कादम्बरी /722
This page has not been fully proofread.
दौनप्रार्थनोत्तरमपि पकणे नयनम् ]
उत्तरभागः ।
चण्डालैः सह्रैकत्र स्थातव्यम् । जरन्मातङ्गाङ्गनाकरोपनीतैः कवलैरात्मा पोषणीयः ।
चण्डालबालकजनस्य क्रोडनीयेन भवितव्यम् । दुरात्मन् पुण्डरीकहतक, धिग्जन्मलाभं ते,
यस्य केर्मणामयमीदृशः परिणाम:, किमर्थं प्रथमगर्भ एव न सहस्रधा शीर्णोऽसि ?
मातः श्रीः, अशरणजनशरणचरणपङ्कजेऽतिगहनभीषणाद्रक्ष मामस्मान्महानरकपातात् ।
तात भुवनन्त्रयन्त्राणक्षम, त्रायस्व कुलतन्तुमेकम् । त्वयैव संवर्धितोऽस्मि । वयस्य कपिञ्जल,
यदि परापत्य त्वयास्मात्पापान मोचितोऽस्मि तदा जन्मान्तरेपि पुनर्मा कृथा मत्समागम-
प्रत्याशाम्' इति । एतानि चान्यानि च चेतसा विलय पुनस्तमभ्यर्थनादी नमवदम् - 'भद्र-
मुख, जातिस्मरो मुनिरस्मि जात्या । तत्तवापि मामस्मान्महतः पापसंकटादुद्धृत्य धर्मो
भवत्येवादृष्टसुखहेतुः । दृष्टेऽपि चै केनचिदपरेणादृष्टय मन्मुक्तिकृतः प्रत्यवायो नास्त्येव ।
तन्मुञ्चतु मां भद्रमुखः' इत्यभिधानश्च पादयोरपतम् । स तु विहस्य मामब्रवीत् -
प्रवेशः कर्तव्यः । चण्डालैरन्तेवासिभिः सहैकत्रै कस्मिन्स्थाने स्थातव्यमवस्थानं कर्तव्यम् । जरत्यश्च ता मात-
ज्ञानामङ्गनाः स्त्रियो युवत्यश्च तासां करोपनी तैर्हस्तानीतैः कवलैर्गण्डोलकैरात्मा पोषणीयः । चण्डालबालकज-
नस्य क्रीडनीयेन क्रीडां कर्तुं योग्येन भवितव्यम् । हे दुरात्मन् हे पापात्मन्, हे पुण्डरीकहतक हे पुण्डरीक-
मारक, ते तव जन्मलाभं धिगस्तु । यस्य कर्मणामयमीदृशः परिणामो विपाकः । प्रथमगर्भे एव सहस्रधा
सहस्रप्रकारेण किमर्थं न शीर्णः शटितोऽसि । हे मातः श्रीः, अशरणजनानां शरणमाश्रयं चरणपङ्कजं चरण-
कमलं यस्यास्तस्याः संबोधनम् । अतिगहनं दुरवगाहनं च तद्भीषणं चेति कर्मधारयः । अतिगहनं भीषण
तस्मादस्मान्महानरकपातान्महादुर्गनिपतनात्त्वं मां वैशम्पायनं रक्ष पाहि त्राहि । तस्मात्कारणाद्धे तात
हे पितः हे जनक, भुवनत्रयस्य विष्टपस्य त्राणं रक्षणं तत्र क्षम समर्थ, एकं कुलतन्तुं कुलपांसुलं वा मां
त्रायस्व रक्ष । 'पांसुलः पुंश्चले शंभोः खदाने पांसुला भुवि' इति विश्वः । त्वयैव भवतैव संवर्धितोऽस्मि वृद्धिं
प्रापितोऽस्मि । हे वयस्य कपिञ्जल, यदि परापत्यागत्य त्वयास्मात्पापान्न मोचितोऽस्मि न त्याजितोऽस्मि तदा
जन्मान्तरेऽपि भवान्तरेऽपि गतजन्मन्यपि पुनर्मत्समागमप्रत्याशां मन्मेलापकस्पृहां मा कृथा मा व्यवस्था
इत्येतानि चान्यानि च चेतसा मनसा विलप्य विलापं कृत्वा पुनस्तमभ्यर्थना प्रार्थना तथा दीनं यथा स्यात्तथा-
बदमवोचम् । हे भद्रमुख हे कल्याणमुख, जातिस्मरो निजजातिस्मरणवानहं जात्या मुनिरस्मि जन्मना यति-
रस्मि । तत्तस्मात्कारणाज्जात्या कृत्वा मामस्मात्पापसंकटात्पापकष्टादंहः कष्टादुद्धृत्योद्धारं कृत्वा तवाप्यदृष्टश्चासौ.
सुखहेतुश्चेति कर्मधारयः । एवंविधो धर्मो भवत्येव । दृष्टेऽपि दूषणं नास्तीत्याशयेनाह - दृष्टेऽपीति । अदृष्ट-
स्यानवलोकितस्य मन्मुक्तिकृतो मन्मोचनकर्तुरपरेण केनचिदृष्टेऽपि वीक्षितेऽपि प्रत्यवायः प्रायश्चित्तं नास्त्येव ।
'धर्मः क्षरति कीर्तनात्' इति स्मृतेः । तेन दृष्टादृष्टसुकृतसमाचरणेऽपि न दोष इति ध्वनितम् । तदिति हेत्वर्थे ।
एष भद्रमुखो मां मुञ्चतु त्यजत्वित्यभिधान इतिब्रुवाणश्चाहं पादयोश्चरणयोरपतं पतितवान् । स तु भद्रमुखो
टिप्प० -1 भागामिजन्मन्यपीति योग्यम् । 2 यत्किञ्चित्प्रलपिता सर्वथाऽनधिकारी ग्रन्थमपि स्प्र
ष्टुम् । अदृष्टसुखहेतुर्धर्मस्तु भवेदेव, किन्तु दृष्टेऽपि दर्शनविषयेऽस्मिन् लोकेपि, केनचिदन्येन अवीक्षितस्य
गम मोचनं कुर्वतस्ते दोषो नास्ति । पूर्व मां निबद्ध्य ततो मुक्तवानिति न त्वं केनचिदृष्टः । अतो न ते
स्वामिदुहितुः सविधे दोषोद्घोषः स्यादित्याशयः । 'मामुद्धृत्य ते धर्मो भवेत्' इति यदि ग्रन्थस्य यथा-
स्थितं वाक्यं ? तर्हि समाधानसापेक्षम्, उद्धृत्य इति उद्धारस्य त्वं कर्ता, भवेत् इत्यस्य च धर्मः कर्ता
बरवाप्रत्यये च द्वयोरेककर्तृकत्वमपेक्षितमित्यलं पौरोभाग्येन ।
न्च
6
पाठा० - १ जनंगमानां करोपनीतैः; जनङ्गमाङ्गनयोपनीतैः कर्मणः ३ पशुलम् ४ भवेत् ५ ते च ते.
६ पुनः पुनः पादयोः
का० ८७