कादम्बरी /723
This page has been fully proofread once and needs a second look.
कादम्बरी ।
[ कथायाम्-
सोऽ[ ^२]न्यस्य भयादकार्य नाचरति । तन्नीतोऽसि मया स्वाम्याज्ञया' इत्येवमभिधान एव
मामादाय पक्कणाभिमुखमगच्छत् ।
अहं तु तेन तद्वचसाभिहत इव मूर्ध्नि मूकतामापन्नः केषां पुनः कर्मणामिदं मे फल-
मित्यन्तरात्मनाभिध्यायन्प्राणपरित्यागं प्रति कृतनिश्चयोऽभवम् । नीयमानश्च तथा तेन
तन्मोचनप्रत्याशयैवाप्रतो दत्तदृष्टिराविष्टैरिव बीभेत्सविन्यासर्व्यावृत्तैश्चावर्तकानायपरिभ्रम-
णानिभृतैश्व मृगावपाटितजीर्णवागुरासंप्रन्थनव्यमैश्चोत्रुटितकूटपाशसंमँन्थनायस्तैश्च हस्त-
स्थितसकाण्डकोदण्डैश्च प्रासप्रचण्डपाणिभिश्च सेलग्राहि भिश्च नानाविध ग्राहकविहंगँवाचाल-
विहस्य स्मितं कृत्वा मामब्रवीदभ्यधात् । किं तदित्याह - रे इति । रे मोहान्ध हे मोहेन गताक्ष, शुभाशुभ-
कर्मणोर्धर्माधर्मयोः साक्षिभूताः स्पेयीभूता इन्द्रयमवरुणसोमकुबेराख्याः पञ्च लोकपालास्तवैवात्मशरीर स्थिता
यस्य न पश्यन्ति नावलोकयन्ति स पुमानन्यस्य भयादकार्यमकृत्यं नाचरति न करोति । अहं तु पञ्चभिर्वि-
लोक्यमानोऽप्यकृतं करोमीति भावः । अतो मम दोषो नास्तीत्या शयेनाह - तदिति । तत्तस्मात्कारणान्मया
स्वामिनोऽधीशस्याज्ञया निदेशेन न स्वातन्त्र्येण नीतोऽस्यत्र प्रापितोऽसि । अतो न दूषणं ममेति भावः । इत्येव-
मभिदधान एवेत्येवंब्रुवाण एव मामादाय गृहीत्वा पक्कणस्य शबरावासस्याभिमुखमंगच्छदगमत् ।
अहं तु तेन भद्रमुखेन तद्वचसा तद्वाक्येन मूर्ध्नि शिरस्यभिहत इथ ताडित इव मूकतामापन्नो मूकभावं
प्राप्तः । इदं केषां कर्मणां फलमित्यन्तरात्मनाभिध्यायन्विचारयन्प्राणपरित्यागमसुमोक्षणं प्रति कृतनिश्चयो
विहितनिर्णयोऽभवम् । तथा तेन प्रकारेण तेन चाण्डालेन नीयमानश्च तस्माद्यन्मोचनं मोक्षणं तस्य प्रत्याशा
वाञ्छा तयैवाग्रतः पुरो दत्ता दृष्टिर्येन सोऽहं दूरत एव पक्कणं शबरनिषेशमपश्यं व्यलोकयमिति दूरे-
णान्वयः । इतः पक्कणं विशिनष्टि - आवेष्ट्य मानमिति । आवेष्ट्यमानं परिवेष्टनविषयीक्रियमाणम् । कै-
स्तदेवाह — आविष्टैरिव भूतग्रस्तैरिव । बीभत्सो रौद्रो विन्यासो रचना येषां तैः । व्यावृत्तैश्च आखेटकान्निवृत्तैः ।
आवर्त एवावर्तकः । 'आवर्तः पयसां भ्रमः' इत्यमरः । तत्रानायस्य मत्स्यबन्धनस्य परिभ्रमणमितस्ततः परिक्षे-
पणं तेनानिभृतैश्चञ्चलैः। 'आनायो मत्स्यबन्धनम्' इत्यमरः । मृगैर्हरिणैरवपाटिता विदारिता द्विवाकृता जीर्ण-
घागुरा मृगबन्धनी तस्याः संग्रन्थनं गुम्फनं तेन व्यग्रैर्व्याकुलैः । उत्रुटित उच्छिन्नो यः कूटपाश उन्माथस्तस्य
संग्रन्थनं गुम्फनं तेनायस्तैर्व्यमैश्च । 'उन्माथ: कूटयन्त्रं स्याद्वारा मृगबन्धनी' इत्यमरः । हस्तस्थितानि सका-
ण्डानि सबाणानि कोदण्डानि धनूंषि येषां तैश्च । प्रासैः कुन्तैः प्रचण्डा रौद्राः पाणयो हस्ता येषां तैः ।
सेलं गृह्णन्तीत्येवंशीलाः सेलग्राहिणस्तैश्चै । नानाविधा अनेकप्रकारा ये ग्राहकविहंगाः शिञ्जनैकप्रमुखास्तेषां वाचाल -
2
टिप्प० -1 'तवेव..
... लन्यस्य कस्य ... ' इत्येव पाठः । तव शरीरे स्थिताः पञ्च लोकपाला यथा अकार्य
न पश्यन्ति [ अत एव ध्वया दुष्कृतं कृत्वा फलमिदं भुज्यत इत्या क्षेपो ध्वन्यते ] तथा यस्य न
सः अन्यस्य कस्य वा भयात् अकार्य नाचरति ? अपि तु अन्यस्य भयनिवृत्तौ अकार्यमाचरत्येव । [ मां
मुञ्चन् न त्वं विलोकित इति कुतो दोष इत्यस्य प्रत्युत्तरमिदम् ] टीकाकारस्तु तदिदं चूर्णयांचकार ।
2 भाषायां प्रसिद्ध स्यान्न संस्कृते, 'भल्लग्राहिभिश्च' इत्येव पाठः । 3 मध्यगतानि 'लगुडिभिश्च' इत्यादीनि
विशेषणान्यपि नीचैः पाठान्तरे दृष्टव्यानि, यानि टीकाकारेण न घृतानि ।
१
.
पाठा० - १ तथैव. २ आत्मशरीरे स्थिताः; आत्मस्थिताः ३ अन्यस्य कस्य. ४ आत्मनो मोचन. ५ बीभत्स वि.
न्यासैर्व्यावृत्तैश्च वर्तकानादाय परिभ्रमणानिवृत्तैश्च; बीभत्सुविन्या सैर्व्या वृत्तैश्च वर्तकानामुपरि भ्रमणनिभृतैश्च ६ निग्र-
न्थन; ग्रन्थन. ७ पाशप्रचण्डदण्ड; प्रसरद्दण्डप्रचण्ड, ८ भल्लग्राहिभिश्च लगुडिभिश्च लासकग्राहि भिश्च ९ सेलग्राहक.
१० बाचालकुशलैः; वाचालनाकुशलै:,