्गस्तस्या [^3]मवकरकूटः संकरसमूहो यस्मिन् । 'संकरावकरौ तुल्यौ' इति हैमः । उत्कृत्तमुत्कल्पितं यन्मांसं पललं मेदोऽस्थिकृद्वसा शुद्धमांसस्य स्नेहोऽसुरुधिरमेतेषां कर्दमः पङ्क: प्रायो बाहुल्येन यस्मिन्नेवंभूतं कुटीराणामजिरमङ्गणं यस्मिन्स तम् । 'अजिरं चत्वराङ्गणम्' इति हैमः । आखेटकप्रायं आजीवो जीवनं यस्मिन्स तम् । 'आजीवो जीवनं वार्ता जीविका वृत्तिचेतनम्' इति कोशः । पिशितं मांसं प्रायो बाहुल्येनाशनं भोजनं यस्मिन्स तथा तम् । वसा मांसस्नेहः सैव प्रायः स्नेहो यस्मिन्स तथा तम् । कौशेयं
कृमिकोशोत्थं तदेव प्रायः परिधानमधोंशुकं यस्मिन्स तथा तम् । 'कौशेयं कृमिकोशोत्थं परिधानं त्वधोंशुकम्' इति हैमः । चर्माजिनं प्रायो बाहुल्येनास्तरणं यस्मिन्स तम् । सारमेयाः कुक्कुरास्त एव प्रायः परिवारो यस्मिन्स तम् । धवली गौः सैव प्रायो वाहनं युग्यं यस्मिन्स तम् । स्त्रीमद्ये एव प्रायः पुरुषार्थः पुरुषप्रयत्न-
साध्यः पदार्थो यस्मिन्स तम् । असृग्रुधिरं तदेव प्रायो देवतानां बलिपूजा यस्मिन्स तम् । पशूनामुपहारो बलिः
स एव धर्मक्रिया सुकृताचरणं यस्मिन्स तम् । सर्वनरकाणां सर्वदुर्गतानामाकारमिव स्वरूपमिव । सर्वेषामकु-
शलानामश्रेयसां कारणमिवाकल्याणानां कारणमिव निदानमिव । सर्वेषां श्मशानानां पितृतर्पणानां संनिवेशमिव
स्थानकमिव । सर्वेषां पापानामधर्माणामंहसां पत्तनमिव पुट- भेदनमिव । सर्वासां यातनानां तीव्रवेदनानामत्यन्त.
कष्टाना- मायतनमिव गृहमिव । स्मर्यमाणमपि स्मृतिगोचरीक्रियमाणमपि भयंकरं प्रतिभयावहम् । श्रूयमाणम-
प्याकर्ण्यमानम प्युद्वेगकरम-
रतिजनकमसुखनिष्पादकम् । दृश्यमानमप्यालोक्यमानमपि पापजननमंहसामुत्पाद
कम् । जन्मतः कर्मतश्चातिशयेन मलिना मलिनतरा जना यस्मिन्स तम् । जनतो नीचजनेभ्यः । 'जनो लोके
 

 
टिप्प० –

[^
1]F. 'क्रीड' धातुरकर्मकः । अत एव 'मृगयया' इत्येव पाठः ।
[^
2]F. धिग्बालिशम्, धूमेन
वनस्य किमनुमानम् । धूमोद्गमेन अनुमीयमानः सान्द्रवंशवनान्तरितः वेश्मसंनिवेशो यस्मिन् इत्येव
विग्रहः ।
[^
3]F. अस्थिप्रायाः (अस्थिबहुलाः ) रथ्यासु अवकरकूटा:
( संमार्जनीक्षिप्त 'जञ्जाल'राशयः )
यस्मिन् तथोक्तम् । एवं व्याख्यातव्यम् ।
 
पाठा०-[^]G. संवरण.
[^
]G. मृगया; मृगयया, .
[^
]G. आवेद्यमानम् .
[^
]G. वंशी .
[^
]G. वादम् .
[^
]G. वसाकर्दम, .
[^
]G. निःस्पर्शतर.