This page has not been fully proofread.

दीनप्रार्थनोत्तरमपि पकणे नयनम् ]
 
६९१
 

 
9
 
"
 
,
 
नकुशलैः कौलेयकमुक्तिसंचारणचतुरैश्चण्डालशिशुभिर्वृन्दशो दिशि दिशि मृगयां क्रीडद्भि-
दूरत एवावेष्टयमानम्, इतस्ततो विस्रगन्धिधूमोगमानुमीयमान सान्द्रवंशवनान्तरित वेश्मसं-
निवेशम् सर्वतः करङ्कप्रायवृत्तिवाटम् अस्थिप्रायरध्यावकरकूटम् उत्कृत्तमांसभेदोवँसा-
सृकर्दमप्रायकुटीराजिरम्, आखेटप्रायाजीवम् पिशितप्रायाशनम्, बसाप्रायस्नेहम्, कौशे-
यप्रायपरिधानम्, चर्मप्रायास्तरणम् सारमेयप्रायपरिवारम्, धवलीप्रायवाहनम्, स्त्रीमद्य-
प्रायपुरुषार्थम्, असृक्प्रायदेवताबलिपूजम्, पशुपहारप्रायधर्मक्रियम् आकारमिव सर्वन-
रकाणाम्, कारणमिव सर्वाकुशलानाम्, संनिवेशमिव सर्वश्मशानानाम्, पत्तनमिय सर्व-
पापानाम्, आयतनमिव सर्वयातनानाम्, स्मर्यमाणमपि भयंकरम् श्रूयमाणमप्युद्वेगकरम,
दृश्यमानमपि पापजननम्, जन्मकर्मतो मलिनतरजनम्, जनतो निर्खिराँतरलोकहृदयम्,
 
,
 
उत्तरभागः ।
 
,
 
com
 
नमभिवादनं तत्र कुशलैश्चतुरैः । कौलेयकानां शुनां मुक्तौ जीवोपरि मोचने संचारण इतस्ततः परिभ्रमणे
चतुरैरभिज्ञैः । 'कौलेयकः सारमेयः कुक्कुरो मृगदंशकः' इत्यमरः । एतादृशैश्चण्डालशिशुभिः श्वपचदारकैः ।
वृन्दैश्च वृन्दैश्च वृन्दशः । दिशि दिशि मृगयामाखेटकं क्रीडद्भिः क्रीडां कुर्वद्भिः आवेष्ट्यमानमित्यनेन
संबन्धः । पुनः प्रकारान्तरेण विशेषयन्नाह - इतस्तत इति । इतस्ततो यत्र तत्र विस्रगन्धिरामगन्धो यो
धूमोद्गमो दद्दनकेतनस्तस्योद्गमेनोर्ध्वगमनेनानुमीयमानं सान्द्रं निबिडं वंशवनं वेणुकाननं तेनान्तरितो व्यव
हितो वेश्मसंनिवेशो यस्य स तम् । करङ्कप्राया शरीरास्थिबहुला या वृतिरावेष्टकस्तस्यां वाटो निःसरण-
मार्गो यस्मिन्स तथा । 'वाटो वृतौ च मार्गे च वाटी च गृहनिष्कुटे' इति विश्वः । अस्थीनि प्रायो बाहुल्येन
यस्यामेवंविधा रथ्या मार्गस्तस्यामैवकरकूटः संकरसमूहो यस्मिन् । 'संकरावकरौ तुल्यौ' इति हैमः । उत्कृत्त-
मुत्कल्पितं यन्मांसं पललं मेदोऽस्थिकृद्वसा शुद्धमांसस्य स्नेहोऽसुरुधिरमेतेषां कर्दमः कः प्रायो बाहु-
ल्येन यस्मिन्नेवंभूतं कुटीराणामजिरमङ्गणं यस्मिन्स तम् । 'अजिरं चत्वराङ्गणम्' इति हैमः । आखेटकप्रायं
आजीवो जीवनं यस्मिन्स तम् । 'आजीवो जीवनं वार्ता जीविका वृत्तिचेतनम्' इति कोशः । पिशितं मांसं
प्रायो बाहुल्येनाशनं भोजनं यस्मिन्स तथा तम् । वसा मांसस्नेहः सैव प्रायः स्नेहो यस्मिन्स तथा तम् । कौशेयं
कृमिकोशोत्थं तदेव प्रायः परिधानमघोंशुकं यस्मिन्स तथा तम् । 'कौशेयं कृमिकोशोत्थं परिधानं त्वधोंशु-
कम्' इति हैमः । चर्माजिनं प्रायो बाहुल्येनास्तरणं यस्मिन्स तम् । सारमेयाः कुक्कुरास्त एव प्रायः परिवारो
यस्मिन्स तम् । धवली गौः सैव प्रायो वाहनं युग्यं यस्मिन्स तम् । स्त्रीमधे एव प्रायः पुरुषार्थः पुरुषप्रयत्न-
साध्यः पदार्थो यस्मिन्स तम् । असृग्रुधिरं तदेव प्रायो देवतानां बलिपूजा यस्मिन्स तम् । पशनामुपहारो बलिः
स एव धर्मक्रिया सुकृताचरणं यस्मिन्स तम् । सर्वनरकाणां सर्वदुर्गतानामाकारमिव स्वरूपमिव । सर्वेषामकु-
शलानामश्रेयसां कारणमिवाकल्याणानां कारणमिव निदानमिव । सर्वेषां श्मशानानां पितृतर्पणानां संनिवेशमिव
स्थानकमिव । सर्वेषां पापानामधर्माणामंहसां पत्तनमिव पुटभेदनमिव । सर्वासां यातनानां तीव्रवेदनानामत्यन्त.
कष्टानामायतनमिव गृहमिव । स्मर्यमाणमपि स्मृतिगोचरीक्रियमाणमपि भयंकरं प्रतिभयावहम् । श्रूयमाणम-
प्याकर्ण्यमानम प्युद्वेगकरमरतिजनकमसुखनिष्पादकम् । दृश्यमानमप्यालोक्यमानमपि पापजननमंहसामुत्पाद
कम् । जन्मतः कर्मतश्चातिशयेन मलिना मलिनतरा जना यस्मिन्स तम् । जनतो नीचजनेभ्यः । 'जनो लोके
 

 
टिप्प० – 1 'क्रीड' धातुरकर्मकः । अत एव 'मृगयया' इत्येव पाठः । 2 धिग्बालिशम्, धूमेन
वनस्य किमनुमानम् । धूमोद्गमेन अनुमीयमानः सान्द्रवंशवनान्तरितः वेश्मसंनिवेशो यस्मिन्
विग्रहः । 3 अस्थिप्रायाः (अस्थिबहुलाः ) रथ्यासु अवकरकूटा: ( संमार्जनीक्षिप्त 'जआल'राशयः )
यस्मिन् तथोक्तम् । एवं व्याख्यातव्यम् ।
 
पाठा०-१ संवरण. २ मृगया; मृगयया, ३ आवेद्यमानम् ४ वंशी ५ वादम् ६ वसाकर्दम, ७ निःस्पर्शतर.