कादम्बरी /721
This page has been fully proofread once and needs a second look.
'महात्मन्, अहं खलु क्रूरकर्मा जात्या चाण्डालः । न च मया त्वमामिषलुब्धेन कु [^१]तूहलेन वा बद्धः । मम खलु स्वामी पक्कणाधिपतिरितो नातिदूरे [^२]मातङ्गकप्रतिबद्धायां
भूमौ कृतावस्थानः । तस्य दुहिता कौतुकमये प्रथमे वयसि वर्तते । तस्यास्त्वं केनापि दुरात्मना कथितो [^३]यथा जाबालेराश्रम एवंगुणविशिष्टो महाश्चर्यकारी शुक [^४]स्तिष्ठतीति । तया च
श्रुत्वोत्पन्नकौतुकात्त्वद्ग्रहणाय [^५]बहव एवापरे मादृशाः समादिष्टाः । तदद्य पुण्यैर्मयासादितोऽसि । तदहं तत्पादमूलं त्वां [^६]प्रापयामि। [^७]बन्धमोक्षे चाधुना सा ते प्रभवति' इति ।
अहं तच्छ्रुत्वा [^८]मुक्ताशनिनेव ताडितः शिरसि, संविग्नान्तरात्मा चेतस्यकरवम्- 'अहो मे मन्दपुण्यस्य दारुणतरः कर्मणां विपाकः । येन मया [^९]सुरासुरशिरः शेखराभ्यर्चितचरणसरसिजायाः श्रियो जातेन, जगत्त्रयनमस्यस्य महामुनेः श्वेतकेतोः स्वहस्तसंवर्धितेन, दिव्य [^१०]लोकाश्रमनिवासिना भूत्वा म्लेच्छजातिभिरपि दूरतः परिहृतप्रवेशमधुना पक्कणं [^११]प्रवेष्टव्यम् ।
[ टि ]-- किं तदित्याह - महात्मन्निति । हे महात्मन् हे महानुभाव, अहं खलु निश्चयेन क्रूरकर्मा निस्त्रिंशकर्मा कठिनकर्मा जात्या जन्मना । 'जातिः सामान्यजन्मनोः' इत्यमरः । चाण्डालः श्वपचः । न च मया चाण्डालेनामिषलुब्धेन मांसगृध्रुना कुतूहलेन [^1]कौतूहलेन वा त्वं बद्धः संदानितः । खलु निश्चये । मम स्वामी पक्कणाधिपतिः पक्कणः शबरावासस्तस्याधिपतिरीश इतः स्थानान्नातिदूरे नातिदविष्ठे मातङ्गकैरन्त्यजैः प्रतिबद्धायां कृतगृहादिरचनायां भूमौ कृतमवस्थानं येन सः । तत्र कृतनिवास इत्यर्थः । 'पक्कण: शबरावासो घोषस्त्वाभीरपल्लिका' इति हैमः ।
तस्य पक्कणाधीशस्य दुहिता सुता कौतुकमय आश्चर्यमयेऽत्य- [^३]द्भुतरूपवत्त्वात्प्रथम आद्ये वयसि दशायां वर्तते ।
केनाप्यज्ञाताभिधानेन दुरात्मना तस्या दुहि [^३]तायास्त्वं कथितो निवेदितो यथा जाबालेर्मुनेराश्रम एवंगुणैर्विशिष्टो महाश्चर्यकारी महाकौतुककृच्छुकस्तिष्ठत्यास्त इति । तया च पक्कणाधिपति- सुतया श्रुत्वाकर्योत्पन्नकौ[^४] तुकात्संजातकुतूहलात्त्वग्रहणाय त्वदानयनाथ बहव एवापरे मादृशा मत्सदृशाः समादिष्टा आज्ञापिताः । तदिति हेत्वर्थे । अद्य पुण्यैः सुकृतैस्त्वं समासादितः प्राप्तोऽसि तत्तस्माद्धेतोस्तस्याः पादमूलं चरणसमीपमहं श्वपचस्त्वां प्रापयामि नयामि । अधुना सांप्रतमिति हेतोस्ते तव [^5]बन्धमोक्षे सैव चाण्डालसुतैव प्रभवति समर्था भवति । नाहम् ।
अहं वैशम्पायनस्तच्छ्रुत्वाकर्ण्य मुक्तो योऽशनिर्वश्ज्रं तेन शिरस्युत्तमाङ्गे ताडित इव संविग्न डाइउद्विग्नोऽन्तरात्मा
यस्यैवंभूत इति चेतसि चित्तेऽकरवं व्यथामन्वतिष्ठम् । अहो इति खेदे । मे मम मन्दपुण्यस्य स्वल्पसुकृतस्य
कर्मणां कृतशुभाशुभानां दारुणतरोऽतिभयावहो विपाकोऽनुभवनकालः येन कारणेन मया सुरासुराणां देवदै-
त्यानां शिरःशेखरैमर्मौलिमुकुटैरभ्यर्चितं पूजितं चरणसरसिजमङ्घ्रिपद्मं यस्या एवं बिधाविधयाः श्रियो लक्ष्म्या जातेनो-
त्पन्नेन जगत्त्रयनमस्यस्य त्रिभुवननमस्करणीयस्य महामुनेः श्वेतकेतोः स्वहस्तैर्निजपाणिभिः संवर्धितेन वृद्धिं
प्रापितेन दिव्यो देवयुक्तो य आश्रमो मुनिस्थानम् । 'आश्रमस्तु मुनिस्थानम्' इति हैमः । तत्र निवासिनाव-
स्थानशीलेन भूत्वा 'पुलिन्दा नाहला निष्ठा शबरा वरुटा भटाः । माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छ-
जातयः ॥' एतैर्म्लेच्छजातिभिरपि दूरतः परित्यक्तः प्रवेशो यस्मिन्ने- तादृशमधुना सांप्रतं पक्कणं प्रवेष्टव्यं तत्र
टिप्प० -- [^1]F. पूर्ववं धर्मिनिर्देशादत्रापि समविशेष्यः 'कुतूहलिना (कौतुकयुक्तेन )' इत्येव पाठः सम्यक् ।
[^2]F. अज्ञानं व्याख्यातुः, कौतुकमये कौतुकबहुले । प्रथमे वयसि ( कौमारे ) सर्वस्य किल कौतुकानि प्रति-
पदं भवन्ति ।
[^3]F. व्याख्यातुर्यथेच्छं व्याकरणम्, विद्यार्थिभिस्तु 'दुहितुः' इति रूपं ज्ञेयम् ।
[^4]F. भ्रष्टः
पाठः । 'उत्पन्न कौतुकया' इत्येव पाठः ।
[^5]F. बन्धे मोशेक्षे चेत्येव पाठः ।
पाठा० -[^१]G. कुतूहलिना.
[^२]G. मातङ्ग.
[^३]G. यथाफिकिल.
[^४]G. तिष्ठतीति .
[^५]G. बहनव एवापरेऽपि; अपरिमिता.
[^६ नया-
]G. नयाम्यहम्.
[^७]G. बन्धमोक्षे च.
[^८ थुफा]G. शुष्काशनिना.
[^९]G. सुरासुरशिखराभ्यचिंर्चिते चरणसरसिजया श्रिया जनित्वा.
[^१०]G. आश्रय.
[^११ प]G. द्रष्टव्यम्.
A
भूमौ कृतावस्थानः । तस्य दुहिता कौतुकमये प्रथमे वयसि वर्तते । तस्यास्त्वं केनापि दुरात्मना कथितो [^३]यथा जाबालेराश्रम एवंगुणविशिष्टो महाश्चर्यकारी शुक [^४]स्तिष्ठतीति । तया च
श्रुत्वोत्पन्नकौतुकात्त्वद्ग्रहणाय [^५]बहव एवापरे मादृशाः समादिष्टाः । तदद्य पुण्यैर्मयासादितोऽसि । तदहं तत्पादमूलं त्वां [^६]प्रापयामि। [^७]बन्धमोक्षे चाधुना सा ते प्रभवति' इति ।
अहं तच्छ्रुत्वा [^८]मुक्ताशनिनेव ताडितः शिरसि, संविग्नान्तरात्मा चेतस्यकरवम्- 'अहो मे मन्दपुण्यस्य दारुणतरः कर्मणां विपाकः । येन मया [^९]सुरासुरशिरः शेखराभ्यर्चितचरणसरसिजायाः श्रियो जातेन, जगत्त्रयनमस्यस्य महामुनेः श्वेतकेतोः स्वहस्तसंवर्धितेन, दिव्य [^१०]लोकाश्रमनिवासिना भूत्वा म्लेच्छजातिभिरपि दूरतः परिहृतप्रवेशमधुना पक्कणं [^११]प्रवेष्टव्यम् ।
[ टि ]-- किं तदित्याह - महात्मन्निति । हे महात्मन् हे महानुभाव, अहं खलु निश्चयेन क्रूरकर्मा निस्त्रिंशकर्मा कठिनकर्मा जात्या जन्मना । 'जातिः सामान्यजन्मनोः' इत्यमरः । चाण्डालः श्वपचः । न च मया चाण्डालेनामिषलुब्धेन मांसगृध्रुना कुतूहलेन [^1]कौतूहलेन वा त्वं बद्धः संदानितः । खलु निश्चये । मम स्वामी पक्कणाधिपतिः पक्कणः शबरावासस्तस्याधिपतिरीश इतः स्थानान्नातिदूरे नातिदविष्ठे मातङ्गकैरन्त्यजैः प्रतिबद्धायां कृतगृहादिरचनायां भूमौ कृतमवस्थानं येन सः । तत्र कृतनिवास इत्यर्थः । 'पक्कण: शबरावासो घोषस्त्वाभीरपल्लिका' इति हैमः ।
तस्य पक्कणाधीशस्य दुहिता सुता कौतुकमय आश्चर्यमयेऽत्य- [^३]द्भुतरूपवत्त्वात्प्रथम आद्ये वयसि दशायां वर्तते ।
केनाप्यज्ञाताभिधानेन दुरात्मना तस्या दुहि [^३]तायास्त्वं कथितो निवेदितो यथा जाबालेर्मुनेराश्रम एवंगुणैर्विशिष्टो महाश्चर्यकारी महाकौतुककृच्छुकस्तिष्ठत्यास्त इति । तया च पक्कणाधिपति- सुतया श्रुत्वाकर्योत्पन्नकौ[^४] तुकात्संजातकुतूहलात्त्वग्रहणाय त्वदानयनाथ बहव एवापरे मादृशा मत्सदृशाः समादिष्टा आज्ञापिताः । तदिति हेत्वर्थे । अद्य पुण्यैः सुकृतैस्त्वं समासादितः प्राप्तोऽसि तत्तस्माद्धेतोस्तस्याः पादमूलं चरणसमीपमहं श्वपचस्त्वां प्रापयामि नयामि । अधुना सांप्रतमिति हेतोस्ते तव [^5]बन्धमोक्षे सैव चाण्डालसुतैव प्रभवति समर्था भवति । नाहम् ।
अहं वैशम्पायनस्तच्छ्रुत्वाकर्ण्य मुक्तो योऽशनिर्व
त्पन्नेन जगत्त्रयनमस्यस्य त्रिभुवननमस्करणीयस्य महामुनेः श्वेतकेतोः स्वहस्तैर्निजपाणिभिः संवर्धितेन वृद्धिं
जातयः ॥' एतैर्म्लेच्छजातिभिरपि दूरतः परित्यक्तः प्रवेशो यस्मिन्ने- तादृशमधुना सांप्रतं पक्कणं प्रवेष्टव्यं तत्र
[^2]F. अज्ञानं व्याख्यातुः, कौतुकमये कौतुकबहुले । प्रथमे वयसि ( कौमारे ) सर्वस्य किल कौतुकानि प्रति
[^3]F. व्याख्यातुर्यथेच्छं व्याकरणम्, विद्यार्थिभिस्तु 'दुहितुः' इति रूपं ज्ञेयम् ।
[^4]F. भ्रष्टः
[^5]F. बन्धे मो
[^२]G. मातङ्ग.
[^३]G. यथा
[^४]G. तिष्ठतीति
[^५]G. बह
[^६
[^७]G. बन्धमोक्षे च.
[^८
[^९]G. सुरासुरशिखराभ्य
[^१०]G. आश्रय.
[^११